OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 9, 2022

 अरुणाचले हिमपातः - सप्त सैनिकाः अप्रत्यक्षाः।

इटानगरम्> अरुणाचलप्रदेशे कमेङ् नामकमण्डलस्य उच्चस्थानेषु क्रियमाणायां  निशापरिक्रमवेलायां जातेन महता हिमपातेन सप्त सैनिकाः अप्रत्यक्षाः अभवन्। चीनेन भूट्टानेन सह सीमांशं गृह्यमाणं १४,०००पादोन्नतपरिमितं जनवासरहितं वनप्रदेशमण्डलं भवति केमाङ्। 

  शैत्यकाले निशापरिक्रमणमत्र बहुदुष्करं भवति। कतिपयदिनेषु महान् हिमपातः अत्र वर्तते। किन्तु सर्वसन्नाहमुपयुज्य रक्षाप्रवर्तनमनुवर्तते इति सेनाधिकारिभिः उक्तम्।