OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 10, 2022

अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः युवकः सेनया रक्षितः। 

 अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः बाबु नामकः केरलीययुवकः सेनया रक्षितः। पाशबद्धो भूत्वा युवकस्य निकटमागतः सैनिकः प्रथमं तस्मै जलमदात्। अनन्तरं २०० मीट्टर् अधस्तात् रज्जुमुपयुज्य बाबुं उपरि उत्थापितवान्। ४६ होरानन्तरमेव बाबुः रक्षितः। तं सेनायाः उदग्रयाने  पालक्काट् जनपदस्य आतुरालयं नीतः च। विशदस्वास्थ्यावलोकनानन्तरं तस्य स्वास्थ्यं समीचीनं चेत् बाबू बन्धुजनैः साकं गृहं प्रतिनिवर्तिष्यते।