OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 17, 2022

 केरले विधानसभामेलनं श्वः आरभ्य। 

अनन्तपुरी> १५ तमकेरलविधानसभायाः चतुर्थं सम्मेलनं राज्यपालस्य आरिफ् मुहम्मद खानस्य नयप्रख्यापनेन शुक्रवासरे आरभते। चरणद्वयात्मकमिदं मेलनं मार्च् २३तमे दिनाङ्के समाप्तिं प्राप्स्यति। मार्च् ११तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्री बालगोपालः अवतारयिष्यति। 

  सम्मेलनस्य प्रथमचरणं १८ दिनाङ्कादारभ्य २४ पर्यन्तमस्ति। २५ - मार्च् १० पर्यन्तं विरामः विधत्तः। ११ तमे आयव्ययपत्रावतरणेन द्वितीयसोपानमारप्स्यते। 

   सम्मेलनकालः विधानसभायां बहुभिः  तर्कवितर्कैः विपक्षदलप्रक्षोभैश्च प्रक्षुब्धः भविष्यतीति राजनैतिकनिरीक्षकै‌ः प्रकल्प्यते।