OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 22, 2022

 के पि ए सी ललिता दिवंगता। 

कोच्चि> विख्याता मलयालचलच्चित्राभिनेत्री के पि ए सी ललिता ह्यः रात्रौ तृप्पूणित्तुरायां दिवंगता। ७४ वयस्का केरल संगीतनाटक अक्कादमी संस्थायाः अध्यक्षपदं अलङ्कुवर्वन्ती आसीत्। 

  १९६९ तमे संवत्सरे मलयालचलनचित्रमण्डलं प्रविष्टा सा ५२ संवत्सरान्तरेषु विविधासु भाषासु ५०० अधिकेषु चलच्चित्रेषु स्वाभिनयपाटवं प्रदर्शितवती। ततः पूर्वं केरलेषु विविधासु नाटकसमितिषु प्रवर्तितवती सा तत्रापि नाट्यप्रतिभां प्रदर्शितवती।  द्विवारं राष्ट्रियपुरस्कारेण समादृता। कैरल्याः निदेशकवरिष्ठः भरतः आसीत् तस्याः भर्ता। चलच्चित्रनिदेशकः नटश्च सिद्धार्थभरतः पुत्रः भवति। श्रीक्कुट्टी नामिका पुत्री अपि विद्यते।