OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 27, 2022

 युक्रैने युद्धः तीव्रः - आत्मसमर्पणविमुखतया राजधानी । 

कीव्> दिनत्रयं यावत् युक्रैने रूसेन अनुवर्तमानः युद्धः तीव्रः अभवत्। रूससेनया कृते अग्निक्षेपण्याक्रमणे बहूनि भवनयूथानि विशीर्णानि। १९८ नागरिकाः हता‌ः। ३३ बालकान् समेत्य १,११५ जनाः व्रणिताः। 

   कीव् नामिकां राजनगरीम् अभिभावयितुं रष्येण यावच्छक्यं प्रायतत तथापि स्वयं र ष्याधिपत्यम् अङ्गीकर्तुं युक्रैनः इतः एतावत्पर्यन्तं न सन्नद्धः भवति। ते यावच्छक्यं प्रतिरोधं कुर्वन्ति। 

  जनाः गुप्तिषु ('बङ्कर्')  अन्तर्भौमस्थानेषु अभयं प्राप्ताः सन्ति। किन्तु कीव् नगरात् सपादलक्षं जनाः पलायिताः इति वार्ताहरैः सूचितम्।