OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 14, 2022

 भारतं चीनात् भीषामभिमुखीकरोतीति अमेरिक्का।

वाषिङ्टण्> भारतचीनयोः सीमामण्डले पूर्वलडाक् नामके स्थाने भारतं चीनात् भीषाम् अभिमुखीकरोतीति अमेरिक्कया बहिर्नीते 'इन्डो पसफिक्'आवेदनपत्रे परामृशति। जो बैडनस्य राष्ट्पतिपदप्राप्त्यनन्तरं प्रथमतया बहिर्नीतं 'इन्डो पसफिक्'आवेदनपत्रमेतत्। 

  चीनस्य कृत्यानि भारताय शक्तमभिग्रहं प्रददति। लडाक् मण्डले चीनेन क्रियमाणेन आर्थिक - सैनिक- नयतन्त्रशक्तिसम्पादनेन विश्वस्मिन् अतिशक्तं भवितुमुद्यममेव चीनेन  क्रियते इति आवेदनपत्रे सूचितम्।