OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 13, 2022

 तमिलनाटे कोविडस्य तृतीयं व्यापनं समाप्तमिति सर्वकारः। 

चेन्नै> तमिलनाट्राज्ये कोविड्रोगस्य तृतीयं व्यापनं समाप्तमिति सर्वकारस्य मूल्यनिर्णयः। ओमिक्रोणप्रभेदस्य व्यापनस्य शमनमभवदिति स्वास्थ्यमन्त्रिणा एं सुब्रह्मण्येनोक्तम्। परन्तु जाग्रत्ताप्रक्षेपाः अनुवर्तिष्यन्ते। वाक्सिनप्रदानकार्यक्रमाः अपि पूर्वाधिकमुत्तमरीत्या एव अनुवर्तिष्यन्ते। 

  कोविड्रोगिणां प्रतिदिनसंख्या ३०,००० इत्यस्मिन् स्थाने ३,००० अभवत्। टि पि आर् मानं तु इदानीं त्रि प्रतिशतं वर्तते। पूर्वं २० आसीदेषा संख्या।