OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 24, 2022

 युक्रैने रूसस्य आक्रमणमारब्धम्; शताधिकाः हता‌ः। 


मोस्को> युक्रैन-रूससंघर्षः तस्य परमकाष्ठां प्राप्तवान्। युक्रेनस्योपरि रूसराष्ट्रेण व्योमाक्रमणमारब्धम्। सैनिकाः स्थलमार्गेण चेर्णोबिल् नगरमुपयाति। युद्धापनयनाय अमेरिका, ब्रिट्टनादिभिः राष्ट्रैः कृताः सर्वे प्रयत्नाः विफलाः जाताः। 

  गुरुवासरस्य प्रभाते एव युद्धः आरब्धः। इतःपर्यन्तं शताधिकाः जनाः हताः। तेषु ४० युक्रेनसैनिकाः उपविंशति नागरिकाश्च अन्तर्भवन्ति। ५० रूस् सैनिकाः अपि व्यापादिताः इति युक्रनेन च निगदितम्। २०३ आक्रमणानि स्वेन कृतानीति रूसेन निगदितम्।