OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 6, 2026

 आन्ध्रप्रदेशः।

अमरावती स्थिरराजधानी। 

नवदिल्ली> आन्ध्रप्रदेशस्य शाश्वतराजधानिरूपेण 'अमरावती'नगरं राज्यसभया अपि अङ्गीकृतम्। गतदिने लोकसभया च एतदधिकृत्य आन्ध्रप्रदेशस्य पुनःसंघटनात्मकं  विधेयकं २०२६ [Andhrapradesh Reorganization (abutment) bill 2026] अङ्गीकृतमासीत्। परं राष्ट्रपतेः हस्ताक्षरीकरणेन नियमः भविष्यति। 

   अमरावत्याः  नूतनराजधानित्वे स्थिररूपेण प्राप्ते राज्यस्याभिवृद्धिः त्वरितगत्या भविष्यति, 'विकसितभारतं - २०४७' इत्यस्य प्राप्तये महद्योगदानं लप्स्यते इति च विधेयकस्य चर्चायाः प्रत्युत्तररूपेण गृहसहमन्त्री नित्यानन्द रायः आत्मनः सुदृढविश्वासं प्रकाशितवान्। 

  किन्तु राजधानेः साक्षात्काराय ३४,००० एकर् मितं भूमिं दत्तवतां २९,००० कृषकाणां समस्याः एतावत्पर्यन्तं न परिहृताः इति वै एस् आर् सि पि दलीयः सदस्यः येराम् वेङ्कट सुब्ब रेड्डिः आरोपितवान्। अमरावतीं आन्ध्रप्रदेशस्य राजधानिरूपेण अङ्गीकर्तुं सर्वकारेण १२ वर्षाणि स्वीकृतानीति कोण्ग्रस् सदस्या रेणुका चौधरी प्रोक्तवती।

Sunday, April 5, 2026

 सि बी एस् ई मध्ये पाठ्यांशनवीकरणम्। 

त्रिभाषाध्ययनम् अनिवार्यम्। 


नवदिल्ली>  राष्ट्रियशैक्षिकनयस्य अंशतया त्रिभाषाध्ययनम् अनिवार्यं कुर्वन्ती सी बी एस् ईसंस्था पाठ्यांशनवीकरणमकरोत्। गणित-शास्त्रविषययोः स्तरद्वयपरीक्षा विधास्यति। कृत्रिमबुद्धेः [A I] अध्ययनं च नूतनीकृतपाठ्यांशे अन्तर्भूतम्। २०२६-२७ अध्ययनवर्षादारभ्य क्रमेण नवीकरणं विधास्यति। 

  अस्मिन् वर्षे षष्ठीकक्ष्यायाः  आरभ्य त्रिभाषाध्ययनम् अनिवार्यं करिष्यति। समागमिष्यमाणेषु  वर्षेषु अनुबन्धकक्ष्यासु अपि तृतीयभाषां पाठयिष्यति। पठितव्येषु तिसृषु  भाषासु द्वे भारतीयभाषे भवितव्ये इति व्यवस्था कृता अस्ति। विदेशविद्यालयेषु पठित्वा अनुवर्तिताध्ययनाय आगच्छद्भ्यः छात्रेभ्यः सविशेषावस्थामनुसृत्य भाषाध्ययने आनुकूल्यं दास्यति।

 यू एस् सेनायां कलहः। 

स्थलसेनाधिकारी बहिर्नीतः। 

वाषिङ्टणः> इरानेन सह युद्धे मासमतीते यू एसस्य सेनायामपि कलहः जात इति सूच्यते। स्थलसेनायाः अधिकारी जनरल् रान्डी जोर्जः रक्षामन्त्री पीट् हेग् सेत् इत्यनेन बहिर्नीतः। सेवानिवृत्तये वर्षमेकम् अवशिष्टमासीत्। अनेन सह सेनायाः परिशीलकनेतृत्वे वर्तमानः जनरल् विल्यं ग्रीन् जूनियर्, गृहसुरक्षामन्त्री क्रिस्टी नोम्, अटोर्णी जनरल् पदीयः पां बोण्टी इत्येते च बहिर्नीताः।

Saturday, April 4, 2026

  रविवर्मराजस्य 'यशोदा कृष्णश्च' चित्रं १६७. २ कोटि रूप्यकेभ्यः विक्रीतम्। 

भारते कस्मैश्चित् चित्राय लब्धम् उच्चतममूल्यम्। 

राजा रविवर्मा, तेन विरचितं चित्रं च।

मुम्बई> विश्वचित्रकारेषु विख्यातः केरलीयः राजा रविवर्मा इत्यनेन आलिखितं  'यशोदा कृष्णश्च' इति कृतनामधेयं तैलिकछायाचित्रं [Oil painting] भारतीय घोषणपूर्वकद्रव्यविक्रयविपण्याम् अभिलेख्यमूल्यं प्रलब्धम्। तस्मै १६७. २ कोटि रूप्यकाणि दत्वा 'सिरम् इन्स्टिट्यूट ओफ् इन्डिया' संस्थायाः अध्यक्षः सैरस् पूनावाला चित्रं क्रीणाति स्म। मुम्बई नगरम् आस्थानत्वेन वर्तमाने 'सफ्रोण् आर्ट्' [Saffron Art] नामके घोषणपूर्वकद्रव्यविक्रयकेन्द्रे आसीत् विक्रयव्यवहारः जातः। भारते कस्मैश्चित् चित्राय घोषणपूर्वकद्रव्यविक्रयेण लब्धम् उच्चतममूल्यमस्ति १६७. २ कोटि इत्येतत्।

  केरले किलिमानूर् राजभवने १८४८ तमे वर्षे लब्धजन्मा रविवर्मा १८९० तमवर्षेषु इदं वर्णचित्रं विरचितवान् इति सूच्यते। पुराणेतिहासकथाः आसन् तस्य चित्राणामितिवृत्तम्।


 

 कान्डिडेट् चतुरङ्गः। 

यावोहिर् सिन्द्रोवः अग्रगामी वर्तते।

प्रग्नानन्दः चतुर्थस्थाने। 

पेजिया (सैप्रस्)>  सैप्रस् राष्ट्रे अनुवर्तमाने फिडे कान्डिडेट् चतुरङ्गप्रतिद्वन्द्वे उस्बस्किस्थानस्य यावोहिर् सिन्द्रोवः इतरानपेक्ष्य प्रभावशाली वर्तते। स्पर्धापरम्परायाः चक्रचतुष्के सम्पूर्णे  विजयत्रयेण एकया समस्थित्या च सार्थत्रयाङ्कैः स्वप्रभावं प्रकाशयन् अग्रे चरति। 

  विश्वचषकजेतृरूपेण कान्डिडेट् चतुरङ्गस्पर्धायां योग्यतां प्राप्तवान् सिन्द्रोवः तृतीये चरणे भारतस्य प्रग्नानन्दं चतुर्थचरणे  विश्वतृतीयस्थाने तिष्ठन्तम् अमेरिकायाः फाबियो करुवानं च पराजित्य स्वशक्तिं प्रमाणीकृतवान्। 

  प्रथमचरणे विजयेन आरब्धवान् प्रग्नानन्दः परं स्वप्राभवं संस्थापयितुं न शक्तः। क्रीडाचतुष्कात् अङ्कद्वयेन सः चतुर्थस्थाने वर्तते। १४ चरणयुक्तायां अस्यां परम्परायां यः विजयी भविष्यति सः अन्तिमप्रतिद्वन्द्वे भारतस्य डि गुकेशेन सह क्रीडिष्यति।

  महिलानां परम्परायां युक्रेनस्य अन्न मुष्चुकाभिधेया सार्धद्वयेन अङ्केन अग्रे तिष्ठति। भारतस्य आर् वैशाली तृतीयस्थाने विश्वचषकं प्राप्तवती दिव्या देशमुखः अष्टमस्थाने च वर्तेते।

Friday, April 3, 2026

 आर्टिमेस् - २ विक्षेपणं विजयकरम्। 

आर्टिमेस् २ विक्षेपणस्थानात् उद्गच्छति। 

केप् कनावरल्> अर्धशताब्द्यनन्तरं मनुजान् वहत् अमेरिकायाः चान्द्रदौत्यं चन्द्रसमीपम् अगच्छत्। नासायाः आर्टिमेस् - २ दौत्याय ओरियोण्  नामकं पेटकं केन्नडि बहिराकाशकेन्द्रात् विक्षिप्तम्। चत्वारः मानवाः दौत्यस्य अंशतया पेटके सन्ति। 

  रैड् वैस्मान्, विक्टर् ग्लोवर्, क्रिस्टीना कोच् इत्येते अमेरिकीयाः जरैमि हान्सन् नामकः कनेडियः च पेटके यात्रिकाः सन्ति। १९७२ तमवर्षात् परं मनुष्यस्य प्रथमा चान्द्रयात्रा भवत्येषा। चन्द्रावतरणमकृत्वा परिभ्रमणानन्तरं दशमे दिने दौत्यं शान्तसमुद्रं प्रत्यागमिष्यति।

 तैलदानं कृतवते भारताय श्रीलङ्कायाः कृतज्ञता। 

कोलम्बो> पश्चिमेष्या युद्धस्य आधारेण तैलेन्धनक्लेशम् अनुभूतवते श्रीलङ्काराष्ट्राय तैलदानेन साह्यं कृतवते भारताय श्रीलङ्कायाः राष्ट्रपतिः अनुर कुमार दिसनायकः कृतज्ञतां व्याहरत्। 

  २०,००० टण् मितं डीसल्, १८,००० टण् मितं पेट्रोलतैलम् अभिव्याप्य ३८,००० टणानाम् इन्धनं भारतात् शनिवासरे कोलम्बो स्वीचकार।

Thursday, April 2, 2026

 इट्टलीरहितविश्वचषकपादकन्दुकम्। 

क्षमताचक्रे बोस्नियादलेन पराजितम्। 

मिलान्> विश्वचषकक्षमताचक्रे पुनरपि इट्टलीदलस्य सन्तापाश्रू! 'यूरोप्यन् प्ले ओफ् फैनल्' (European play off final) Itinerary बोस्निया हेर्सेगोविना इति अस्तित्वमात्रराष्ट्रं प्रति त्वरितलक्ष्यवेधप्रकरणे [Penalty shoot out] इट्टल्याः क्रीडासंघः पराजितः सन् विश्वचषकक्षमताचक्रात् बहिर्गतः। 

  यूरोपभूखण्डात् बोस्नियामतिरिच्य चेक् रिपब्लिक्, स्वीडनं,तुर्की इत्येते दलाः अपि योग्यतां प्रापुः।

Wednesday, April 1, 2026

 मनुजः पुनरपि चन्द्रमुपगच्छति।

आर्टिमिस् - २ विक्षेपणं श्वः। 

वाषिङ्टणः> १९७२ तमवर्षस्य अप्पोलो १७ दौत्यस्यानन्तरं मनुजं पुनरपि चन्द्रमण्डलं प्रापयितुं कृतस्य यत्नस्य अंशतया नासासंस्थायाः आर्टिमिस् - २ गुरुवासरे विक्षिप्यते। फ्लोरिडायां केन्नडी बहिराकाशकेन्द्रात् बुधवासरे सायं ६. २४ वादने [भारतसमयानुसारं गुरुवासरे प्रत्युषसि ३. २४] पेटकस्य विक्षेपणं विधास्यति। पेटके चत्वारः सञ्चारिणः च भविष्यन्ति। चान्द्रभ्रमणपथेन प्रदक्षिणं कृत्वा एप्रिल् दशमे दिनाङ्के भूमिं प्रतिनिवर्तिष्यन्ते। २०२८ तमवर्षस्य 'आर्टमिस् - ३' परियोजनायां भवेत् मनुजस्य चन्द्रावतरणम्।

 एष्याचषकपादकन्दुकक्षमताचक्रं

अन्त्यस्पर्धायां भारतस्य आश्वासविजयः। 

विजयानन्तरं रयान् विल्यंसः (वामे)आकाश मिश्रेण सह आह्लादति। 

कोच्चि> एष्याचषकपादकन्दुकात् बहिर्गतमपि क्षमताचक्रस्य अन्तिमे प्रतिद्वन्द्वे होङकोङं विरुध्य भारतस्य आश्वासविजयः। स विजयः भारतीयपादकन्दुकवहायसि नूतनस्वप्नान् सफलीकर्तुं पक्षमदात् च। एकं विरुध्य लक्ष्यकन्दुकद्वयेनैव भारतस्य विजयः। 

  राष्ट्रियसंघाय प्रथमतया क्रीडितवान् भारतवंशजः आस्त्रेलियीयः रयान् विल्यंसः, आकाश मिश्रः इत्येतौ भारताय लक्ष्यकन्दुकं सम्पादितवन्तौ। एवर्टण् कमार्गो नामकः होङ्कोङ्गाय आश्वासलक्ष्यं प्राप्तवान्।

Tuesday, March 31, 2026

 एष्याचषकपादकन्दुकम्। 

भारत-होङ्कोङ् प्रतिद्वन्द्वः अद्य। 

कोच्ची> एष्याचषकक्रीडायै सामर्थ्यं न लब्धमपि सामर्थ्यनिर्णयप्रतियेगितायाः  अन्तिमस्पर्धायां भारतमद्य होङ्कोङसंघं विरुध्य क्रीडिष्यति। कोच्ची जवाहरलाल अन्ताराष्ट्रिय क्रीडाङ्कणे रात्रौ सप्तवादने अस्ति स्पर्धा।

 केरलम्।

एस् एस् एल् सि परीक्षा समाप्ता। 

अनन्तपुरी> राज्यस्य दशमीकक्ष्याः सांवत्सरीयसामान्यपरीक्षाः - एस् एस् एल् सि परीक्षा - गतदिने समाप्ता। ३०३१ परीक्षाकेन्द्रेषु १३ लक्षाधिके छात्राः परीक्षां लिखितवन्तः।

   एप्रिल् १६ तमदिनाङ्कतः मूल्यनिर्णयः आरप्स्यते। तदर्थं ७२ शिबिराणि विनिश्चितानि। ९००० मूल्यनिर्णेतारः,९५० उपमुख्यनिर्णेतारश्च नियुक्ताः। परिणामोद्घोषः मेय्मासस्य तृतीयसप्ताहे भविष्यति।

 जनसंख्यागणना

प्रथमचरणं श्वः आरभ्यते। 

जनसंख्यागणनमधिकृत्य विशदीकर्तुम् आकारितं पत्रकारितामेलनम्। 

राष्ट्रस्य प्रथमं सम्पूर्ण 'डिजिटल्' जनसंख्यागणनम्। 

नवदिल्ली> १६ वर्षाणामनन्तरं भारते सम्पद्यमानस्य जनसंख्यागणनस्य प्रथमचरणं एप्रिल् प्रथमदिनाङ्के समारप्स्यते। प्रथमसोपाने भवनानां गणना एव विधास्यते। तस्य पूर्वानुबन्धतया आत्मवृत्तान्तसमर्पणं [Self enumeration] कर्तुं शक्यते। se.census.gov.in इति पोर्टल् द्वारा एतत् साध्यमस्ति। एतदर्थं परिकल्पितानां३३ प्रश्नानां समाधानं दातव्यम्।  

  भवनगणनायाः आधारे भवनावल्याः सज्जीकरणं सूचनासञ्चयनं च सेप्टम्बर् ३० तमदिनाङ्काभ्यन्तरे पूर्णतामाप्स्यति। २०२७ फेब्रुवरिमासे द्वितीयचरणे जनसंख्यागणनं सम्पत्स्यते। जातिगणनमपि अनेन सह विधास्यति।

Monday, March 30, 2026

 पञ्चाबे द्वौ भीकरौ निगृहीतौ। 

चण्डीगढः> भारते भीकरप्रवर्तनं लक्ष्यीकृत्य प्रवृत्ता पाकिस्थानीयभीकराभियोजना पञ्चाबारक्षणसेनायाः व्यवहारेण भग्ना जाता। मलर्कोटला इत्यस्मात् स्थानात् द्वौ पाकिस्थानीयौ  भीकरौ तयोः साह्यकारश्च पञ्चाब-काश्मीरयोः आरक्षणसेनाभ्यां मिलित्वा कृतप्रयत्नेन निगृहीताः। अबु गबः, उस्मानः इत्येतौ निगृहीतौ भीकरौ। जमील् नामकः काश्मीरीयः तयोः सहायी अस्ति। 

  काश्मीरमपहाय पञ्चाबं केन्द्रीकृत्य भीकरप्रवर्तनानि संयोजयन्ति इति पाक् भीकराणां नूतना रीतिः। उन्मादकवस्तूनां क्रयविक्रयमधिकृत्य कृतम् अन्वेषणं भीकरसंघस्य निग्रहणे पर्यवसितमासीत्।

 स्थलयुद्धभीतिः।

+ यू एसस्य युद्धनौसमूहः पश्चिमेष्यां प्राप।

+ स्थलयुद्धाय प्रयतते चेत् प्रज्वालयिष्यतीति इरानः। 

दुबाय्> इरानं विरुध्य स्थलयुद्धस्य आशङ्कामुन्नीय यू एसस्य २५०० नौयुद्धवाहनैः उपसहस्रं नाविकैः सह यू एस् एस् ट्रिपोलीती युद्धमहानौका पश्चिमेष्यां सम्प्राप्ता। 

  यू एस् सैनिकानां भूतलस्पर्शे वर्तमाने तेषां ज्वालनाय इरानस्य भटाः प्रतीक्षमाणाः वर्तन्ते  इति इरानीयसंसद्सभापतिः मुहम्मद बाखर् खालिबाफ् पूर्वसूचना दत्तवान्। पश्चिमेष्यायां वर्तमानान् यू एस् निलयान् सख्यराष्ट्राणि च विरुध्य तीव्रमाक्रमणं विधास्यामः इति सः अवदत्।

Sunday, March 29, 2026

 केरलम्। 

ग्रीष्मातपेन सह निर्वाचनातपः। 

नरेन्द्रमोदी अद्य राज्ये; राहुलगान्धी श्वः। 

पालक्काट् नगरे लब्धे स्वीकरणे प्रधानमन्त्री नरेन्द्रमोदी 'चेण्टा'नामकं केरलीयवाद्यं वादयति। 

कोच्ची> केरले सर्वत्र विधानसभानिर्वाचनस्य उत्साहः पारम्यमुपगच्छति। अद्यावधि राज्यनेतॄणां नेतृत्वे प्रथमिकस्तरप्रचरणम् आरोपणप्रत्यारोपणैः  प्रचलदासीत्। परं देशीयनेतॄणां सान्निध्येन प्रचरणस्य द्वितीयसोपानं प्राविशत्। 

  भाजपा दलीयस्थानाशिनां प्रचरणाय प्रधानमन्त्री नरेन्द्रमोदी अद्य पालक्काट् तृशूर् जनपदद्वये वीथीप्रदर्शनेन महासम्मेलनेन च जनान् अभिसंबोधयति स्म। श्वः कोण्ग्रस् नेता राहुल गान्धी पत्तनंतिट्टाजनपदं प्राप्य बहुषु स्थानेषु यू डि एफ् स्थानाशिनां कृते प्रचरणं विधास्यति। 

  वामपक्षीयस्थानाशिनां कृते आर् जे डी दलस्य राष्ट्रियप्रवृत्यध्यक्षः तथा बिहारस्य विपक्षनेता तेजस्वी यादवः ३१ तमे दिनाङ्के केरलं प्राप्स्यति। दिनत्रयं त्रिषु जनपदेषु सः वामपक्षसख्यस्य स्थानाशिनां विजयाय प्रचरणं करिष्यति।

 इरानयुद्धे 'हूतिनः' अपि भागं गृहीतवन्तः।

इस्रयेलं प्रति मिसैल् वर्षः। 

टेल् अवीव्> एकमासं यावत्  यू एस् - इस्रयेलसख्यं इरानं विरुद्ध्य क्रियमाणे युद्धे यमनराष्ट्रस्थः हूतिविभागश्च भागं गृहीतवन्तः। शनिवासरे हूतिनः इस्रयेलं प्रति बालिस्टिक् मिसैल् शस्त्राणि प्रयुक्तवन्तः। रक्तसमुद्रे अपि युद्धव्यापनम् आशङ्कते। 

  लबनस्य सायुधसेना हिस्बुल्ला पूर्वमेव इरानस्य पक्षं प्राप्ता आसीत्। प्रथमतया एव हूतिसेना इरानस्य पक्षं प्रत्यक्षमागच्छति। इरानं विरुद्ध्य आक्रमणं यावदनुवर्तिष्यते तावत् इस्रयेलं विरुध्य आक्रमणं करिष्यतीति हूतिविभागेन निगदितम्।

Saturday, March 28, 2026

 ७५४ यात्राविमानेषु ३७७ दोषयुक्तानि। 

नवदिल्ली> राष्ट्रस्य व्योमयानमण्डलस्य सुरक्षामधिकृत्य  संसदीयसमित्या सज्जम् आवेदनपत्रं आशङ्कां जनयति। २०२५ जनुवरिमासादारभ्य २०२६ फेब्रुवरिमासपर्यन्तं परिशोधितेषु ७५४ यात्राविमानेषु ३७७ संख्यकेषु अनुवर्तमानाः साङ्केतिकदोषाः अधिगताः इति सुरक्षासमित्या सूच्यते। सुरक्षासंविधाने आपादचूडं नवीकरणमावश्यकमिति समित्या निर्दिष्टम्। 

 विमानेषु भूरिशः 'एयर् इन्डिया', एयर् इन्डिया एक्स्प्रेस' इत्येतयोः अस्ति। एयर् इन्डियायाः २६६ विमानेषु शोधितेषु १३६ विमानेषु अनुवर्तमानाः यन्त्रदोषाः अधिगताः। एयर् इन्डिया एक्स्प्रेसस्य १०१ विमानेषु ५४ संख्यकानि अनुवर्तमानदोषयुक्तानि सन्ति। एयर् इन्डियायां उपशतं सुरक्षालंघनानि चाधिगतानि।

 ऐ पि एल् क्रिकट् क्रीडोत्सवः अद्य आरभ्यते। 


बङ्गलुरु> इन्डियन् प्रीमियर् लीग् [Indian Premier League - IPL] क्रिकट् क्रीडाः शनिवासरे आरभ्यन्ते। चिन्नस्वामि क्रीडाङ्कणे रात्रौ ७. ३० वादने  वर्तमानीनप्रवीराः 'रोयल् चलञ्चेर्स् बङ्गलुरु' , 'सण् रैसेर्स् हैदराबादः' च मिथः प्रारम्भस्पर्धा सम्पत्स्यते।

  दश संघाः वीरतापरीक्षणे भागं कुर्वन्ति। आहत्य ८४ स्पर्धाः भविष्यन्ति। भारतस्य विभिन्नराज्येषु १४ स्थानेषु स्पर्धाः सम्पत्स्यन्ते।

Friday, March 27, 2026

 केरलम्। 

श्रीरामकृष्णविश्वमन्दिरस्य सुवर्णजयन्ति 

सन्यासिसम्मेलनं यतिपूजनं च सम्पन्नम्। 

यतिपूजनस्य दृश्यम्। 

कालटि> श्रीरामकृष्णमिषन् संस्थया कालटिग्रामे स्थापितस्य श्रीरामकृष्णविश्वमन्दिरस्य सुवर्णजयन्तिमहोत्सवस्य द्वितीयदिने मध्याह्ने सन्न्यासिसम्मेलनं यतिपूजनं च सम्पन्नम्।

  सन्न्यासिसंगमे कालटि श्रीरामकृष्ण अद्वैताश्रमस्य अधिपतिः स्वामी विद्यानन्दजी अध्यक्षः अभवत्। श्रीरामकृष्ण मिषन् संस्थायाः परमाध्यक्षः स्वामी गौतमानन्द महाराजः विशिष्टातिथिः आसीत्।  शिवगिरि मठाधिपतिः स्वामी सच्चिदानन्दः, वीरभद्रानन्दः [श्रीरामकृष्ण मठं हरिप्पाट्],  विविक्तानन्दः [चिन्मय मिषन् केरलं], प्रज्ञानन्दतीर्थः [तीर्थपादाश्रमः वाष़ूर्], चिदानन्द पुरी [अद्वैताश्रमः कुलत्तूर्], अमृतकृपानन्दः [अमृतानन्दमयी मठं कण्णूर्] इत्येते विविधविषयानधिकृत्य भषणमकुर्वन्। 

  तदनन्तरं १३० तः अधिकान् यतिवर्यान् साम्प्रदायिकरीत्या अद्वैताश्रमस्य नेतृत्वे भक्तमण्डलं  पूजयित्वा आध्यात्मिकमण्डले तेषां योगदानानि समाद्रियत।

 बङ्गलादेशे बस् यानं नदीं पतित्वा २४ जनाः मृताः।

धाक्का> संघाटं प्रति आरोहणावसरे बङ्गलादेशे लोकयानं पद्मानदीं पतित्वा २४ जनाः मृत्युमुपगताः। बुधवासरे सायं राजबाडी इत्यत्र दौलिया नौकानिस्थाने आसीदियं दुर्घटना। ईद् दिनस्य विरामानन्तरं धाक्कातः प्रतिनिवर्तमानाः उपचत्वारिंशत् यात्रिकाः लोकयाने आसन्निति सूच्यते। ११ जनाः तीर्त्वा रक्षां प्राप्ताः। २४ मृतशरीराणि अधिगतानि।

Thursday, March 26, 2026

 एल् पि जी, क्रूडोयिल् दौर्लभ्यं नास्तीति केन्द्रसर्वकारः। 

नवदिल्ली> राष्ट्रे द्रवीकृतपाकवातेन्धनस्य असंस्कृततैलेन्धनस्य च दौर्लभ्यं नास्ति इति केन्द्रसर्वकारेण प्रस्तुतम्। पश्चिमेष्या संघर्षस्य आधारे राष्ट्रस्य समकालिकस्थितिं चर्चितुं प्रशासनेन आकारिते  सर्वपक्षदलीयानाम् उपवेशने आसीदयं प्रस्तावः। केन्द्रमन्त्रिणौ एस् जयशङ्करः, हरदीपसिंह पुरी च अवस्थां विशदीकृतवन्तौ। 

  पञ्च एल् पि जीवाहिन्यः महानौकाः अचिरेण भारतं सम्प्राप्स्यन्तीति सर्वकारेण निगदितम्।

 युद्धेन इरानः लाभमार्जयति। तैलव्यापारः वर्धितः।

टेहरान् पश्चिमेष्या संघर्षे स्थिते सति इरानस्य तैलविपणी ऊर्जस्वलतया प्रचलति। व्योमाक्रमणानि अनुवर्तन्ते तथा सति च इरानस्य प्रधानतैलोत्पादककेन्द्राणां हानिः न अभवत् इति प्रतिवेदनमस्ति। होर्मुस् सागरान्तरालद्वारा तैलवाहिन्यः निर्बाधतया संतरन्ति। इरानस्य समीपराष्ट्रेषु विपण्यः समस्यां समुखीकुर्वन्ति। तथापि इरानस्य तैलेन कोटिशः डोलर्धनस्य वृद्धिः जाता।

Wednesday, March 25, 2026

 केरलम्। 

कालटि श्रीरामकृष्णविश्वमन्दिरस्य

सुवर्णजयन्तिमहोत्सवः समारब्धः। 


कालटी> जगद्गुरु आदिशङ्करस्य जन्मग्रामे परिलसतः श्रीरामकृष्णविश्वमन्दिरस्य ५० तमः वार्षिकोत्सवः बुधवासरे समारब्धः। महोत्सववेलायां श्रीरामकृष्णमठस्य तथा श्रीरामकृष्णमिषन् संस्थायाश्च आगोलाध्यक्षस्य पूजनीय श्रीमद् गौतमानन्दजी महाराजस्वामिनः सान्निध्यमस्ति। 

  कालटिग्रामस्य नवोत्थानाय १९३६ तमे वर्षे श्रीमदागमानन्दस्वामिना श्रीरामकृष्ण अद्वैतश्रमः स्थापितः। १९७६ तमे वर्षे सर्वधर्मसाहोदर्यस्य समभावनायाश्च सन्देशं प्रचारयितुं श्रीरामकृष्णविश्वमन्दिरस्य संस्थापनं सम्पन्नम्। 

  सुवर्णसांवत्सरीयमहोत्सवः  बुधवासरात् आरभ्य शुक्रवासरे समाप्यते। बुधवासरे प्रभातसम्मेलनं तिरुवितांकूर् देवस्वं संस्थायाः अध्यक्षः के जयकुमार् IAS उद्घाटनमकरोत्। स्वामी वीतसंगानन्दजी अध्यक्षपदमलङ्करोति स्म।  सत्यज्ञानानन्दस्वामी अनुग्रहभाषणमकरोत्। ततः   युवकजनसम्मेलने विविधेषु सत्रेषु युवतासंबन्धकाः विविधाः विषयाः प्रस्तुताः। 

  गुरुवासरे श्रीरामकृष्ण-शारदादेवीसम्बन्धकेषु विषयेषु प्रभाषणानि सन्यासिसंगमं च सम्पत्स्यन्ते। शुक्रवासरे आकेरलश्रीरामकृष्णभक्तानां २४ तमं सम्मेलनं भविष्यति।

 हरीष राणः इहलोकवासं तत्याज। 

राष्ट्रे प्रथमं दयामरणम्। 


नवदिल्ली> १३ संवत्सराणां चलनरहितजीवनात् विरम्य ३२ वयस्कः  हरीष राणः परलोकं गतवान्। सर्वोच्चन्यायालयस्य अनुज्ञया दयामृत्युं स्वीकृतवान्। दिल्ल्याम् एयिंस् आतुरालये मंगलवासरे सायं ४. १० वादने तस्यान्त्यम्। जीवितं प्रति अन्यत् प्रतिनिवर्तनं न भवेदिति वैद्यकानां विधिः आसीदपि एतावत्कालपर्यन्तं हरीरस्य पितरौ तस्य परिचर्यायां व्यापृतौ आस्ताम्। हरीषस्य अवयवान् दानं कृत्वा पितरौ आदर्शभूतं सन्देशमपि कृतवन्तौ। 

  २०१३ तमे वर्षे, पञ्चाब विश्वविद्यालये तन्त्रविद्याछात्रे सति चण्डीगढस्थात् भवनसमुच्चयस्य चतुर्थस्तरात् भूमौ पतित्वा हरीषः अत्यन्ताभद्रावस्थया आहतः जातः। तस्मादारभ्य जीवनितप्रतिनिवर्तनमसाध्यं भूत्वा जीवच्छवरूपेण वर्तमानः आसीत्। अबोधावस्थायां बहुवर्षेषु अतीतेषु तस्य सङ्कटविमोचनाय पितरौ नीतिपीठं सम्प्राप्तवन्तौ।  महत्वपूर्णजीवनस्य अधिकारमिव महत्वपूर्णमरणस्यापि मानवस्य अधिकारः अस्तीति तयोः वादः सर्वोच्चन्यायालयेन अङ्गीकृतः। ततः राष्ट्रे इदंप्रथमतया 'निष्क्रियदयावधम्' अनुमोदितम्। मार्च् ११ तमे दिनाङ्के आसीत् सर्वोच्चन्यायालयस्य सुप्रधानविधिः।

  ततः परं हरीषाय उपस्थापितानि प्राणरक्षणयन्त्राणि क्रमशः अपाकृतानि। परिवारस्य  नीतिज्ञायाः च अर्थनां समादृत्य 'दयावधस्य' स्थाने 'चिकित्सा निरासः' इति पदमेव विधिप्रस्तावे प्रयुक्तमिति श्रद्धेयः अस्ति।

पश्चिमेष्या युद्धम् - ऊर्जसुरक्षां दृढीकर्तुं प्रधानमन्त्रिणः नेतृत्वे आपत्कालीनोन्नतस्तरयोगः। 
नवदिल्ली> पश्चिमेष्यायां युद्धे रूक्षे जाते राष्ट्र पेट्रोलियं, क्रूड् तैलं, वातकं, ऊर्जं, उर्वरकम् इत्यादिषु स्तरेषु इदानीन्तनावस्थां निर्णेतुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे उन्नतस्तरमेलनं समभवत्। गृहमन्त्री अमित् शहः प्रतिरोधमन्त्री राजनाथसिंहः, विदेशकार्यमन्त्री एस् जयशङ्कर् आदयः मेलने भागं स्वीकृतवन्तः। मेलने विभवानां वितरणं सुस्थिररूपेण तथा सुरक्षितया समयबन्धितया वितरणं च दृढीकर्तुं श्रद्धा दत्ता

Tuesday, March 24, 2026

 विश्वचषकपादकन्दुकम्।

क्रीडाक्षमतायै 'प्ले ओफ्' [Play off] स्पर्धाः गुरुवासरतः। 

 > जूण् मासे आरभ्यमाणे विश्वचषक पादकन्दुके ४८ संघाः क्रीडिष्यन्ति। यू एस्, मेक्सिको, कानडा इत्येतान् आतिथेयराष्ट्रसंघान् अतिरिच्य ३९ संघाः क्रीडावल्यां स्थानं लब्धवन्तः। अवशिष्टेभ्यः षट् स्थानेभ्यः २२ संघाः स्पर्धासन्नद्धाः वर्तन्ते। एतेषां Play off स्पर्धाः गुरुवासरे आरप्स्यन्ते। द्वौ भूखण्डान्तर Play off प्रतिद्वन्द्वौ चत्वारः यूरोपीय Play off प्रतिद्वन्द्वाः च प्रचालनीयाः सन्ति।

 केरलम्। 

ग्रीष्मातपः वर्धते; जागरूकतासूचना। 

कोच्ची> आकेरलं ग्रीष्मकालानातपः प्रतिदिनं वर्धमानः अस्ति। तापमानः इदानीं विविधजनपदेषु ३६ - ३७ डिग्री सेल्ष्यस् मितं वर्तते। आगामिदिनेषु तापमाने डिग्रिद्वयं यावत् वृद्धिः प्रतीक्षते। अतः वयनाट् इटुक्की जनपदद्वयात् ऋते १२ जनपदेषु ग्रीष्मकालीना पीतजागरूकता उद्घोषिता पर्यावरणविभागेन।

 महिला आरक्षकपरिष्करणविधेयकम् अस्मिन् सप्ताहे।

लोकसभास्थानानि ८१६; महिलाः २७३!

भारतीयसंसद्सभागारः। 

नवदिल्ली> संसदा अनुमोदितेन महिला आरक्षकपरिष्करणनियमेन लोकसभां विधानसभां च ३३% महिलारक्षणं शीघ्रतां कर्तुं संविधानपरिष्करण विधेयकम् अस्मिन् सप्ताहे एव संसदि प्रस्तौष्यतीति सूच्यते। 

  २०११ तमवर्षस्य जनसंख्यागणनस्य आधारे मण्डलपुनर्निणयं कृत्वा महिलारक्षणं कर्तुमेव प्रशासनस्य प्रक्रमः। एतदनुसारेण लोकसभास्थानानां संख्या ५४३ इत्यस्मात् ८१६ भविष्यति। महिलानां प्रातिनिध्यं २७३ भविष्यति च। प्रत्येकस्मिन् राज्ये च विधानसभानां संख्या च वर्धिष्यते।

 इरानेन सह संघर्षे ट्रम्पस्य सौमनस्यम्। 

अन्त्यनिर्देशात् अपासरत्। पञ्च दिनानि यावत् युद्धविरामः। 

डोनाल्ड ट्रम्पः ।

वाषिङ्टणः> २४ दिनानि यावदनुवर्तमानस्य पश्चिमेष्यासंघर्षस्य अल्पकालीनाश्वासः! संघर्षस्य सम्पूर्णपरिहाराय इरानेन सह विधत्तायां दिनद्वयात्मकचर्चायां क्रियात्मकः प्रगतिरभवत् इति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रस्तुतम्। अस्याधारे होर्मुस् सामुद्रिकधुनेः उद्घाटनाय पञ्च दिनानि अनुमोदितानि। ४८ होराः अन्त्यनिर्देशात् ट्रम्पः अपासरत्। अस्मिन् कालखण्डे इरानस्य ऊर्जनिलयाः न आक्रमिष्यन्ते इति ट्रम्पेन सूचितम्। 

  किन्तु इरानस्य शक्तस्य निर्देशस्य आधारे यू एस् राष्ट्रपतिः युद्धात् अपसृतः इति इरानीय राष्ट्रियमाध्यमेन अभिमानितम्। ट्रम्पेन सह इरानस्य पक्षतः काSपि चर्चा न सम्पन्ना इति च माध्यमेन प्रस्तुतम्।

 इरानं विरुध्य युद्धं पञ्चदिनानि यावत् स्थगयितुं ट्रम्पेन निर्देशः दत्तः।  अन्तारााष्ट्रिय विपण्यां तैलमूल्यम् आकुञ्जितम्।

   न्यूयोर्क्> इरानराष्ट्रस्य ऊर्जनिलयानि लक्ष्यीकृत्य आरब्धुं निश्चितानि सैनिकाक्रमणानि पञ्चदिनानि यावत् स्थगयितुं यु एस् राष्ट्राधिपेन ट्रम्पेण यदा निर्दिष्टम् तदा आगोल विपण्यां तेलेन्धनस्य मूल्यम् आकुञ्चितम्। 'ब्रेन्ट् क्रूड्' तैलस्य मूल्यं प्रतिशतं १५ इति क्रमेण आकुञ्चितम्। मार्च ११ दिनाङ्कानन्तरं प्रथमतया एव तैलेन्धनस्य मूल्यं न्यूनीभूय एकबारलस्य १००० डोलर् इति क्रमेण आकुञ्चितम्।

 शत्रूणां महानौकां विहाय होर्मुस् सागरान्तरालमार्गः उद्घाटितः इति इरानः।

टेहरान्> होर्मूस् सागरान्तरालमार्गः स्वशत्रून् तदनुबन्धिनः च विहाय अन्येषां सर्वेषां कृते उद्घाटितः अस्ति इति इरानेन उक्तम्। ऐक्यराष्ट्रसभायाः मारिटैम् प्रतिनिधिना वार्तेयं प्रस्तुता।

Monday, March 23, 2026

 इन्धनक्लेशे भारतस्य आश्वासः।

द्वे विदेशमहानौके सेन्धने मङ्गलुरु प्राप्ते।

मङ्गलुरु समीपं प्राप्ता पिक्सिस् पयनियर् महानौका। 

 

मङ्गलुरु> पश्चिमेष्यासंघर्षस्य मध्ये भारताय समाश्वासं प्रदन्ती वार्ता। असंस्कृततैलेन्धनं तथा पाकवायुं च वहत्यौ द्वे  पण्यमहानौके मङ्गलुरु नौकाश्रयं प्राप्तवत्यौ। ९६,००० टण मितं असंस्कृततैलं वहन्ती रूसीयमहानौका 'अक्वा टैटन्' नामिका शनिवासरे, एवं ४७,२३६ टण मितं पाकवातयुक्ता 'पिक्सिस् पयनियर्' इति कथ्यमाना अमेरिकीयमहानौका रविवासरे च मङ्गलुरु नौकाश्रयस्य समीपं प्राप्तवत्यौ।मार्चमासस्य अन्तिमसप्ताहे तिस्रः तैलमहानौकाः च भारतं  प्राप्स्यन्ति।

 पिनद्धं होर्मुस्  उद्घाटयितुं ट्रम्पस्य अन्त्यशासनम्। 

शत्रुभ्यः ऋते उद्घाटितः एव वर्तते इति इरानः। 

वाषिङ्टणः> आगोलरीत्या तैलादीनां इतरपण्यवस्तूनां च नयनानयनं होर्मूस् नाम सागरान्तरालमार्गेण प्रचलति। इरानेन तस्य मार्गस्य पिधाने रोधने कृते तैलेन्धनादीनां समस्या समागता । तथा सति  इरानं प्रति डोनाल्ड ट्रम्पस्य अन्त्यनिर्देशः। ४८ होराभ्यन्तरे होर्मुस् परिपूर्णतया उद्घाटितव्यमिति तस्य आदेशः। नो चेत् इरानस्य ऊर्जनिलयान् आक्रमिष्यतीति ट्रम्पस्य भीषा। 

  ऊर्जनिलयाः आक्रमिष्यन्ते चेत् पश्चिमेष्यायां वर्तमानाः यू एसस्य तथा इस्रयेलस्य च  ऊर्जनिलयाः आधारसुविधाः च आक्रमिष्यन्ते इति इरानश्च जाग्रतासूचनामदात्। इरानस्य आणवनिलयाः एव ट्रम्पेन उद्दिष्टाः इति सूच्यते। 

  यदि इरानस्य ऊर्जनिलयाः आक्रमिष्यन्ते तर्हि तेषां पुनर्निर्माणपरिसमाप्तिपर्यन्तं सामुद्रिकधुनिः न उद्घाटयिष्यते इति ऐ आर् जि सी इति इरानीयसेनया निगदितम्।



Sunday, March 22, 2026

 केरलम्। 

शबरिगिरि मन्दिरोत्सवाय श्वः ध्वजारोहणम्। 


शबरिमला> शबरिगिरि श्रीधर्मशास्तृमन्दिरे दशदिनात्मकाय उत्सवाय सोमवासरे ध्वजारोहणं विधास्यति। अद्य सायं मन्दिरम् उद्घाटितम्। कुजवासरतः उत्सवस्य अष्टमदिनं यावत् - ३० तमः दिनाङ्कः - प्रभाते नववादनानन्तरं 'सोपानारोहणाय' अनुज्ञा न लभते। किन्तु प्रतिदिनं सायं पञ्चवादने गर्भगृहोद्घाटनानन्तरं भगवद्दर्शनं साध्यमस्ति। 

  ३१ तमे दिनाङ्के 'शरंकुत्ति' स्थाने 'पल्लिवेट्टा' नामकः उत्सवाचारः भविष्यति। एप्रिल् प्रथमदिनाङ्के अहनि ११ वादने पम्पानद्यां अवभृतस्नानम् - 'आराट्' - सम्पत्स्यते। तद्दिने रात्रौ दशवादने गर्भगृहं पिधास्यति।

 तमिलनाट्। 

वाहनदुर्घटनया अष्ट मरणानि। 

सेलं> सेलं-कोयम्पुत्तूर् राष्ट्रियमार्गे सर्वकारीयबस् यानं 'पिक् अप् वान्', बैक् यानं इत्येताभ्यां यानाभ्यां सह संघट्टनेन अष्ट जनाः मृताः। मृतेषु द्वौ बालकौ स्तः। पञ्च जनाः आहताः। 

   शुक्रवासरे अहनि ११ वादने आसीत् दुर्घटना। पिक् अप् वान्'- बैक् यानयात्रिकाः एव मृत्युवशं गताः आहताः च। सर्वकारीयबस् याने ४० यात्रिकाः आसन्। बस् यात्रिकेषु  सारेण व्रणिताः न सन्ति।

 इरानस्य राष्ट्रपतिना सह नरेन्द्रमोदी अभाषत। 


नवदिल्ली> इरानस्य राष्ट्रपतिः डो मसूद पेसेष्कियान् इत्यनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाण्या सम्भाषणमकुर्वत। महानौकागमनागमनाय स्वातन्त्र्यं दृढीकर्तव्यं, वर्तमानीनाः जलमार्गाः सुरक्षिताः करणीयाः इति प्रधानमन्त्री अभ्यर्थितवान्।

Saturday, March 21, 2026

 लयणल् मेस्सी ९०० लक्ष्यकन्दुकानि समुपलब्धवान्।

लयणल् मेस्सी।

मयामि> पादकन्दुकक्रीडेतिहासः लयणल् मेस्सी  प्रमुखं कमपि उपलब्धिं सम्प्राप्तवान्। स्वस्य पादकन्दुकयात्रायां ९०० लक्ष्यकन्दुकानि अयम् अर्जन्टीनीयक्रीडकः सम्प्राप्तवान्। 'कोण्का काफ् कप्' इत्यस्य चतुर्थांशपूर्वकक्रीडायाः द्वितीयपादे 'नाष् विल्ला' दलं विरुद्ध्य सम्प्राप्तेन लक्ष्यकन्दुकेन मेस्सिवर्याय ९०० लक्ष्यकन्दुकप्राप्तः इति पदमलभत। पूर्वमेव ९०० लक्ष्यकन्दुकप्राप्तस्य क्रिस्टियानो रोनाल्डो इदानीं ९६५ लक्ष्यकन्दुकानां स्वामी अस्ति। 

  शीघ्रतया ९०० लक्ष्यकन्दुकानां सम्प्राप्तिः मेस्सिवर्यस्य नाम्नि वर्तते। ११४१ क्रीडाभ्यः अस्ति अस्य पदोपलब्धिः। क्रिस्टियानो तु १२३६ क्रीडाः अपेक्षितवान्।

Friday, March 20, 2026

 सामाजिकमाध्यमाः आनन्दविनाशकाः। 

विश्वसन्तुष्ट्यावेदनपत्रे पूर्वसूचना। 

हेल्सिङ्की> कौमारवयस्कानां सन्तोषविनाशनाय सामाजिकमाध्यमानां भागभाक्त्वं सूचयित्वा अस्य वर्ष समय विश्वसन्तोषावेदनपत्रं गतदिने प्रकाशितम्। विश्वस्मिन् सन्तुष्टतमं राष्ट्रमिति बहुमतिः अनुस्यूततया नवमवारं 'फिन्लान्टे'न अधिस्थापितम्। सन्तुष्टसूचिकायां वर्तमानेषु १४७ राष्ट्रेषु ११६ तमं स्थानं भारतस्य अस्ति। गतवर्षे ११८ तमं स्थानमासीत्। 

 न्यूनपञ्चविंशतिवयस्कानां, विशिष्य, न्यूनपञ्चदशवयस्कानां बालिकानां जीवने सामाजिकमाध्यमैः उद्भूताः आघाताः आवेदने सूच्यन्ते। प्रतिदिनं पञ्चहोराधिकं सामाजिकमाध्यमेषु यापयतां बालिकानां जीवितम् असन्तुष्टमित्यस्ति अधिगमनम्।

  ओक्स् फोर्ड् विश्वविद्यालयस्य Wellbeing Research Center इत्यनेनैव प्रतिवर्षं विश्व आनन्दावेदनपत्रं प्रकाश्यते।

 महानौकानां युद्धकालीयक्षेमाय १००० कोटि₹।

नवदिल्ली> पश्चिमेष्या संघर्षस्य आधारे महानौकाभ्यः युद्धकालीनपरिरक्षां ददतां योगक्षेमसंस्थानां [Insurance Companies] साहाय्यार्थं सहस्रं कोटि रूप्यकाणां धनराशिं संस्थापयितुं केन्द्रसर्वकारेण निश्चितम्। 

 युद्धकारणेन इरानेन पिहितेन होर्मुस् सामुद्रिक धुनिमार्गेण सञ्चरद्भ्यः महानौकाभ्यः परिरक्षां प्रदातुं भारतीयनिगमसंस्थानां साहाय्यार्थमेव इयं परियोजना वित्तमन्त्रालयेन विभाव्यते। भौगोलिक निगमसंस्थाः युद्धमण्डलस्थाभ्यः महौनौकाभ्यः परिरक्षां दातुं विमुखतां प्रकटयन्तीति सन्दर्भे अस्ति इयं परियोजना।

Thursday, March 19, 2026

 इरानस्य गुप्तान्वेषणमन्त्री अपि हतः। 

दुबाय्> दिनद्वयाभ्यन्तरे इरानस्य तृतीयम् प्रधानाधिकारिणमपि इस्रयेलः ममार। कुजवासररात्रौ विधत्ते आक्रमणे गुप्तान्वेषणमन्त्री इस्मयिल् खतीबः हत इति इस्रयेलस्य रक्षामन्त्री इस्रयेल् काट्स् इत्यनेन निगदितम्। 

  इरानस्य परमोच्चसुरक्षासमित्याः अध्यक्षः अलि लारिजानि, बासिज् आर्मी इत्यस्य अधिकारी गुलां रेसा सुलैमानी इत्येतयोः हत्यानन्तरमस्ति खतीबस्य प्राणापहरणम्। 

  इरानस्य यं कमपि प्रमुखनेतारम् अनुज्ञां विना हन्तुं बञ्चमिन् नेतन्याहुना सेनायै अधिकारः प्रदत्तः आसीत्।

 विश्वस्मिन् बृहत्प्रकृतिवायुक्षेत्रं इस्रयेलेनाक्रमितम्। 

'सौत् पार्स्' खत्तरस्यापि भागभाग्भूतं वायुक्षेत्रम्।

सौत् पार्स् वायुक्षेत्रम्। 

टेहरानः> इराने असलूये इत्यत्र वर्तमाने 'सौत् पार्स्' नामके बृहत्प्रकृतिवायुक्षेत्रे यू एसस्य साह्येन इस्रयेलः बोम्बाक्रमणमकरोत्।विश्वस्मिन्नेव बृहत्तमं प्रकृतिवायुक्षेत्रं भवति बुषहरप्रान्ते वर्तमानं सौत् पार्स् नामकम्। अत्रत्याः आधारसुविधाः एवाक्रमिताः इति इस्रयेलेन निगदितम्। 

  आक्रमणम् इरानेन स्थिरीकृतम्। वायुसम्भरणशालाः एवाक्रमणाधीनाः भूताः इति इरानेन प्रोक्तम्। प्रतिदिनं १० कोटि क्यूबिकमीटर् मितम् उत्पादनशक्तियुक्तयोः द्वयोः वायुशुद्धीकरणशालयोः प्रवर्तनम् इरानेन स्तब्धीकृतम्। 

  इरानेन सह खत्तरस्यापि भागभागेन प्रचाल्यमानं प्रकृतिवायुकेदारमस्ति सौत् पार्स्। खत्तरेण निर्यातस्य प्रकृतिवायोः भूर्यंश‌ः अस्मात् केन्द्रादस्ति। सौत् पार्स् विरुद्धं विधत्तमाक्रमणं खत्तरेण अपलपितम्।

Wednesday, March 18, 2026

 इरानस्य सुरक्षाधिकारी 

अली लारिजानी हतः इति इस्रयेलः। 

दुबाय्> इरानस्य परमोच्चसुरक्षासमित्याः नेता अली लारिजानी [६८] नामकः निहतः इति इस्रयेलेन निगदितम्। किन्तु सः व्रणितः वर्तते इत्यपि वृत्तान्तमस्ति।  परमोच्चनेतुः आयत्तोल्ला अली खमेनेः हत्यानन्तरं राष्ट्रप्रशासनं लारिजानेः  नेतृत्वे आसीत् संसंघटितं प्रवृत्तम्। 

  लारिजानिना सह इरानस्य 'बासिज्' सेनाधिकारी गुलाम रेसा सुलैमानी नामकोSपि मृत इति इस्रयेलस्य रक्षामन्त्री अवदत्। सोमवासरे रात्रौ विधत्ते व्योमाक्रमणे आसीत् एतयोः हत्या इति तेनोक्तम्। परन्तु मृत्युद्वयमपि इरानेन निरस्तमस्ति।

Tuesday, March 17, 2026

 केरलम्। 

कवटियार् राजभवने बृहच्चौर्यम्। 

कवटियार् राजभवनम्। 

अनन्तपुरी> तिरुवातांकूर् राजपरिवारस्य 'कवटियार्' नामके राजभवने बृहच्चौर्यं दुरापन्नम्। परिवाराङ्गम् अश्वति नक्षत्रीया गौरी लक्ष्मी बायि महाभागायाः शयनप्रकोष्ठे बन्धनके [locker] संरक्षितानि वज्राभरणानि पुरातनसुवर्णसञ्चयश्च विनष्टानि। द्विकोटि रूप्यकाणि मूल्ययुक्तानि चोरितानि आभरणानीति सूच्यते। 

  २०२५ नवम्बरमासे आसीत् चौर्यवृत्तान्तं प्रत्यभिज्ञातम्। दिनद्वयात्पूर्वं गौरी लक्ष्मी बायि वर्या आरक्षकदलस्य डि जी पी पदीयाय सङ्कटनिवेदनं समर्पयामास।

 प्रजातन्त्रयुद्धम्। 

त्रिषु राज्येषु निर्वाचनविज्ञप्तिः। 

केरलम्, असमः, पुतुच्चेरी - मतदानं एप्रिल् ९।

नवदिल्ली> केरलम्, असमः राज्यद्वये पुतुच्चेरी केन्द्रप्रशासनप्रदेशे च  सोमवासरे एव निर्वाचनविज्ञप्तिः उद्घोषिता। निर्वाचनव्यवहारनियमश्च प्रबलमभवत्।

   मार्च् १६ तमदिनाङ्कतः आरभ्य २३ तमदिनाङ्कपर्यन्तं नामनिर्देशपत्रिकाः समर्पितुं शक्यन्ते। पत्रिकाणां सूक्ष्मपरिशोधना २४ तमे दिनाङ्के सम्पत्स्यते। पत्रिकाः निराकर्तुं मार्च् २६ दिनाङ्कपर्यन्तम् समयः अस्ति। 

  एप्रिल् नवमे दिनाङ्के चरणेनैकेन त्रिषु स्थानेष्वपि मतदानप्रक्रिया विधास्यति। समर्पितमतानां गणना मेय् चतुर्थदिनाङ्के सम्पत्स्यते। निर्वाचनप्रक्रमाः मेय् षष्ठे दिनाङ्के समाप्स्यन्ते।

Monday, March 16, 2026

 पश्चिमेष्यासंघर्षः।

चतुर्थी तैलेन्धनमहानौका प्रस्थिता।

भारतस्य नयतन्त्रविजयः। 

नवदिल्ली> पश्चिमेष्यायां युद्धसंघर्षाभ्यन्तरे भारतध्वजं धार्यमाणा इसका महानौका अपि यू ए ई राष्ट्रस्य फुजैरातः तैलेन्धनं वहन्ती भारतं प्रस्थिता। संघर्षमण्डलात् आगच्छन्ती चतुर्थी महानौका भवति 'जग् लाड्की' नामिकेयम्। ८०,८०० टण् मितम् असंस्कृततैलमेव अस्यामस्ति। 

  गतदिने महानौकायां तैलसम्भरणावसरे फुजैरा तैलकेन्द्रे इरानस्य आक्रमणं प्रचलदासीत्। परन्तु रविवासरे प्रभाते 'जग् लाड्की' सुरक्षिता नौकाश्रयात् प्रस्थिता। कर्मकराः अपि सुरक्षिताः वर्तन्ते। 

  भारतस्य नयतन्त्रस्य महत्त्वरूपेण विदेशकार्यकोविदाः इमां प्रक्रियां निरीक्षन्ति। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी विदेशकार्यमन्त्री एस् जयशङ्करः च इरानम् इतराणि गल्फराष्ट्राधिकारिणः च सम्भाषणं कुर्वतः स्म।

 प्रजातन्त्रयुद्धं - पश्चिमवंगः। 

मतदानं चरणद्वयेन; मतदान्यावलिः अपूर्णा। 


कोल्कोत्ता> पश्चिमवंगः विधानसभानिर्वाचनं चरणद्वयेन विधास्यति। आहत्य २९४ मण्डलानि सन्ति। प्रथमचरणदिने एप्रिल् २३ तमे दिनाङ्के १५२ मण्डलेषु मतदानप्रक्रिया विधास्यति। द्वितीय चरणे १४२ मण्डलेषु एप्रिल् २९  तमे दिनाङ्के जनविधिः सम्पत्स्यते। उत्तर-मध्यप्रान्तीय जनपदेषु प्रथमचरणे दक्षिणप्रान्तीय जनपदेषु द्वितीयचरणे चास्ति मतदानम्। 

  किन्तु वंगराज्ये एस् ऐ आर् प्रक्रिया इदानीमपि न सम्पूर्णतां प्राप्ता इति तत्र विवादास्पदं वर्तते। षष्टिलक्षाधिके मतदानिनः वंगे तेषां निवेदनेषु परिणतिं प्रतीक्षमाणाः वर्तन्ते। एतेषां निवेवेदनेषु निर्णयः भविष्यति चेत् नैके अनुबन्धावल्यः अपि भवेयुः।

 अष्ट मण्डलेषु उपनिर्वाचनानि। 

नवदिल्ली> राष्ट्रे षट्सु राज्येषु ८ विधानसभामण्डलेषु उपनिर्वाचनं च गतदिने निर्वाचनायोगेन उद्घोषितम्। गोवा, गुजरात्, नागालान्ट्, त्रिपुरराज्येषु एकैकस्मिन् मण्डले उपनिर्वाचनं विधास्यति। कर्णाटकं, महाराष्ट्रं राज्ययोः द्वयोः द्वयोः मण्डलयोः उपनिर्वाचनं भविष्यति। गोवा, कर्णाटकं, नागालान्ट्, त्रिपुरराज्येषु एप्रिल् नवमे, अन्ययोः एप्रिल् २३ तमे दिनाङ्के च उपनिर्वाचनं भविष्यति।

Sunday, March 15, 2026

 संस्कृतशिक्षकानां सम्मानसमारोहः संस्कृतभाषा-नवाचार-शिक्षक-सम्मान-समारोहः

      खगड़िया-मण्डले संस्कृतभाषायाः संरक्षणार्थं, संवर्द्धनार्थं तथा च तस्यां नूतन-प्रयोगाणां (नवाचारस्य) विषये गते शुक्रवासरे एका विशिष्टा सभा आयोजिता। अस्मिन् कार्यक्रमे जनपदस्य शताधिकाः संस्कृत-शिक्षकाः सम्मिलिताः अभवन्।

    अस्य गौरवपूर्णस्य कार्यक्रमस्य मुख्य-नेतृत्वकर्ता सामाजिक-जीवने पूर्णरूपेण समर्पितः व्यक्तित्वशाली कृतित्वपुरुषः खगड़िया-क्षेत्रस्य लोकप्रियः जननेता श्री नागेन्द्र त्यागी महोदयः आसीत्। सभायाः अध्यक्षता जे.एन.के.टी. इण्टर विद्यालयस्य प्राचार्येण श्रीराम महोदयेन कृता।मुख्य-अतिथिः: डा० उमेश शर्मा महोदयः (पूर्व-प्राचार्याः, अवधविहारी संस्कृत महाविद्यालयः, रहीमपुर, खगड़िया)। विशिष्ट-अतिथिः: श्री शंकर शर्मा महोदयः (सेवानिवृत्त संस्कृत शिक्षकः)। मुख्य-वक्ता: प्रसिद्ध-समाजसेवी पत्रकारः च श्री चन्द्रशेखरन् महोदयः।

        सभायां संस्कृतभाषायाः संवर्द्धनार्थं बहवः विद्वांसः शिक्षकाः च स्व-स्व विचारान् गम्भीरतया प्रकटितवन्तः। अत्र मुख्यरूपेण श्री धनंजय कुमार यादव: श्री हीरालाल शास्त्री महोदयेन सह अन्ये प्रमुखाः वक्तार: आसन् । श्री धनंजय कुमार यादव: श्री धर्मेन्द्र शास्त्री श्री विद्याकान्तः श्री राघव कुमारः श्री वेङ्कटेशशर्म श्री निरंजन राय श्री दिवाकरः श्री बलदेव चौधरी एतैः सर्वैः शिक्षकैः संस्कृतस्य आधुनिक-प्रासंगिकतायाः उपरि बलं दत्तम्।

कार्यक्रमस्य विशेषांशाः - शिक्षकानां सम्मानम् आयोजन-समित्या सर्वेषां शिक्षकानां कृते अङ्गवस्त्रं लेखनीं च दत्त्वा सम्यकतया स्वागतं सम्मानं च कृतम्।  कार्यक्रमस्य कुशल-सञ्चालनं समाजसेवी भरत सिंह जोशी तथा सरस्वती शिशु मन्दिरस्य आचार्यः श्री गोपाल जी इत्यनयोः द्वयोः कुशल-नेतृत्वे सम्पन्नम्। अन्ये अपि गणमान्याः जनाः अत्र उपस्थिताः आसन्। सभायाः अन्ते आगतेभ्यः सर्वेभ्यः जनेभ्यः उत्तम-जलपानस्य व्यवस्था आसीत्। अयं कार्यक्रमः खगड़िया-क्षेत्रे संस्कृत-भाषायाः पुनर्जागरणाय एकः अभिनवः प्रयासः सिद्धः अभवत्।

Latest news  YouTube 

एप्रिल् ९ दिनाङ्के निर्वाचनः । मेय् ४ दिनाङ्के मतदानगणना।

 एप्रिल् ९ दिनाङ्के निर्वाचनम् । मेय् ४ दिनाङ्के मतगणना।

निर्वाचनायोगस्य वार्तामेलनम्

   केरळम् आसम् पुतुच्चेरी प्रदेशेषु एप्रिल् मासस्य ९ दिनाङ्के निर्वाचनं भविष्यति । मतगणना मेय् ४ दिनाङ्के निश्चिता। तमिल् नाटु राज्ये एप्रिल् २३ दिनाङ्के भविष्यति निर्वाचनम् । गणना मेय् चतुर्थ दिनाङ्के भविष्यति। पश्चिमवंङ्गे एप्रिल् २३, २९ दिनाङ्कयोः निर्वाचनं प्रचलिष्यति। गणना मेय् चतुर्थ दिनाङ्के एव भविष्यति। 

   मतदानयन्त्रे स्थानाशीनां वर्णयुक्तचित्रम् भविष्यति इति श्रद्धेयः नूतनविशेषांशः  अन्तर्भावितः अस्ति इति निर्वाचनायोगाध्यक्षः ग्यानेशकुमारः उक्तवान्। निर्वाचनप्रकरणस्य भागतया सर्वेषु राज्येषु सन्दर्शनं कृत्वा राजनैतिकदलैः सह चर्चां कृतवान् इत्यपि तेनोक्तम्॥

 जम्मौ सैनिकस्य वीरमृत्युः।

जम्मू> भीकरैः सह शनिवासरे प्रवृत्ते प्रतिद्वन्द्वे जम्मु-काश्मीरस्य पूञ्च् इत्यत्र एकः सैनिकः वीरमृत्युं प्राप। जे सी ओ [Junior Commissioned Officer] पदीयः सन्दीप कुमार धाक्का नामकः एव मृतवान्। 'ओपरेषन् षेरि कलन्' इत्यस्य अंशतया दुर्घटे प्रदेशे आसीत् प्रतिद्वन्द्वः।

 इरानस्य तैलव्यापारकेन्द्रे खार्गे यू एसस्य व्योमाक्रमणम्।

खार्गद्वीपः। 

 
दुबाय्> इरानराष्ट्रस्य प्रमुखं तैलेन्धनायायनिर्यातकेन्द्रं 'खार्ग्' इत्यस्मिन् द्वीपस्थे सैनिक-सुरक्षासंविधानानि अमेरिकया आक्रमितानीति डोनाल्ड ट्रम्पेन अभिमानितम्। खार्गद्वीपे नवत्यधिकं स्थानेषु व्योमाक्रमणं कृतमिति यू एस् राष्ट्रस्य सेनाधिकारिणा उक्तम्। 

  किन्तु आक्रमणे तैलेन्धनसंविधानस्य न हानिरजायत, निर्यातप्रक्रिया स्थगनं विना सम्पन्ना इति इरानेन स्पष्टीकृतम्। यू एस् - इस्रयेलसख्यस्य इरानं विरुद्ध्य युद्धं तृतीयसप्ताहं प्रविष्टम्।

 तमिल कविः वैरमुत्तू ज्ञानपीठपुरस्कारस्वीकर्ता।। 


नवदिल्ली> २०२५ तमवर्षस्य ज्ञानपीठपुरस्कारः तमिलभाषायाः विख्यातकविः तथा गानरचयिता वैरमुत्तू इत्यस्मै लभते। २४ संवत्सराणाम् अनन्तरमेव तमिलसाहित्याय ज्ञानपीठलब्धिः। 

  तमिलनाटे तेनी प्रदेशीयः वैरमुत्तूवर्यः चलच्चित्रगानरचनायै सप्तवारं राष्ट्रियपुरस्कारस्वीकर्ता अभवत्। राज्यबहुमतिं षट्वारं प्राप्तवान्। २००३ तमे वर्षे केन्द्र साहित्य अक्कादमीपुरस्कारेण, पद्मश्रीपुरस्कारेण, २०१४ तमे वर्षे पद्मभूषणपुरस्कारेण च सः समादृतः आसीत्।

Saturday, March 14, 2026

 पश्चिमेष्या संघर्षः 

प्रतिसन्धिं प्रतिरोद्धुं एकलक्षंकोटि आर्थिकराशिः।

नवदिल्ली> इरान-यू एस् इस्रयेलसख्ययोः संघर्षस्य आधारे राष्ट्रस्य विपत्कालीनक्लेशमभिमुखीकर्तुं एकलक्षं कोटि रूप्यकाणां धनराशिः अनुमोदिता। लोकसभायाम् उपधनाभ्यर्थनाचर्चायाः प्रत्युत्तरवेलायां वित्तमन्त्रिण्या निर्मला सीतारामन् वर्यया उद्घोषितमिदम्। 

  एल् पि जी नाम द्रवीकृतवातकोशस्य दौर्लभ्यं सूचयित्वा विपक्षदलानां कोलाहलमध्ये  आसीत् मन्त्रिण्याः प्रख्यापनम्। अप्रतीक्षितसङ्कटान् प्रतिरोद्धुं धनस्रोतोरूपेण उपयोक्तुं शक्यते इति तया प्रोक्तम्।

 केरलम्। 

मतदानशतमानं ८५ तः अधिकं प्रापयिष्यति। 

निर्वाचनं एप्रिल् १७ - २३ दिनाङ्काभ्यन्तरे।

अनन्तपुरी> विधानसभानिर्वाचने मतदानप्रक्रिया ८५% तः अधिकं प्रापयितुं केरलस्य प्रयत्नः। एतदर्थं सिद्धतामविष्कर्तुं राज्यस्य  मुख्यनिर्वाचनाधिकारी डो रत्तन् यू केल्करः जनपदीयनिर्वाचनाधिकारिभ्यः निर्देशमदात्। एस् ऐ आर् प्रक्रियायाः अनन्तरं सविशेषपत्रैः निवेदनं समर्पितवन्तः १५ लक्षाधिके जनाः मतदानावल्याम् अन्तर्भूताः इति जनपदाधिकारिणां कृते विधत्ते परिशीलनवेलायां रत्तन् केल्करः अवदत्। सार्धैकलक्षं निवेदनानि परिशोधनप्रक्रियायां वर्तन्ते। 

  केरले विधानसभानिर्वाचनं एप्रिल्मासस्य १७ - २३ दिनाङ्कयोर्मध्ये सम्पत्स्यतीति सूचना अस्ति। विषुवः, तृश्शूर् पूरम् इत्यादयः  उत्सवाः परिगणनीयाः इति राजनैतिकदलप्रतिनिधिभिः अपेक्षितमासीत्।

Friday, March 13, 2026

 इरानेन महानौकाद्वयमपि प्रज्वालितम्। 

एकः भारतीयः मृतः। 

 विश्वे मूल्यवर्धनभीतिः। 

दुबाय्>  यू एस् - इस्रयेलसख्यं विरुध्य इरारस्य युद्धं तयोः पण्यमहानौकाः लक्ष्यीकृत्य परिवर्तितम्। इराखस्य समुद्रमण्डनेन सञ्चरत्   तैलेन्धनमहानौकाद्वयं इरानः प्राज्वालयत्। एतयोरेका महानौका अमेरिकायाः इति निर्णीतमस्ति। एतस्यां महानौकायां कर्मकरः कश्चन  भारतीयः मृतः। १५ भारतीयानभिव्याप्य २७ कर्मकराः सुरक्षितस्थानं नीताः। 

  तथा च समुद्रयानानि आक्रमितानि सत्सु आविश्वं मूल्यवर्धनभीषा अपि वर्तते।  अधुना असंस्कृततैलस्य [क्रूड् ओयिल्]  मूल्यं १०० डोलर् मितमभवत्। होर्मुस् समुद्रधुनिना तैलेन्धनमहानौकाः नानुमन्तव्याः इति इरानस्य निश्चयविधिरपि विपण्याम् आशङ्कां जनयति।

 भारतस्य महिला होक्कीदलं विश्वचषकाय समर्थम्। 

हैदराबादः> भारतीय महिला होक्कीदलं विश्वचषकाय योग्यमभवत्। हैदराबादे सम्पन्ने योग्यक्षमताचक्रे वेयिल्स् दलं ४ - १ इति लक्ष्यकन्दुकक्रमेण पराजापयत। योग्यताचक्रस्य 'पूल् बी' इत्यस्मिन् संघस्य प्राप्ताङ्कसूचके प्रथमस्थानेनैव भारतेन  विश्वचषकसामर्थ्यं दृढीकृतम्। ओगस्ट् मासे बल्जियं नेतर्लान्ट् राष्ट्रयोः विश्वचषकस्पर्धाः सम्पत्स्यन्ते।

 पाकिस्थानीयड्रोण् उपयुज्य आनीतं १२ कोटि रूप्यकाणाम् उन्मादकवस्तु निगृहीतम्। 

जम्मु> जम्मुप्रान्ते अन्ताराष्ट्रियसीमायाः समीपं    ड्रोण् यन्त्रमुपयुज्य व्याजेन भारतमानेतुम् उद्युक्तं  उन्मादकवस्तु अधिगतम्।  हेरोयिन् नामकम् १२ कोटि रूप्यकाणि मूल्ययुक्तम् उन्मादकवस्तु एव निगृहीतम्।  पाकिस्थानीयड्रोण् उपयुज्य आनेतुमासीत् उद्यमः। 

  बुधवासरे रात्रौ बिष्न प्रदेशस्थात् केदारात् जम्मु आरक्षकसेना तथा बी एस् एफ् सेना च युगपत् कृते अन्वेषणे आसीत् अयं प्रक्रमः। 

  सन्देहास्पदे किञ्चित्  ड्रोण् पतितमिति सूचनायाः आधारे अन्वेषणं कुर्वन्ती आसीत् संयुक्तसेना। ड्रोणे बद्धे स्यूते लघु लघु भाण्डे आसीत् हेरोयिन् इति सेनाधिकारिभिः उक्तम्।

Thursday, March 12, 2026

 संस्कृतमहाविद्यालयस्य प्राचार्यपदच्युत्या विवादः

     मद्रपुरीसंस्कृतकलाशाला - मैलापुरे स्थिता, विंशत्यधिकशतवर्षपरम्परायुक्तं संस्थानम्, University of Madras तथा Central Sanskrit University इत्येताभ्यां सह आदर्शसंस्कृतमहाविद्यालययोजनायाः अन्तर्गतं सम्बद्धम् च ।

     केन्द्रीयविश्वविद्यालयद्वारा अस्मै संस्थानाय निधयः, शैक्षिकपरिचयः, अखिलभारतीयस्पर्धासु सहभागितायाः अवसराः, छात्राणां अध्यापकानां च विविधविकासलाभाः च प्रदीयन्ते स्म । अधुना छात्राणां प्राध्यापकानां च पूर्वसूचनां विनैव, संवादं विनैव, महाविद्यालयन्यासेन केन्द्रीयविश्वविद्यालयेन सह आधिकारिकसमन्वयस्य अन्तर्गतं निधीनां निरोधाय पत्रं प्रेषितम्। अस्य निर्णयस्य कारणात्, छात्राः प्रख्यातविद्वांसः प्राध्यापकाः हानिं प्राप्नुवन्ति, यतः ते यूजीसी-वेतनाभावे प्रतिष्ठितसंस्थानात् निर्गन्तुं बाध्यन्ते।

     पूर्वं लब्धाः राष्ट्रियस्तरीयस्पर्धासु सहभागितायाः अन्येषां शैक्षिकपरिचयानां च अवसराः अपि विनष्टाः सन्ति। अधुना छात्राः अस्य निर्णयस्य विषये न्यायं पारदर्शितां च अन्विष्यन्ति, यतः एषः निर्णयः तेषां शैक्षिकविकासं भविष्यत्सु अवसरान् च प्रत्यक्षतया प्रभावयति । एषा एका समस्या, अपरा समस्या अस्ति -अस्याः कलाशालायाः वर्तमानप्राचार्यः डा. अरुणसुन्दरः विधिपूर्वकं स्वीकृतावकाशे आसीत्। सः अवकाशात् प्रतिनिवृत्तः सन् ज्ञातवान् यत् तस्य कार्यालयः तालाबद्धः कृतः, प्राचार्यकक्षस्य द्वारस्थं नामफलकम् अपाकृत्य त्यक्तम्। तस्मिन् एव समये नूतनः प्राचार्यकार्यवाहकः Principal In-charge, डा. सी. हरिहरः, नियुक्तः इति ज्ञातम् ।

     CSU नियुक्तस्य वर्तमानस्य प्राचार्यस्य विना सूचनां अपरस्य नियुक्तिः कृता न्यासिभिः, या च अनधिकृता यतो‌ हि मार्च् ३१ पर्यन्तं CSU अधीन एव सर्वोऽपि निर्णयः, तथा तस्मै वर्तमानाय प्राचार्याय दर्शितः अनादरभावः इति विषये एव छात्राणां आतङ्कः अस्ति । अतः छात्राः संस्थायाः कार्येषु पारदर्शिता, शैक्षणिकनेतृत्वस्य सम्मानः, तथा स्पष्टव्याख्यानम् इति विषयेषु आग्रहं कुर्वन्ति । एते निर्णयाः संस्थायाः कीर्तिं भविष्यं च प्रत्यक्षतया प्रभावयितुं शक्नुवन्ति इति छात्राः वदन्ति।

 लबनने आक्रमणमनुवर्तते।

मरणानि ५७०। 

बैरूट्> लबनस्य राजधानीनगरे बैरूटे जनावासप्रदेशे इस्रयेलस्य आक्रमणे भवनसमुच्चयः अग्निबाधितः अभवत्। पूर्वीयलबनने रड्क्रोस् संस्थायाः सेवकमभिव्याप्य १४ जनाः हताः। आहत्य मरणानि ५७० अभवन्। ६. ६७ लक्षं जनाः अभयार्थिनः जाताः।

 मुज्ताब खमनेयी इरानस्य परमोच्चनेता। 

मुज्ताबा खमनेयी। 

टेहरानः> यू एस् - इस्रयेलसख्येन निहतस्य इरानस्य परमोच्चनेतुः आयत्तोल्ला खमनेयिनः अनुगामिरूपेण तस्य पुत्रः मुज्ताब खमनेयी चितः। ८८ पुरोहितैकन्तर्भूतया  पणिडितसभया एव ५६ वयस्कः मुज्ताबा चितः। IRGC नामिका इस्लामिकसमितिः हिस्बुल्ला सायुधसंघश्च मुज्ताबस्य नेतृत्वम् अङ्गीकृतवन्तौ। 

  किन्तु स्वस्य अङ्गीकारं विना कोSपि नेता दीर्घकालं यावत् स्थाने न भविष्यतीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। परमोच्चनेतृस्थाने यः कोSपि चेत् सः हन्तव्यः इति इस्रयेलेनापि भीषा घोषिता।

Wednesday, March 11, 2026

 

पूर्वोत्तरभारते क्षेत्रीयवैदिकसंगमस्य सफलसमापनम्।

द्विषष्टिवैदिकविद्वांसां सहभागिता, राज्यपालस्य गरिमामयी उपस्थितिः।

   अगरतला> केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरे फरवरी मासस्य 17–19 दिनाङ्कपर्यन्तं त्रिदिवसीयः क्षेत्रीयवैदिकसंगमः अभवत्। केंद्रीय-संस्कृतविश्वविद्यालयस्य अधीनस्य एकलव्यपरिसरस्य, 'महर्षि सांदीपनि राष्ट्रिय वेद विद्या प्रतिष्ठानं' तथा 'भोलानंद वेद विद्यालयः' इत्येतासां संस्थानानां संयुक्तप्रयासेन अत्यन्तसफलतया सम्पन्नः। अस्मिन् संगमे पूर्वोत्तरभारतस्य विभिन्नराज्येभ्यः आगताः द्विषष्टिः (62) वैदिकविद्वांसः सहभागिनः अभवन्। तैः ऋग्वेद-यजुर्वेद-सामवेद-अथर्ववेदानां विविधशाखानां सस्वरं शास्त्रोक्तरीत्या पारायणं कृतम्, येन सम्पूर्णः परिसरः वैदिकमन्त्रध्वनिभिः गुंजायमानः अभवत्।

  प्रथमदिने उद्घाटनसत्रं वेदपारायणं च सम्पन्नम्। सायंकाले छात्रैः भारतीयसंस्कृतेः विविधाङ्गान् प्रकाशयन्तः सांस्कृतिककार्यक्रमाः अपि प्रस्तुताः। द्वितीयदिने शोभायात्रानन्तरं सर्वे विद्वांसः त्रिपुराराज्यस्य प्रसिद्धदेव्याः त्रिपुरसुन्दरीमन्दिरं गत्वा दर्शनं कृत्वा आशीर्वादं प्राप्नुवन्। ततः अनन्तरं वेदपारायणं वैदिकविमर्शाश्च पुनरारब्धाः।

   अस्य संगमस्य समापनसत्रे माननीयः 'इन्द्रसेन रेड्डि नल्लु' मुख्यातिथिरूपेण उपस्थितः आसीत्। स्वीयभाषणे सः वैदिकपरम्परायाः संरक्षणं संवर्धनं च अत्यन्तमहत्त्वपूर्णमिति प्रतिपादितवान्। कार्यक्रमस्य सफलसम्पादनाय वेदविभागसमन्वयकः डॉ प्रकाशरंजनमिश्र: डॉ आशीषमिश्र:, डॉ. निशान्तमिश्रः, श्री शिवसाधनदेवनाथः तथा विभागीयछात्राः विशेषं योगदानं दत्तवन्तः।

 युद्धदुष्प्रभावः महानसान् च बाधते।

पाकेन्धनानां उपलभ्यता दृढीकरणीया - केन्द्रसर्वकारः। 

नवदिल्ली> इरान-इस्रयेलयू एस् सख्ययोः युद्धम् आराष्ट्रं पाकेन्धनस्य उपलभ्यतायां प्रतिकूलेन वर्तते। पश्चिमेष्या संघर्षेण पेट्रोलियम् उत्पन्नानामायातः राष्ट्रे बहुत्र वाणिज्यापेक्षितस्य द्रवीकृतपाकवातस्य [LPG]  वितरणं स्तगितमभवत्। गार्हिकापेक्षितानां एल् पि जी अनिलकोशानां वितरणं सुगमं कर्तुं प्रयत्ने व्यापृताः सन्ति विविघाः संस्थाः।

  गार्हिकोपभोगम् अभिव्याप्य प्राधान्ययुक्तक्षेत्रेषु प्रकृतिवातवितरणम् दृढीकर्तुं अवश्यवस्तुनियमानुसारेण केन्द्रसर्वकारेण आदेशः प्रदत्तः। पेट्रोलियं शुद्धीकरणशालाः पूर्णशेषीयुक्ताः प्रवर्तमानाः भवितव्याः। गार्हिकापेक्षितम् एल् पि जी उत्पादनं १०% मितं वर्धापयितव्यम्। दौर्लभ्यम् अवलोकयितुं सामाजिकक्षेत्रेषु तेलेन्धनसंस्थानां प्रतिनिधीनां समितिः रूपीकृता।

 प्रधानमन्त्री अद्य केरले।


कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे  केरलं सम्प्राप्नोति। मध्याह्नात्पूर्वं ११.४५ वादने कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्यमाणः मोदिवर्यः एकवादने मरैन्ड्रैव् अङ्कणे आयोज्यमाने धीवरसभायाः   सुवर्णसंवत्सरोत्सवस्य समाप्तिसमारोहस्य उद्घाटनं करिष्यति। 

  ततः कलूर् समीपे सज्जीकृतायां सविशेषवेदिकायां विभिन्नानां केन्द्रप्रशासनाभियोजनानाम् उद्घाटनं निर्वक्ष्यति। ५,५०० कोट्यधिकरूप्यकाणां व्ययेन 'बि पी सी एल्' संस्थया कोच्ची तैलेन्धनशुद्धीकरणशालायां स्थाप्यमाणस्य Polypropylene Unit इत्यस्य उद्घाटनं, कोल्लं जनपदे स्थाप्यमाणायाः 'फ्लोटिंग् सोलार्' [Floating Solar] अभियोजनायाः शिलान्यासः, पङ्क्तिषट्केन नवीकृतस्य राष्ट्रियमार्गः ६६ इत्यस्य अंशद्वयस्य उद्घाटनम् इत्यादीनि ओण् लैन् द्वारा प्रधानमन्त्री निर्वक्ष्यति।

  ततः अपराह्ने मोदिवर्यः  कलूर् क्रीडाङ्कणसमीपम् आयोज्यमानस्य एन् डि ए सख्यस्य निर्वाचनप्रचारणसम्मेलने भागं करिष्यति। अनन्तरं सः नेडुम्बाश्शेरी विमाननिलयात् तमिलनाट् प्रति गमिष्यति।

Tuesday, March 10, 2026

 इरान युद्धम्। 

पानजलसुविधां विभञ्ज्य युद्धपरिवर्तनम्। 

दुबाय्> द्वितीयसप्ताहे अपि  संघर्षभरितं पश्चिमेष्यायुद्धं नूतनस्तरं प्राविशत्। इरानस्य गल्फराष्ट्राणां च जीवनाडिरूपेण वर्तमानाः समुद्रजलशुद्धीकरणशालाः विरुध्य युद्धस्य गतिः परिवर्तिता। शनिवासरे 'केषं' द्वीपे विद्यमानां इरानस्य समुद्रजलशुद्धीकरणशालाम् आक्रम्य यू एस् राष्ट्रमेव नूतनयुद्धरीतिमारभत। ततः रविवासरे बहरिनस्था जलशुद्धीकरणशाला इरानेनापि आक्रमिता। 

  गल्फराष्ट्राणां मुख्यं पानजलस्रोतः समुद्रजलशुद्धीकरणशालाः भवन्ति।  नगराणामवस्थितिः, उद्योगसंस्थानां प्रवर्तनं, भोजन-वासालयानां प्रवर्तनं, कृषिः इत्यादिसर्वम् अपनीतलवणाशं समुद्रजलमेव आश्रयते। कुवैट् राष्ट्रस्य पानजलस्य ९०% समुद्रजलं शुद्धीकृत्य एवोपयुज्यते। तथा च  ओमाने ८६%, सौद्यां ७०% च पानजलं समुद्रजलशुद्धीकरणेन एव।

  एतत् जलयुद्धं तु 'जनीवा सन्धि'मभिव्याप्य अन्ताराष्ट्रमानवाधिकारनियमानां लङ्घनमस्ति।

 प्रमुखः चरित्रकारः 

के एन् पणिक्कर् दिवंगतः। 


संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः। 

अनन्तपुरी> विख्यातः चरित्रपण्डितः तथा श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य [केरलम्] भूतपूर्वः कुलपतिश्च डो के एन् पणिक्कर् [९०] दिवंगतः।अनन्तपुरीनगरस्थे निजीयातुरालये परिचर्यायामासीत्।

  केरल चरित्रगवेषणसमित्याः अध्यक्षः, भारतीय चरित्र कोण्ग्रस् इत्यस्य अध्यक्षः, केरलस्य उच्चतरशैक्षिकसमित्याः उपाध्यक्षः इत्यादीनि कार्यभारान् च वहति स्म। 

  गुरुवायूर् प्रदेशे लब्धजन्मा कण्टियूर् नारायणप्पणिक्करः इति पूर्णनामधेयः अयं दिल्ली जे एन् यू विश्वविद्यलये चरित्रविभागाध्यक्षः, डीन् पदीयः चासीत्। बहुषु विदेशविश्वविद्यालयेषु सन्दर्शकप्राचार्यः आसीत्। आङ्गलेये सन्ति तस्य भूरिशः ग्रन्थाः। २००० - २००४ कालखण्डे पणिक्करवर्यः कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य कुलपतिपदम् अलङ्करोति स्म।

 इङ्गलाण्ट् ओपण् बाड्मिन्टण्

लक्ष्या सेनस्य द्वितीयस्थानम्। 


लण्टनं> पिच्छकन्दुकक्रीडायाः [बाड्मिन्टण्] विम्बिल्डण् इति विख्यातायाः इङ्गलाण्ट् ओपण् बाड्मिन्टण् क्रीडापरम्परायाः अन्त्यस्पर्धायां भारतस्य क्रीडकः लक्ष्य सेनः द्वितीयस्थानेन तृप्तः जातः। चैनीस् ताय्पेय् राष्ट्रस्य [तैवान्] क्रीडकेन लिन् चुन् यि नामकेन एव सेनः पराजितः। २०२२ तमे वर्षे अपि लक्ष्य सेनः अन्त्यस्पर्धायां पराजितः आसीत्।

Monday, March 9, 2026

 भारतस्य विश्वविजयः। 

किरीटं प्राप्तः भारतसंघः आह्लादे। 

*त्रिवारं उपलब्धकिरीटम् एक एव दलम्। 

*सञ्जू सांसणः परम्परा प्रवीरः। 

सञ्जू सांसणः।

*जस्प्रीत बुम्रः क्रीडाप्रवीरः। 

अहम्मदाबादः> टि-२० विश्वचषकस्य किरीटोपलब्धिना भारतदलाय अभिलेखप्रवर्षः! ह्यः अहम्मदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणे न्यूसिलान्टं ९६ धावनाङ्कैः पराजित्य आसीत् भारतस्य उज्वलविजयः। धावनाङ्कस्य आधारे विश्वचषकान्त्यस्पर्धासु उच्चतमः विजयो भवत्येषः।  २००७,२०२४ वर्षयोः विजयकिरीटं धृतवतः भारतस्य तृतीयः विश्वविजयः। प्रथमतया एव एकेन दलेन किरीटोपलब्धिः अवस्थाप्यते। त्रिवारं टि-२० मध्ये विश्वविजयी भवत् एकं दलमपि भारतस्य अस्ति। 

  प्रथमचरणे कन्दुकताडनं कृतवते भारताय. २५५ इति बृहत्तरं प्राप्ताङ्कम् उपलब्धुं मुख्यतया साहाय्यं कृतवन्तः एते आसन् - सञ्जू सांसणः [४६ कन्दुकैः ८९ धावनाङ्काः], अभिषेक शर्मा [२१ कन्दुकैः ५२], इषान किषन् [२५ कन्दुकैः ५४], शिवं दुबे [८ कन्दुकैः २६] च। विश्वचषकान्त्यप्रतिद्वन्देषु उच्चतमं प्राप्ताङ्कं भवति २५५। 

  भारतस्य क्रीडासु निर्णायकेषु अन्तिमेषु त्रिषु प्रतिद्वन्द्वेषु  - प्रपूर्वान्त्ये, पूर्वान्त्ये, अन्त्ये च - उच्चतरप्राप्ताङ्कः भूत्वा भारतं विजयतीरमानेतुं मुख्यभागं कृतवान् सञ्जू सांसणः परम्पराप्रवीरः अभवत्। केरलीयोSयं प्रपूर्वान्त्ये, पूर्वान्त्ये च क्रीडाप्रवीरः चासीत्। 

    कन्दुकक्षेपणे जस्प्रीत बुम्रः चत्वारि, अक्सर पटेलः त्रीणि च द्वारकाणि उपलब्धवन्तौ। बुम्रः क्रीडाप्रवीरो जातः। न्यूसिलान्टपक्षाय प्रथमे क्षेपणचक्रद्वये शोभनं प्रारम्भं कन्दुकताडने लब्धमपि भारतक्रीडकानां क्षेत्ररक्षणं [Fielding], कन्दुकक्षेपणं च क्रीडां भारतस्य अधीने अनयत्।

 ५२,००० जनाः गल्फराष्ट्रेभ्यः प्रतिनिवृत्ताः। 

नवदिल्ली> पश्चिमेष्यायाम् अवस्थाप्यमानस्य संघर्षस्य आधारितयागल्फप्रान्तात् भूरिसंख्यकाः भारतीयाः स्वदेशं प्रतिनिवर्तन्ते। मार्च् प्रथमदिनाङ्कतः सप्तमदिनाङ्कं यावत् ५२,००० तः अधिके जनाः प्रतिप्राप्तवन्तः इति विदेशकार्यमन्त्रालयेन निगदितम्। विविधानि गल्फराष्ट्राणि प्रादेशिकव्योमसीमाः भागिकतया उदघाटयन् इत्यतः एव जनाः सुरक्षिताः प्रतिनिवृत्ताः। सन्दर्शकविसापत्रेण प्राप्तेभ्यः 'ट्रान्सिट्' यात्रिकेभ्यः एव प्राधान्यं दीयते।

 आयव्ययपत्रकसम्मेलनस्य द्वितीयचरणम् अद्य आरभ्यते। 

नवदिल्ली> संसदः आयव्ययपत्रकसम्मेलनं सोमवासरे पुनरारभ्यते। सभापतिम् ओं बिर्लावर्यं निष्कासितुमुद्दिश्य विपक्षदलसख्येन समर्पितं निवेदनम् अस्मिन् सम्मेलने परिगणयिष्यते। 

  पश्चिमेष्यायां वर्तमानः संघर्षः, रष्यातः तैलेन्धनं क्रीणातुम् अमेरिक्कया दत्तम् आनुकूल्यं, एस् ऐ आर् प्रक्रिया इत्यादीनि चर्चाविषयाः भविष्यन्ति।

Sunday, March 8, 2026

 टि-२० विश्वचषकः।

 विश्वकिरीटं भारताय। 

न्यूसिलान्टं ९७ धावनाङ्कैः पराजापयत। 

अर्धशतकं प्राप्तवन्तौ सञ्जू सांसणः इषान् किषनः च।

अहम्मदाबादः> नरेन्द्रमोदी क्रीडाङ्कणं पुनरपि भारतस्य अभिमानक्षेत्रमभवत्। कन्दुकताडने क्षेत्ररक्षणे च अन्यादृशं श्रेष्ठत्वंं प्रकटितवत् भारतदलं टि-२० विश्वचषकस्य अन्त्यस्पर्धायां न्यूसिलान्टदलं ९७ धावनाङ्कैः पराजित्य किरीटमधिस्थापयामास। 

  प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु पञ्च ताडकानां विनष्टे २५५ इति बृहत्तमं प्राप्ताङ्कम् अलभत। ८९ धावनाङ्कान् सम्पाद्य सञ्जू सांसणः भारतस्य अधिकाङ्कप्राप्तः [Top scorer] जातः। भारताय इषान् किषनः (५४), अभिषेक शर्मा (५१) च अर्धशतकं प्राप्तवन्तौ। 

   प्रत्युत्तरक्रीडायां न्यूसिलान्टः   १९ क्षेपणचक्रेषु १५९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। क्षेत्ररक्षणे अपि सर्वे क्रीडकाः स्वस्वप्राभवं प्रकट्य भारतं विजयतीरं प्रापयत्।

Latest news