केरलम्।
मतदानशतमानं ८५ तः अधिकं प्रापयिष्यति।
निर्वाचनं एप्रिल् १७ - २३ दिनाङ्काभ्यन्तरे।
अनन्तपुरी> विधानसभानिर्वाचने मतदानप्रक्रिया ८५% तः अधिकं प्रापयितुं केरलस्य प्रयत्नः। एतदर्थं सिद्धतामविष्कर्तुं राज्यस्य मुख्यनिर्वाचनाधिकारी डो रत्तन् यू केल्करः जनपदीयनिर्वाचनाधिकारिभ्यः निर्देशमदात्। एस् ऐ आर् प्रक्रियायाः अनन्तरं सविशेषपत्रैः निवेदनं समर्पितवन्तः १५ लक्षाधिके जनाः मतदानावल्याम् अन्तर्भूताः इति जनपदाधिकारिणां कृते विधत्ते परिशीलनवेलायां रत्तन् केल्करः अवदत्। सार्धैकलक्षं निवेदनानि परिशोधनप्रक्रियायां वर्तन्ते।
केरले विधानसभानिर्वाचनं एप्रिल्मासस्य १७ - २३ दिनाङ्कयोर्मध्ये सम्पत्स्यतीति सूचना अस्ति। विषुवः, तृश्शूर् पूरम् इत्यादयः उत्सवाः परिगणनीयाः इति राजनैतिकदलप्रतिनिधिभिः अपेक्षितमासीत्।