भारतस्य महिला होक्कीदलं विश्वचषकाय समर्थम्।
हैदराबादः> भारतीय महिला होक्कीदलं विश्वचषकाय योग्यमभवत्। हैदराबादे सम्पन्ने योग्यक्षमताचक्रे वेयिल्स् दलं ४ - १ इति लक्ष्यकन्दुकक्रमेण पराजापयत। योग्यताचक्रस्य 'पूल् बी' इत्यस्मिन् संघस्य प्राप्ताङ्कसूचके प्रथमस्थानेनैव भारतेन विश्वचषकसामर्थ्यं दृढीकृतम्। ओगस्ट् मासे बल्जियं नेतर्लान्ट् राष्ट्रयोः विश्वचषकस्पर्धाः सम्पत्स्यन्ते।