संस्कृतशिक्षकानां सम्मानसमारोहः संस्कृतभाषा-नवाचार-शिक्षक-सम्मान-समारोहः
खगड़िया-मण्डले संस्कृतभाषायाः संरक्षणार्थं, संवर्द्धनार्थं तथा च तस्यां नूतन-प्रयोगाणां (नवाचारस्य) विषये गते शुक्रवासरे एका विशिष्टा सभा आयोजिता। अस्मिन् कार्यक्रमे जनपदस्य शताधिकाः संस्कृत-शिक्षकाः सम्मिलिताः अभवन्।
अस्य गौरवपूर्णस्य कार्यक्रमस्य मुख्य-नेतृत्वकर्ता सामाजिक-जीवने पूर्णरूपेण समर्पितः व्यक्तित्वशाली कृतित्वपुरुषः खगड़िया-क्षेत्रस्य लोकप्रियः जननेता श्री नागेन्द्र त्यागी महोदयः आसीत्। सभायाः अध्यक्षता जे.एन.के.टी. इण्टर विद्यालयस्य प्राचार्येण श्रीराम महोदयेन कृता।मुख्य-अतिथिः: डा० उमेश शर्मा महोदयः (पूर्व-प्राचार्याः, अवधविहारी संस्कृत महाविद्यालयः, रहीमपुर, खगड़िया)। विशिष्ट-अतिथिः: श्री शंकर शर्मा महोदयः (सेवानिवृत्त संस्कृत शिक्षकः)। मुख्य-वक्ता: प्रसिद्ध-समाजसेवी पत्रकारः च श्री चन्द्रशेखरन् महोदयः।
सभायां संस्कृतभाषायाः संवर्द्धनार्थं बहवः विद्वांसः शिक्षकाः च स्व-स्व विचारान् गम्भीरतया प्रकटितवन्तः। अत्र मुख्यरूपेण श्री धनंजय कुमार यादव: श्री हीरालाल शास्त्री महोदयेन सह अन्ये प्रमुखाः वक्तार: आसन् । श्री धनंजय कुमार यादव: श्री धर्मेन्द्र शास्त्री श्री विद्याकान्तः श्री राघव कुमारः श्री वेङ्कटेशशर्म श्री निरंजन राय श्री दिवाकरः श्री बलदेव चौधरी एतैः सर्वैः शिक्षकैः संस्कृतस्य आधुनिक-प्रासंगिकतायाः उपरि बलं दत्तम्।
कार्यक्रमस्य विशेषांशाः - शिक्षकानां सम्मानम् आयोजन-समित्या सर्वेषां शिक्षकानां कृते अङ्गवस्त्रं लेखनीं च दत्त्वा सम्यकतया स्वागतं सम्मानं च कृतम्। कार्यक्रमस्य कुशल-सञ्चालनं समाजसेवी भरत सिंह जोशी तथा सरस्वती शिशु मन्दिरस्य आचार्यः श्री गोपाल जी इत्यनयोः द्वयोः कुशल-नेतृत्वे सम्पन्नम्। अन्ये अपि गणमान्याः जनाः अत्र उपस्थिताः आसन्। सभायाः अन्ते आगतेभ्यः सर्वेभ्यः जनेभ्यः उत्तम-जलपानस्य व्यवस्था आसीत्। अयं कार्यक्रमः खगड़िया-क्षेत्रे संस्कृत-भाषायाः पुनर्जागरणाय एकः अभिनवः प्रयासः सिद्धः अभवत्।
