अष्ट मण्डलेषु उपनिर्वाचनानि।
नवदिल्ली> राष्ट्रे षट्सु राज्येषु ८ विधानसभामण्डलेषु उपनिर्वाचनं च गतदिने निर्वाचनायोगेन उद्घोषितम्। गोवा, गुजरात्, नागालान्ट्, त्रिपुरराज्येषु एकैकस्मिन् मण्डले उपनिर्वाचनं विधास्यति। कर्णाटकं, महाराष्ट्रं राज्ययोः द्वयोः द्वयोः मण्डलयोः उपनिवाचनं भविष्यति। गोवा, कर्णाटकं, नागालान्ट्, त्रिपुरराज्येषु एप्रिल् नवमे, अन्ययोः एप्रिल् २३ तमे दिनाङ्के च उपनिवाचनं भविष्यति।