इरानस्य तैलव्यापारकेन्द्रे खार्गे यू एसस्य व्योमाक्रमणम्।
![]() |
| खार्गद्वीपः। |
दुबाय्> इरानराष्ट्रस्य प्रमुखं तैलेन्धनायायनिर्यातकेन्द्रं 'खार्ग्' इत्यस्मिन् द्वीपस्थे सैनिक-सुरक्षासंविधानानि अमेरिकया आक्रमितानीति डोनाल्ड ट्रम्पेन अभिमानितम्। खार्गद्वीपे नवत्यधिकं स्थानेषु व्योमाक्रमणं कृतमिति यू एस् राष्ट्रस्य सेनाधिकारिणा उक्तम्।
किन्तु आक्रमणे तैलेन्धनसंविधानस्य न हानिरजायत, निर्यातप्रक्रिया स्थगनं विना सम्पन्ना इति इरानेन स्पष्टीकृतम्। यू एस् - इस्रयेलसख्यस्य इरानं विरुद्ध्य युद्धं तृतीयसप्ताहं प्रविष्टम्।
.jpeg)