केरलम्।
शबरिगिरि मन्दिरोत्सवाय श्वः ध्वजारोहणम्।
शबरिमला> शबरिगिरि श्रीधर्मशास्तृमन्दिरे दशदिनात्मकस्य उत्सवाय सोमवासरे ध्वजारोहणं विधास्यति। अद्य सायं मन्दिरम् उद्घाटितम्। कुजवासरतः उत्सवस्य अष्टमदिनं यावत् - ३० तमः दिनाङ्कः - प्रभाते नववादनानन्तरं 'सोपानारोहणाय' अनुज्ञा न लभते। किन्तु प्रतिदिनं सायं पञ्चवादने गर्भगृहोद्घाटनानन्तरं भगवद्दर्शनं साध्यमस्ति।
३१ तमे दिनाङ्के 'शरंकुत्ति' स्थाने 'पल्लिवेट्टा' नामकः उत्सवाचारः भविष्यति। एप्रिल् प्रथमदिनाङ्के अहनि ११ वादने पम्पानद्यां देवस्नानं - 'आराट्' - सम्पत्स्यते। तद्दिने रात्रौ दशवादने गर्भगृहं पिधास्यति।
