टि-२० विश्वचषकः।
विश्वकिरीटं भारताय।
न्यूसिलान्टं ९७ धावनाङ्कैः पराजापयत।
![]() |
| अर्धशतकं प्राप्तवन्तौ सञ्जू सांसणः इषान् किषनः च। |
अहम्मदाबादः> नरेन्द्रमोदी क्रीडाङ्कणं पुनरपि भारतस्य अभिमानक्षेत्रमभवत्। कन्दुकताडने क्षेत्ररक्षणे च अन्यादृशं श्रेष्ठत्वंं प्रकटितवत् भारतदलं टि-२० विश्वचषकस्य अन्त्यस्पर्धायां न्यूसिलान्टदलं ९७ धावनाङ्कैः पराजित्य किरीटमधिस्थापयामास।
प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु पञ्च ताडकानां विनष्टे २५५ इति बृहत्तमं प्राप्ताङ्कम् अलभत। ८९ धावनाङ्कान् सम्पाद्य सञ्जू सांसणः भारतस्य अधिकाङ्कप्राप्तः [Top scorer] जातः। भारताय इषान् किषनः (५४), अभिषेक शर्मा (५१) च अर्धशतकं प्राप्तवन्तौ।
प्रत्युत्तरक्रीडायां न्यूसिलान्टः १९ क्षेपणचक्रेषु १५९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। क्षेत्ररक्षणे अपि सर्वे क्रीडकाः स्वस्वप्राभवं प्रकट्य भारतं विजयतीरं प्रापयत्।
