OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 8, 2017

 खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतुं भारतम् 
नवदेहली>खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छिद्य अरब्राष्ट्राणां प्रवर्तने भारतस्य चिन्ता। बहरिन् ईजिप्त् सौदि अरेब्या यु एस् ई इत्यादि राष्ट्राणि खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतितवन्तः। गतागतमपि तैः निरोधितम्। स्व राष्ट्रेषु वर्तमानान् खत्तरपौरान् देशात् गन्तुं द्विसप्ताह समयं प्रदत्तम्।
मुस्लिम् ब्रदरह् इत्यादि भीकरसंस्थाः खत्तर आर्थिकसाहाय्यं ददाति इत्यारोप्य अरब्राष्ट्रैः एषा प्रक्रिया स्वीकृता।
अशीतिलक्षं भारतीयानां कर्मक्षेत्रं भवति अरेब्या। खत्तरे तथा सर्वत्र अरब्राष्ट्रेषु भारतीयानां विशिष्य केरलीयानां सान्निध्यं बृहत्तरमस्ति। खत्तरराष्ट्रस्य अस्मिन् प्रतिसन्ध्यां तत्रत्य कर्मकराणां अन्यत्र गन्तुं आगन्तुं च न शक्यन्ते।
खत्तर राष्ट्रं प्रति भारतात् उत्पन्नानां विक्रयणं तथा ततः क्रयणं च प्रचलति। खत्तरेण सह भारतस्य तन्त्रप्रधानं सहवर्त्तित्वं वर्तते । ऊर्जरंगे प्रतिरोधरंगे च एतत् सहवर्त्तित्वं।अत्यधिकं प्रकृतिवातकं खत्तरराष्ट्रात् भारतं स्वीकरोति। खत्तरेण सह भारतं पञ्चविंशति वर्षाणां समयः निर्मितः। गतदिसंबर मासे आसीत् सः समयः। गत केषुचित् संवत्सरेषु खत्तरेण सह भारतस्य बन्धं दृढीकृतम्।अत एव राष्ट्रस्य अस्य एषा अवस्था भारतमपि बाधते इति आर्थिकविदग्धाः वदन्ति।
२०२२ तमस्य विश्वचषक (world cup) पादकन्दुक क्रीडार्थं खत्तर राष्ट्रे बहूनि निर्माणप्रवर्तनानि प्रचलन्ति। सहस्रशः भारतीयाः गत संवत्सरेषु खत्तरराष्ट्रे आगताः। राष्ट्रस्य अस्य चिन्ता एषा पादकन्दुकक्रीडायाः कार्यकरणमेव।
प्रतिसन्धिः एषा इदानीं राष्ट्रं न बाधते चेदपि भविष्ये अवस्था भिन्ना भवेत्। विनेदसञ्चारक्षेत्रे खत्तरस्य आयः न्यूनः भविष्यति।एवं सम्पन्नस्य अस्य राष्ट्रस्य अवस्था भिन्ना भविष्यति।
संस्कृतं वा शीलम् ????? बालिकामुपहस्य सी एन् एन् दूरदर्शनावतारिका।
 न्यूयोर्क्>अमेरिक्कायाम् प्रवृत्तायाम्  आङ्गलपदानाम् अक्षरविवेचनस्पर्धायाम्  प्रथमस्थानम् प्राप्तां कैरलीबालिकाम्  अनन्या विनयम् (१२ वयस्कां ) उपहस्य सी एन् एन् दूरदर्शनशृङ्खलावतारिकाया: वंशीयपरामर्श:। गतसप्ताहे वाषिङ्टणे प्रवृत्तायाम् अक्षरविवेचनस्पर्धायाम् प्रथमस्थानम् प्राप्ताम् अनन्याम् अवतारिके अलिसिन् कामिरोटा  , क्रिस्  कोमो च मिलित्वा  अभिमुखं कृतवत्यौ। अभिमुखभाषणमध्ये  कामिरोटा अनन्याम् प्रति  अमेरिक्का राष्ट्रपते: डोणाल्ड् ट्रम्पस्य ट्वीट्टर् सन्देशान्तर्गतस्य "कोव्फेफे" इति प्रशस्तस्य असम्बन्धपदस्य अक्षरविन्यासक्रमं ताम् अपृच्छत् । तस्य पदस्य निर्वचनम् मूलभाषां च अनन्या ताम् प्रत्यपृच्छत् । आत्मार्थतया तस्य पदस्य अक्षरविन्यासं वक्तुं कृतपरिश्रमा सा बालिका अन्ते "कोफेफे" इति अक्षरविन्यासम् उक्तवती। वस्तुत: अक्षरविन्यास: "कोव्फेफे" इति स्पष्टीकृत्य कामिरोटा, एतत् असम्बन्धपदमिति च उक्त्वा एतस्य उद्भव: यथार्थतया संस्कृतात् वेति  अस्माकं निश्चय: नास्तीत्यपि सूचितवती।  संस्कृतमेव खलु नित्यमुपयुज्यते भवद्भि: इत्यपि योजितवती। अवतारक: क्रिस् कोमो  अनन्याया: सफलताम् अभिनन्दितवान् तथापि  संस्कृतसम्बन्धेन सह कामिरोटया कृतपरामर्शं विरुध्य समाजमाध्यमेषु व्यापकप्रतिषेधा: प्रसरन्ति।
विद्यालयेषु परीक्षाप्रणालिः परिष्क्रियते।
अनन्तपुरी> केरले प्रथमकक्ष्यायाः आरभ्य द्वादशकक्ष्यापर्यन्तं परीक्षाप्रणालिः आपादमस्तकं परिष्क्रियते। शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य नेतृत्वे एस् सि ई आर् टि आस्थाने सम्पन्ने उन्नताधिकारिणाम् उपवेशने एतदधिकृत्य निर्णयः जातः। आगस्ट् मासस्य पादवार्षिकमूल्यनिर्णयादारभ्य नूतनसम्प्रदायः प्रवृत्तिपथमागमिष्यति।
     निरन्तरमूल्यनिर्णयम् इतःपरं युक्तियुक्तं कारयिष्यति। एतदर्थं दीयमानः अङ्कः विभिन्नघटकैः विभज्यते। सर्वेभ्यः छात्रेभ्यः सम्पूर्णमङ्कानां दानेन  विजयमानं कृत्रिमेण वर्धयतीति आरोपणमस्ति। अङ्कविभजनं निर्णेतुं एस् सि ई आर् टि संस्थायै उत्तरदायित्वमदात्।
     प्रतिशतं २५ अङ्कानां प्रश्नाः अधिकं दीयन्त इति अन्यः परिष्कारः। विपुलं प्रश्नशेखरमपि सज्जीकरिष्यति।
 भारतस्य अभिमानम्  "स्थूलबाल:"( फाट् बोय् ) भ्रमणपथे, विक्षेपणं राष्ट्रस्य विजय:        
श्रीहरिक्कोट्टा>आधुनिकसाङ्केतिकताया: प्राबल्येन जी एस् एल् वी - मारक् त्रीणि उपग्रहवाहनं श्रीहरिक्कोट्टाया: विक्षेपितम् । विक्षेपणं विजयकरमिति ऐ एस् आर् ओ  न्यवेदयत् । "स्थूलबाल:"( फाट् बोय् )  इति आहूतस्य उपग्रहवाहनस्य विक्षेपणम्  मनुष्यबहिराकाशगमनं साधयेदिति  ऐ एस् आर् ओ  संस्थाया: स्वप्नपद्धते: निर्णायकपादस्थापनमेव । सी ई २०  इति क्रयोजनिकमुखयन्त्रेण सहिता: नैका: सविशेषता: अस्य वर्तन्ते । विक्षेपणस्य विजयकर्तॄन् शास्त्रज्ञान् राष्ट्रपति: प्रणब मुखर्जी, प्रधानमन्त्री नरेन्द्रमोदी, केरलस्य मुख्यमन्त्री पिणराई विजय:, ऐ एस् आर् ओ निर्देशक: किरणकुमार: एते अभिनन्दितवन्त: । जी एस् एल् वी उपग्रहयन्त्रस्य विक्षेपणेन  उपग्रहयन्त्रविक्षेपणे साङ्केतिकविद्यायां  च  भारतम् अग्रिमतलम् प्रविष्टम् इति प्रधानमन्त्रिणा सूचितम् । भारतेन तद्देशीयरीत्या  विकासितम् अतिभारयुक्तम् उपग्रहवाहनमेव क्रयोजनिकमुखयन्त्रसहितं श्रीहरिक्कोट्टाया: विक्षेपितमिति मुख्यमन्त्रिणा पि प्रदर्शितम्   । पादशतकातिलम्बितस्य शास्त्राज्ञानाम् परिश्रमस्य फलमेव विजयोयम् । बहिराकाशं प्रति मानवम् प्रेषयेत् इति भारतसमय स्वप्नपद्धतिं याथार्थ्यं क़र्तुम्
 भारतस्य़ पादन्यास:इत्यपि एतत् परिदृश्यते इत्यपि स: असूचयत्।।

Wednesday, June 7, 2017

मध्यप्रदेशे कृषक प्रक्षोभः - भुषुण्डिप्रयोगे पञ्च हताः। 
भोपाल् >मध्यप्रदेश राज्यस्य  मन्सोर् जनपदे कृषकान् प्रति आरक्षकैः कृतेन भुषुण्डिशस्त्रप्रयोगेण पञ्च हताः। अनावृष्टिबाधिते जनपदे कार्षिकोत्पन्नानां कृते अधिकमूल्यं याचमानैः कृषकैः कृतस्य आन्दोलस्य मध्ये  आसीदियं घटना। नैकाः आहताः।
     प्रक्षोभे भागं भजमानाः कृषकाः पिपालिया आरक्षकालयस्थानि वाहनानि अग्निसात्कृतानि , तेन कारणेनैव भुषुण्डिप्रयोगः कृत इति श्रूयते।
खत्तर् राष्ट्रस्य पृथक्करणं - विषयपरिहाराय तीव्रयत्नः आरब्धः। 
दुबाय् > गल्फ् - अरब मण्डलेषु सञ्जातं प्रतिसन्धिं परिहर्तुं तीव्रयत्नः आरब्धः। कुवैट् राष्ट्रस्य शासकः [अमीर्] सौदीराजं सन्दर्श्य चर्चां कृतवान्।
   सौदी अरेब्या राष्ट्रस्य नेतृत्वे यु ए ई , बहरिन् , ईजिप्ट् , यमन् इत्यादीनि सप्त राष्ट्राणि खत्तरेण सह नयतन्त्रबन्धान् विच्छेदितवतः आसन्। भीकरसंस्थाभ्यः खत्तर् राष्ट्रं साहाय्यं करोति इत्यारोप्य एव  तस्य पृथक्करणं कृतम्।
Episode 49- Sanskrit News
Meenakshi NV, Std.10,Brahmanandodayam, Ernakulam, Kerala.

Tuesday, June 6, 2017

लण्टने पुनरपि भीकराक्रमणम् - सप्त हताः। 
लण्टन् >शनिवासरे रात्रौ लण्टन्नगरे संवृत्ते भीकराक्रमणे सप्त जनाः हताः। ४८जनाः आहताः। आक्रमणकारिषु त्रयः आरक्षकैः निहताः च। नगरे प्रसिद्धेन "लण्टन् सेतु" मार्गेण सञ्चरन्तः पादचारिणः केनचन कार् यानेन दूरं विक्षिप्ताः।  अनन्तरं कार् यानात् अवतीर्णाः अाक्रमकारिणःसमीपस्थे आपणे स्थितान् जनान् छुरिकया आक्रमितवन्तः।

Monday, June 5, 2017

अमेरिक्कायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायां त्रुटिं विना  अनन्याविजयिनी।    
अमेरिक्कायाम् प्रचलिते  नवतितमे देशीयाङ्गलपदस्थाक्षरविवेचनस्पर्धायां (स्पेल्लिङ्ग् कण्टेस्ट् )  भारतवंशजाया:  अनन्यानामिकाया:(१२ वयस्काया: ) कृते विजयकिरीटम् । भारतवंशजं रोहन राजीवं नाम बालकं विजित्यैव  अनन्या स्पर्धायामस्यां जेत्री अभवत् । उपपञ्चविंशति: लक्षं रूप्यकाणाम् मूल्ययुतं  डोळर्  तथा फलकं (ट्रोफी) च पुरस्कार: । अनन्तपुर्याम् पूजप्पुरायां विनुभवने विनयश्रीकुमारस्य तृश्शिवपुरे चेलक्कोट्टुकरायाम्  पोलियेडत्त् गृहे  डा अनुपमायाश्च  पुत्रीयम् । कालिफोर्णियायाम्  फुगमान् एलिमेन्टरी विद्यालयस्य विद्यार्थिनी चेयम् बालिका । द्वितीयकक्ष्याछात्र:  अच्युत: सहोदर: । गुरुवारे रात्रौ मेरिलान्ड् गेलोर्ड् नाशनल् रिसोर्ट्  मध्ये प्रचलिते अतिशक्तायां स्पर्धायाम् एव अनन्या रोहनम् पराजितवती । " मारोकेन् "  इति पदं दोषं विना उच्चार्यैव  अनन्या किरीटं स्वायत्तमकरोत् । एकस्य विशिष्टवस्त्रविशेषस्य  नाम इदम् पदम् ।
श्वासवायुस्तूपिकां विना चत्वारो  भारतसैनिका: एवरस्ट् शृङ्गे ।
काठमण्डु:> श्वासवायुस्तूपिकां विना एवरस्ड् शृङ्गम् अधिरुह्य चत्वारो भारतसैनिका:।   कुञ्जोक्क् टेण्ट:  , केलषाङ् दोर्जि भूट्टिया , कलदेन् पञ्जूरः, सोनम् फन्तोस्क:  एते सैनिका: धीरसाफल्यम् प्राप्तवन्त:। मई एकविंशतिदिनाङ्के एतेषां सङ्घ:  एवरस्ट् अध्यारोहत् । शुक्रवारे प्रत्यागतवन्तश्च । चतुर्दशजनानां सङ्घ: दौत्याय सन्नद्ध:  प्रस्थितश्च। श्वासवायुस्तूपिकां विना एवरस्ट् आरोढुं  दशजनानां सङ्घ: रूपीकृत:। एतेषु चत्वार: एव दौत्यविजेतार: इति दौत्यसङ्घनायक: केणल् विशालदुबे उक्तवान्। " हिमसिंह: एवरस्ट् एक्स्पडिषन् २०१७ " ( स्नो लयण् एवरस्ट् एक्स्पडिषन् सप्तदशोत्तरद्विसहस्रम् )  इत्यासीत् दौत्यस्य नाम । अष्टचत्वारिंशदुत्तराष्टशताधिकाष्टसहस्रम् मीटर् उन्नतम् एवरस्ट् शृङ्गम् एतावता चतुस्सहस्राधिका:  आरूढवन्त:। एतेषु  सप्ताशीत्यधिकशतम् पर्वतारोहका: एव श्वासवायुस्तूपिकां विहाय शृङ्गमिदमारूढवन्त:। षट् षेर्पा मार्गनिर्देशकाश्च  सफलप्रयत्ना: । इदंप्रथमतया एक: सङ्घ: साहसिकयात्रायै प्रस्थित: इति वैशिष्ट्यम् भारतसेनाया: ।  लोकमूर्ध्नि  मानवेन पादस्पर्शं कृत्वा चतुष्षष्टिवर्षेषु पूर्तीकृतेषु  सुवर्णनिमिषेस्मिन्नेव सेनाया: दौत्यसाफल्यमित्यपि कौतुककरम्। त्रिपञ्चाशदुत्तरनवशताधिकसहस्रतमे  एड्मण्ड् हिलारि:  टेन्सिंग् नोर्गे च मिलित्वा  प्रप्रथमंम्  एवरस्ट् अधिरूढवन्तौ । एकसप्तत्युत्तरत्रिशतम्  पर्वतारोहकाणां कृते  अस्याम् ऋतौ  एवरस्ट् आरोढुम् अनुमतिर्दत्ता वर्तते नेपालेन । अस्मिन् वर्षे आहत्य एतावत्पर्यन्तं दश पर्वतारोहका: मृता:। आहत्य एतावता त्रिशतम् च मृतवन्त: । तेषु द्विशतानाम् मृतदेहोपि न प्राप्त:॥
रेलमार्गं विहाय रथ्यया अपि रेल्यानं चालयितुं शक्यते इति चैनया स्पष्टीकृतम् ।
         रथ्ययापि रेलयानं धावति किम् ?     धावतीति चैना स्पष्टीकरोति । रेलमार्गं त्यक्त्वा रथ्यया सञ्चरत: रेलयानस्य दृश्यचित्राणि सामान्यचित्राणि  च चैनया बहिरानीतानि वर्तन्ते । लोके एव प्रप्रथमं  स्यादिदम् परीक्षणम् । किन्तु  सामान्यरेलयानेषु उपयुज्यमानानि दृढायोनिर्मितानि चक्राणि विहाय  रबर् चक्राणि एव एव रेलयानेषु  उपयुक्तानि। चैनानगरस्य ह्यूनानप्रविश्यायां जूण् द्वितीयदिनाङ्के  रेलयानस्य नूतनसेवनम् आरब्धम् । अत्याधुनिकसाङ्केतिकज्ञानसाह्येन निर्मितं रेलयानमिदं लोके एव विप्लवात्मकपरिवर्तनम् आनयेत् इति विश्वास:।  त्रयोदशोत्तरद्विसहस्रतमे  एव  अस्या: कल्पनाया: बलेन यत्नोयं सफलीकृतम् । चैनाया: रेल् कोर्परेषन् संस्थाया: नूतनसंरम्भ: अयम् पूर्णतया अष्टादशोत्तरद्विसहस्रतमे एव प्रवर्तनक्षमम् भवेत्। सामान्यमार्गेषु  निर्दिष्टचिह्नितमार्गेण एव रेलयानं सञ्चरेत् । रेलयाननियन्त्रणाय  अनेकानि सेन्सर् यन्त्राणि  च उपयुज्यन्ते । एतेषां सेन्सर् यन्त्राणां साहाय्येन चालक:  मार्गस्थरेलमार्गम् अभिव्यनक्ति । घण्टायां सप्तति: कि मी वेगमानकयुतं  मुखयन्त्रसहितं ( एन्जिन् ) रेलयानं दशनिमेषाणां वैद्युतिग्रहणेन पञ्चविंशति: कि मी पर्यन्तं दूरं सञ्चरेत् ।
भारतीयवीथ्यः विद्युत् यानानि आधिपत्यं स्थापयिष्यति।
नवदेहली>त्रयोदशसंवत्सराभ्यन्तरे भारतस्य वीथ्यः विद्युत् यानैः पूर्णं भविष्यन्ति। तदर्थमेका पद्धतिः केन्द्रसर्वकारेण निर्मिता। पद्धतेः कार्यान्वियानन्तरं शिलातैलयानानां विक्रयणं पूर्णतया समापिष्यति।
खननव्यवसाय विभागः नीति आयोगः च मिलित्वा विद्युत् यानानां उपयोगाय बृहती प्रचारणपद्धतिः आरब्धौ।
व्ययन्यूनत्वं संभवति चेत् जनाः विद्युत् यानानां उपयोगं करिष्तन्ति इति ऊर्जमन्त्रि पीयूष् गोयल् अवदत्। २०३० तमेन शिलातैलयानानां विक्रयणं राष्ट्रे न संभवेदिति पीयूष् गोयल् अवदत्।
द्वयेन त्रयेन वा वर्षेन शिलातैलयानेभ्यः विद्युत् यानानि स्वीकर्तुं सर्वकारः साहाय्यं दास्यति। त्रि वर्षत्रयाभ्यन्तरे बृहत्या रीत्या विद्युत् यानानि वीथ्यां आगमिष्यन्ति। तदर्थं करः न्यूनता प्रख्यापनमपि भविष्यति।

Sunday, June 4, 2017

अच्चुदेवः नित्यतां प्राप्तवान्। 
कोष़िक्कोट् > अरुणाचलसीमायां सुखोय् - ३० विमानस्य भग्नेन वीरमृत्युं प्राप्ताय युवसैनिकाय अच्चुदेवाय जन्मग्रामस्य बान्धवानां च अन्त्याञ्जलिः।
      दिल्लीतः अनन्तपुरीम् आनीतः मृतदेहः सविशेषविमानेन करिप्पूर् विमाननिलयं नीत्वा शतशानां वाहनानां अनुगमनेन पन्नियूर्कुलं ग्रामस्थं स्वगृहं प्रापितः। मध्याह्नं सार्धद्विवादनपर्यन्तं गृहाङ्कणे सामाजिकदर्शनाय स्थापितः। दह्रादूणस्थे राष्ट्रिय इन्डियन् सैनिकविद्यालये सहपाठिनः नाषणल् डिफन्स् अक्काडम्यां सहपरिशीलकाश्च अन्तिमोपचारं समर्पयितुम् अच्चुदेवस्य गृहं प्राप्तवन्तः। कोयम्पत्तूर् व्योमकेन्द्रस्य फ्लैट् लफ्टनन्ट् सञ्जय् रत्तस्य नेतृत्वे उपपञ्चाशत् सैनिकाः सैनिकपारम्पर्यमनुसृत्य अन्तिमबहुमतिं दत्तवन्तः। स्वदेशीयाः ग्रामीणाः जयजयघोषेण अन्तिमाभिवाद्यम् अर्पितवन्तः।
     केरलसर्वकारस्य प्रातिनिध्यं स्वीकृत्य मन्त्री कटन्नप्पल्लि रामचन्द्रः , नियमसभासामाजिकाः , अन्ये जनप्रतिनिधयः इत्यादयश्च अन्त्योपचारसमर्पणाय अच्चुदेवस्य गृहं प्राप्तवन्तः आसन्।

Saturday, June 3, 2017

दयायाचिकानिरसनं यावत् जादवः सुरक्षित इति पाकिस्थानः। 
इस्लामबाद् - भारतस्य गुप्तचरः इत्यारोप्य बन्धीभूतस्य कुलभूषण् जादवस्य मृत्युदण्डनं शीघ्रं न विधास्यतीति पाकिस्थानेन पुनरप्युदीरितम्। "जादवाय प्रथमं स्थलसेनाधिकारिणं प्रति , तदनन्तरं राष्ट्रपतिं प्रति च दयायाचिकां समर्पयितुम् अवसरः लभते। तन्निर्णयं यावत् तस्य दण्डनाय कालविलम्बः भविष्यति।" विदेशकार्यवक्त्रा नफीस् सक्करिया नामकेनोक्तम्।
गोवयापि पलास्तिकस्यूतो निरोधित:I         
सर्वदा पलास्तिक: प्रकृते: शाप: । मानवसस्यजीवजालानाम् नाशोन्मूलकमेनम्  उन्मूलयेत् । अस्माकं कर्तव्यमेव तत् । राष्ट्रस्य विभिन्नभागेषु पूर्णतया पलास्तिके उन्मूल्यमाने सति  केरले किमर्थम् तत् असम्भाव्यम् ?  राष्ट्राभिमानं वर्धयित्वा मेट्रो नगराणि आकाशं स्पृष्ट्वा  लसन्ति । एतै: नगरैस्सह  पलास्तिकमालिन्यशृङ्गाणि अपि वर्धितानि , प्रसृतानि । पार्श्वैकत्र नगरसौन्दर्यम् आधुनिकवत्क्रियते  अपरत्र मालिन्यै: धूलिधूसरितं च भूयते । दिल्ली , चेन्नै , मुम्बै , हैदराबाद् , कोलकत्ता किमधिकं ? गोश्रीपुरमपि मालिन्यै विह्वलितं श्वासनिरोधितं च । पलास्तिकमालिन्यै:  न केवलं नगरसौन्दर्यं विनष्टं ,  अपि च  मलिनगर्तानि अवकरसरणीश्च पूरितानि भूत्वा मार्गान् तथा नगरप्रान्तप्रदेशान् च   बाधते । मानवानां गौरवकरा: आरोग्यसमस्या: च उद्भूयन्ते ।  वृष्टिकाले एषा समस्या गुरुतरा इत्यत्र नास्ति सन्देहलेशोपि । उपयोगे नियन्त्रणं करणीयमिति अवश्यश्रद्धार्ह: विषय: । राष्ट्रे विभिन्नराज्याणि पलास्तिकमालिन्यरहितानि कर्तुमेव अधिकारिणां श्रम: । गोवा मध्यप्रदेशश्च उत्तमोदाहरणे । गोवायाम् पलास्तिकस्यूतानां निरोधनं  करिष्यति सर्वकार: एव । राष्ट्रे अतिप्रशस्तं विनोदसञ्चारकेन्द्रम् गोवामेवम् पलास्तिकरहितराज्यं कर्तुम्  प्रक्रिया: एव एतेन मुख्यमन्त्री मनोहर परीकर: लक्षीकरोति । नियमलङ्घकानां पक्षत: पञ्चसहस्रं रूप्यकाणि  दण्डनद्रव्यरूपेण  स्वायत्तीकर्तुं च सर्वकारनिर्देश: वर्तते ।  जुलै प्रथमदिनाङ्कात् नियम:  कार्यक्षम: भविष्यति । एतदर्थं राज्ये राजमार्गपार्श्वेषु पलास्तिकमालिन्यस्वीकाराय प्रवर्तनकेन्द्राणि ( वर्क् स्टेशन् ) स्थापितानि । जनै : तेषाम् पलास्तिकमालिन्यानि तत्र निक्षेप्तुं शक्यते । पूर्वमेव मद्यमपि गोवायां सर्वकारै:  निरोधितमासीत् । एवमेव मध्यप्रदेशेपि पोलित्तीन् पलास्तिकस्यूता: निरोधिता: आसन् । वर्धमानम् पलास्तिकमालिन्यं न केवलम् मानवानां किन्तु सर्वेषां जीवजालानां च मरणहेतुकमिति परिणमितम् आसीत् । मध्यप्रदेशे शताधिका: गाव: पलास्तिकखादनेन मृता: । सप्तदशोत्तरद्विसहस्रे (२०१७) जनुवरिमासे दिल्ल्यामपि पलास्तिकस्यूता: निरोधिता: ।।।
कूटंकुलम् आणवनिलयाय रूस् राष्ट्रस्य साहाय्यम्। 
 सेन्ट् पीटेर्स्बर्ग्> तमिल् नाट् राज्ये कूटंकुलम् अणुशक्तिनिलयस्य अन्तिमपादद्वय-निर्माणाय रूस् राष्ट्रस्य आर्थिकसाहाय्यं लभते। एतदनुरूपे सम्मतिपत्रे भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिश्च सेन्ट् पीटेर्स् बर्ग् मध्ये कृतयाः चर्चायाः अनन्तरं हस्ताक्षरं कृतवन्तौ। अणुशक्तिनिलयस्य पञ्चम षष्ठ पादाभ्यामेव रूस् राष्ट्रस्य साहाय्यं लप्स्यते। सहस्रमेगावाट् परिमितं वैद्युतिम् उत्पादयितुम् एकैकं पादं समर्थमस्ति।

Friday, June 2, 2017

संस्कृताय शैक्षिकनयं रूपवत्करिष्यति - डो . जे. प्रसादः।
कालटी - केरलेषु संस्कृतशैक्षिकमण्डलं कर्मोत्सुकं कारयितुं संस्कृतशैक्षिकनयं रूपवत्कर्तुम् अपेक्षमाणाः पदक्षेपाः स्वीकरिष्यन्ते इति एस् सि ई आर् टि निदेशकः डो. जे. प्रसादः प्रोक्तवान्।
   "केरलेषु संस्कृतशिक्षा - अभिग्रहः सम्भाव्यता च" इत्यस्याः त्रिदिनसङ्गोष्ठ्याः समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् प्रसादवर्यः। डो. जि . गङ्गाधरन् नायर् अध्यक्षपदम् अलङ्कृतवान्। कालटी संस्कृतविश्वविद्यालयस्य उपोपकुलपतिः धर्मराज् अटाट् , एम् एस् मुरलीधरन् पिल्लै , महेष्बाबुः , के. रमादेवियम्मा , एन् विजयमोहनन् पिल्लै इत्येते प्रभाषणं कृतवन्तः।
पारिस् वाग्दत्तसन्धिभ्यः अमेरिक्का प्रतिनिवृत्ता।
वाषिङ्टण् > वातावरणव्यत्ययसम्बद्धः पारिस् सन्धिभ्यः अमेरिका राष्ट्रेण प्रतिनिवृत्यते इति  डोणाल्ड् ट्रम्पेन प्रख्यापितः। निर्वाचन-सन्दर्भे दत्तं वाचं पालयितुमेव एतादृशी प्रतिनिवृत्तिः। आगोलतापनं विरुद्ध्य संग्रामाय लोक राष्ट्राणि ऐकमत्येन तिष्ठन्ति। अतः अनेन निश्चयेन यूरोप् जनानां मध्ये ट्रम्पः अप्रियः भविष्यति। अयं सन्धिः यू एस् विरुद्धः विवेचनात्मकः तथा चीनायाः गूढबुद्धेः परिणितफलं च भवति इति ट्रम्पेन उक्तम्।
पञ्चदशधिक द्वि सहस्रतमे संवत्सरे (२०१५ ) पञ्चनवत्यधिकैकशतं (१९५) राष्ट्रैः सन्धौ हस्ताक्षरं कृतम्। सिरिया निक्वराग्व च सन्धौ नास्ताम्। अन्तरीक्षमलिनीकरणस्य कारणभूतः अङ्गारवायोः बहिर्गमनं न्यूनीकृत्य व्यावसायिक-सङ्ग्रामात् पूर्वम् आसीनेषु अवस्था स्थापनीया इति एव पारिस् सन्धौ प्रख्यापितः। सन्धौ एव सदा घुवं स्थास्यते इति चैना अवोचत्।
बीहार राज्ये उच्चतरमाध्यमिकस्तरे  प्रतिशतं ६४ छात्राः पराजिताः। छात्राः प्रतिषेधं कुर्वन्ति।
पाट्ना> बीहार राज्ये उच्चतरमाध्यमिकस्तरे परीक्षालिखितेषु छात्रेषु प्रतिशतं चतुषष्ठि छात्राः पराजिताः। इण्डर कौण्सिल् कार्यालयस्य पुरतः मिलित्वा छात्राः प्रतिषेधं अकुर्वन्। आरक्षकाणां छात्राणां मध्ये संघर्षः जातः।
पाषाणखण्डैः कार्यालयं क्षिपतः छात्रान् दण्डेन आरक्षकाः अधावयन्। माधेपुरा एम् पी राजेष् रञ्जन् इति पप्पु यादवस्य अनुयायिनः शतशः युवजनप्रवर्तकाः संग्रामे भागभाजः अभवन्। षट् छात्राः आरकषकैः गृहीताः। बीहार शिक्षामन्त्रिणा अक्रमराहित्याय छात्राः निवेदिताः। छात्राः यस्मिन् विषये  पराजिताः तस्मिन्  झटित्येव पुनःपरीक्षां लिखित्वा विजयिनः भविष्यन्ति चेत् पराजितानां तेषां एकसंवत्सरं नष्टं नभविष्यतीति मन्त्रिणा उक्तम्। परीक्षा संपूर्णतया सुतार्यतया प्रचलति। उन्नतविजयं प्राप्तान् कुशलान् उपरिपठनाय प्रेषयति इति सः अयोजयत्।

Thursday, June 1, 2017

अफ्गानिस्थाने भारतीयदौत्यालयसमीपं महत्स्फोटनम्, अधिकारिणः सुरक्षिताः।
काबूल्> अफ्गानिस्थाने भारतीयदौत्यालयसमीपे  संवृत्ते महति स्फोटने उपपञ्चाशत् जनाः मारिताः इति सूच्यते। नैकाः आहताः। दौत्यालयात् शतमीटर् दूरे सञ्जातस्य स्फोटनस्य प्रकम्पने कार्यालस्य द्वाराणि वातायनानि च छिन्नभिन्नानि जातानि।  कार्यालये वर्तिताः अधिकारिणः सर्वे सुरक्षिताः वर्तन्ते इति विदेशकार्यमन्त्रिणी सुषमा स्वराजः ट्विट्टर् द्वारा न्यवेदयत्।
 आक्रमणस्य उत्तरदायित्वं येनकेनापि न स्वीकृतम्।
अनङ्गीकृतान्  आङ्गलमाध्यमविद्यालयान् प्रतिषिद्ध्य नियमक्रम: आगच्छति।  
कण्णूरु>शिक्षाधिकारनियमस्य पादं गृहीत्वा अनङ्गीकृतान् आङ्गलमाध्यम-विद्यालयान् प्रतिषिद्ध्य केरले नियमक्रम: आगच्छति। प्रारम्भरूपेण राज्यस्तरे एव आहत्य कति एतादृशविद्यालया: सन्तीति गणनां कृत्वा शिक्षाविभागेन तत् प्रसिद्धीक्रियते।  तन्मध्ये विविधमण्डलेषु  केचन विद्यालया: कीलितुं सन्नद्धा: पुरतः आगता:। कण्णूरुमण्डले एव उपत्रिंशत् संस्था: इत्थम् पुरतः आगता:। कील्यमानविद्यालयछात्रा: तत्समीपस्थसर्वकारविद्यालयम् प्रविशन्ति। तिरुवनन्तपुरम्, कोल्लम्, कोषिक्कोड्, मलप्पुरम् जनपथेषु च एतादृशविद्यालया: अधिका: ।  प्राय: पञ्चशतोत्तरसहस्रं (१५००) त: द्विसहस्रं (२०००) पर्यन्तं ते भवितुमर्हन्ति। स्थानम्, भवनम्, अन्यप्राथमिकसौकर्याणि  योग्या: शिक्षका: च विना प्रवर्तमानेषु एतेषु  सी बी एस् ई द्वारा  अङ्गीकारोपि न लभन्ते। पश्चात् अङ्गीकार: स्वायत्तीकरिष्यति इति वाग्दानेन सह छात्रान् प्रवेशयन्ति च। अनङ्गीकृतेषु तेषु प्रवेशो मास्तु छात्रान् सर्वकारविद्यालयम् प्रवेशयन्तु इति सामान्यशैक्षणिकाध्यक्षेण प्रतिवर्षं निर्देशो दीयते। किन्तु किमपि न सम्भवति । प्रबन्धकसहकरणसमित्या: स्वाधीने  यथापूर्वं कार्याणि  सफलानि  च सम्भूतानि । अस्मिन् वर्षे मण्डलस्तरे एव गणनां कृत्वा अनङ्गीकृतसंस्थानाम् आवलि: बहि: प्रकाशयितुम् उद्देश्यते।  अनवधानतया  छात्रा: ता: संस्था: मा प्रविशेयु: इति उद्दिश्य एवं क्रियते। शिक्षाधिकारनियमस्य कर्शनस्वीकारेण एतेषां सुस्थिति: विनष्टा भवेत् इति शिक्षाविभागेन उच्यते। सन्दर्भेस्मिन् सर्वकारविद्यालयेषु  छात्राणां सङ्ख्या वर्धिता च।
केरलविद्यालयेषु अद्य विद्यारम्भः।
कोच्ची> ग्रीष्मविरामकालं समाप्य केरले विद्यालयाः अद्य उद्घाट्यन्ते। सर्वेषु विद्यालयेषु अद्य प्रवेशनोत्सवः प्रचाल्यते।
      सार्वजनीनशिक्षासंरक्षणयज्ञस्य उत्साहे एव अध्यापकाः रक्षाकर्तृसमितयः अधिकारिणश्च। छात्रान् स्वीकर्तुं विद्यालयाः सज्जाः वर्तन्ते। नवागतान्  बालकान् आकर्षयितुं सन्तोषयितुं च विविधाः मनोरञ्जककार्यक्रमाः अध्यापकैः ज्येष्ठछात्रैश्च आयोजिताः सन्ति।
वानाक्रै आक्रमणस्य पृष्ठत:  उत्तरकोरिया न; चैना ?
लण्डन्>  वानाक्रै आक्रमणस्य पृष्ठत: चैनादेशीया: साङ्केतिकचूषका: इति पठनम्। " फ्लाष् पोयिन्ट् " नामिकाया: सैबर् सुरक्षासंस्थाया:  विदग्धा: कर्मकरा:  एव विशदीकरणैस्सह रङ्गं प्रविष्टा:। मालवेयर् बाधितेषु सङ्गणकेषु  मोचनद्रव्यम् अर्थित्वा प्रत्यक्षीभूतेषु सन्देशेषु भाषापरा: प्रत्येकता: शोधयित्वा एव चैनाबन्ध: सूच्यते। व्यत्यस्तराष्ट्रेषु   अष्टाविंशति: भाषासु सन्देशा: प्रत्यक्षीभूता: । एतेषु चीनाभाषायाम्  प्रत्यक्षीभूते सन्देशे एव व्याकरणनियमा:  ससूक्ष्मम्  पालिता:। आङ्गलेयम् चीनाभाषाम् च विहाय  अन्या: भाषा: सङ्गणकसाह्येन परिभाषिता: ( अनूदिता: )  इत्यपि लक्षिता: । आङ्गलेये च व्यापकतया व्याकरणदोषा:  उन्नीता: तै:। अत: चीनाभाषाविदग्धेन केनचित् सन्देशा: प्रेषिता: भवेयुरिति विदग्धा: अभिप्रयन्ति। भाषावैशिष्ट्यमात्रम् पुरस्कृत्य  आक्रमणस्य पृष्ठत: चैना एवेति वक्तुं न शक्यते   इत्यपि ते वदन्ति। वानाक्रै आक्रमणस्य उत्तरकोरियया सह अभेद्यबन्ध: अस्तीति प्रस्तूयमानम् आवेदनपत्रं  अमरीकाया: प्रमुखसैबर् सुरक्षासंस्थया सीमान् टेक् द्वारा गतसप्ताहे एव  बहिराविष्कृतम्। यू के नाश नल् क्रैम् एजन्सी , यू एस् अन्वेषणविभाग: एफ् बी ऐ, यूरोपस्य आरक्षक एजन्सी यूरोपोल्  एतानि केन्द्राणि वानाक्रै आक्रमणम् अधिकृत्य अन्विषन्ति ।

Wednesday, May 31, 2017

 भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखमस्त्रम् - जेटली 
प्रतिरक्षामंत्री अरुणजेटली अवोचत् यत् भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखम् अस्त्रं विद्यते । अनेन प्रत्येकस्मिन् क्ष्‍ेात्रे शान्तेः स्थापना भवितुं शक्नोति । गतदिने नवदिल्ल्याम् एकस्मिन् कार्यक्रमे श्री जेटलिना निगदितं यत् भौगोलिक-राजनैतिक परिस्थितयः वीक्ष्यः रक्षोत्‍पादनक्षेत्रे पर्याप्‍तवृद्धेः आवश्यकता वर्तते । सममेव रक्षामन्त्रिणा देशस्य सार्वजनिकानि संस्थागतानि च क्षेत्राणि उन्‍नतास्त्रप्रणाल्याः विकासाय अध्यर्थितानि । अत्रावसरे समायोजिते कार्यक्रम सार्वजनिकक्षेत्रस्य रक्षोपक्रमेभ्यः २०१४-१५ अथ च २०१५-१६ वर्षद्वयाय उत्‍कृष्‍टप्रदर्शनाय रक्षामंत्री पुरस्‍काराः  प्रदत्ताः ।

Episode 48- Sanskrit News
Anjana Shaji, Std.10,MGMHSS, Nayathodu, Ernakulam, Kerala.