OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 15, 2022

 खत्तर् अन्तिमस्पर्धा - अर्जन्टीनायाः प्रतियोगी फ्रान्सः। 

दोहा> खत्तरे विश्वचषकपादकन्दुकक्रीडापरम्परायाः अन्तिमस्पर्धायां अर्जन्टीनां विरुध्य फ्रान्सः खेलिष्यति। गतरात्रौ सम्पन्ने अर्धान्तिमचक्रस्य द्वितीयपादे वीर्य-शौर्ययुक्तं मोरोक्कोदलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य एव इदानींतनवीरस्य फ्रान्सदलस्य अन्तिमस्पर्धाप्रवेशः। 

  खेलनस्य पञ्चमे निमिषे तियोफेर्णाण्डस् इत्यनेन प्राप्तेन लक्ष्येण  फ्रान्सस्य उद्देश्यं स्पष्टं कृतम्। मोरोक्को दलेन तेषां सर्वं वीर्यं शौर्यं च बहिर्नीतमपि लक्ष्यप्राप्तौ विफलमभवत्। क्रीडायाः ८० तमे निमिषे मुवानी नामकः फ्रान्सस्य अजय्यताम् 'अष्टबन्धस्थिरं' कृतवान्। 

  रविवासरे रात्रौ ८. ३० वादने लूसेल् क्रीडाङ्कणे अन्तिमयुद्धं सम्पत्स्यति। अनुस्यूततया द्वितीयवारमेव फ्रान्सस्य अन्तिमस्पर्धा।

Wednesday, December 14, 2022

 अणुसंयोजनद्वारा अधिकोऽर्जम्। प्रयोगस्य फलप्राप्तिः। 

  अणुसंयोजनद्वारा अधिकसमयोर्जोत्पादनार्थं वैज्ञानिकैः कृतस्य प्रयोगस्य फलप्राप्तिः अभवत्। इन्धनस्य स्थाने शुद्धोर्जस्य प्रधानस्रोतरुपेण अणुसंयोजनम् उपयोक्तुं शक्यते इति यु एस् राष्ट्रस्य भौतिकवैज्ञानिकैः आविष्कृतम्। कालिफोर्णियायाः लोरन्स् लिवर्मोर् विश्व -प्रयोगशालायामेव ऊर्जविनिमयविद्यामण्डले सुप्रधानं प्रयोगं सम्पन्नम्।

 कुलाधिपतिपदं- राज्यपालतिरस्करणविधेयकम् अङ्गीकृतम्।

अनन्तपुरी> केरलानां विश्वविद्यालयानां  कुलाधिपतिस्थानात् राज्यपालं तिरस्कर्तुमुद्दिश्यमानं विधेयकं केरलविधानसभया अङ्गीकृतम्। बहुकालं राजनैतिकवादप्रतिवादानां तर्कवितर्कानां च कारणभूतमासीदयं विषयः। ह्यः विधानसभायां एतद्विधेयकमधिकृत्य चर्चायाः अन्ते विपक्षाङ्गानां सभाबहिष्करणानन्तरमासीत् विधेयकाङ्गीकारः संवृत्तः। 

 कुलाधिपतिनियुक्तये मुख्यमन्त्रिणः नेतृत्वे वर्तमाना  त्र्यङ्गसमितिः रूपीकरणीया। समित्यामस्यां मुख्यमन्त्रिणं विना सभानाथः विपक्षनेता च अङ्गौ भविष्यतः। अनया समित्या मन्त्रिमण्डलं प्रति समर्प्यमाणनिर्देशमनुसृत्य भवेत् कुलाधिपतिनियुक्तिः।

 अर्जेंटीना अन्तिमस्पर्धां प्रविष्टा।

लक्ष्यकन्दुकप्राप्तौ मेसिनः मित्राणां च आह्लादः। 

खत्तर्> आक्रमणप्रत्याक्रमणैः उद्वेगभरितायाम् आद्यार्धान्तिमस्पर्धायां क्रोयेष्यादलं प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः पराजित्य लयणल् मेसी महाशयस्य अर्जेंटीना विश्वचषकपादकन्दुकस्पर्धायाः अन्तिमचक्रं प्राविशत्। 

  अर्जेंटीनानायकः मेसीवर्यः प्रतिद्वन्द्वस्य ३४तमे निमिषे 'पेनाल्टी'क्षेपणरूपेण प्रथमं लक्ष्यकन्दुकं प्राप्तवान्। ततः जूलियन् अल्वारस् नामकः ३९,६९ निमिषयोः लक्ष्यकन्दुकद्वयं प्राप्य अर्जेंटीनायाः अन्तिमस्पर्धाप्रवेशं निर्विशङ्कं कृतवान्। मेसीमहोदयः विश्वचषकस्पर्धासु ११ लक्ष्यकन्दुकानि सम्प्राप्य विशिष्टपदमारूढवान्।

Tuesday, December 13, 2022

 विश्वपादकन्दुकचषके अद्य प्रथमो चतुर्थांशः। 

दोहा> खत्तरे अद्य - भारतसमयः रात्रौ १२. ३० वादनम् - विश्वपादकन्दुकचषकस्य प्रथमे चतुर्थांशप्रतिद्वन्द्वौ अर्जेन्टीना क्रोयेष्यां प्रति स्पर्धिष्यते। 

  अर्जन्टीनानायकः लयोणल् मेसी क्रोयेष्यानायकः लूका मोट्रिच् इत्यनयोः अभिमानस्पर्धा भवत्यद्य। श्वस्तनस्य द्वितीये चतुर्थांशे इदानींतनवीरः फ्रान्स् दलः आफ्रिक्कावीर्यं मोरोक्कोदलं प्रति स्पर्धिष्यते।

 गुजराते भूपेन्द्रमन्त्रिमण्डलम् अधिकारं स्वीचकार। 

गुजरातस्य मुख्यमन्त्री भूपेन्द्र  रजनीकान्त पट्टेलः 

गान्धिनगरं> गुजरातस्य १८ तममुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः शपथवाचनं कृत्वा पदं स्वीकृतवान्। तेन सह १६ मन्त्रिणोSपि स्थानं स्वीकृत्य शपथं कृतवन्तः। गान्धिनगरस्य 'हेलिपाड्' क्रीडाङ्कणे सम्पन्ने शपथविधिसमारोहे राज्यपालः आचार्य देवव्रतः शपथविधिं कारितवान्। 

  समारोहेSस्मिन् प्रधानमन्त्री नरेन्द्रमोदी, अमितशाहः,राजनाथसिंहः इत्यादयः केन्द्रमन्त्रिणः, भा ज पायाः देशीयाध्यक्षः जे पी नड्डः, एन् डि ए सख्ये अन्तर्भूताः मुख्यमन्त्रिणः एवं प्रौढः नेतृपंक्तिश्च कार्यक्रमे सान्निध्यमावहत्। 

  अधिकारं लब्धवत्सु १६ मन्त्रिषु ८ 'काबिनट्'पदीयाः सन्ति। द्वौ स्वतन्त्रपदीयाः सहमन्त्रिणौ, अपरे ६ सहमन्त्रिणश्च भवन्ति।

 भारत - चीनयोः सीमायां सैनिकयोर्मध्ये पुनरपि संघर्षः। 

  नवदिल्ली> अरुणाचलप्रदेशे यथार्थनियन्त्रणरेखायां भारत-चीनयोः सैनिकानां मध्ये संघर्षो जातः इति प्रतिवेदनम्। दिसम्बर् मासस्य नवमे दिने एव घटनेयं दुरापन्ना। द्वयोरपि विभागयोः केचन सैनिकाः व्रणिताः। अरुणाचलप्रदेशे तवाङ् मण्डले एव घटना एषा जाता। चीनस्य सैनिकाः यथार्थनियन्त्रणरेखाम् उल्लङ्घितवन्तः। भारतसेनया निवारिताः च। चीनस्य सैनिकाः निगूढरूपेण उल्लंघनं कर्तुं ३०० पर्यन्तं सैनिकाः प्रभाते त्रिवादने समागतवन्तः।तदेव संघर्षस्य कारणम्। किंतु भारतीयसैनिकाः जागरिताः आसन्।

Monday, December 12, 2022

 हिमाचलप्रदेशे सुखवीन्दर्सिंहसुखुः मुख्यमन्त्री। 

षिंला> हिमाचलप्रदेशस्य १५ तममुख्यमन्त्रिरूपेण कोण्ग्रस् नेता सुखवीन्दर्सिंहसुखुः गतदिने शपथवाचनं कृतवान्। राज्यपालः राजेन्द्र विश्वनाथ अर्लेकरः सत्यप्रतिज्ञां कारितवान्। मुकेष् अग्निहोत्रिः उपमुख्यमन्त्रिरूपेण शपथमकरोत्। 

  राहुलगान्धी, प्रियङ्कागान्धी, राजस्थानस्य मुख्यमन्त्री अशोकगहलोट्, छत्तीसगढ़स्य मुख्यमन्त्री भूपेश बखेलः कोण्ग्रसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे इत्यादयः कोण्ग्रसनेतारः कार्यक्रमेSस्मिन् भागं स्वीकृतवन्तः।

 कोच्चि 'मुसिरिस् बिनाले' कलाप्रदर्शनम् अद्य उद्घाट्यते। 

कोच्ची> प्रयोज्यकलायाः विशाललोकजालकत्वेन वर्तमानस्य कोच्चि 'मुसिरिस् बिनाले' नामकस्य  कलाप्रदर्शनस्य पञ्चमं संस्करणं सोमवासरे मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाट्यते। अद्य सायं षट्वादने फोर्ट्कोच्ची परेड् क्रीडाङ्कणे कार्यक्रमाः आयोजिताः। डिसम्बर् १२ तः आरभ्य एप्रिल् १० पर्यन्तं सम्पद्यमानं कलाप्रदर्शनं १४ वेदिकासु आयोजितम्।

Sunday, December 11, 2022

 खत्तरे आफ्रिक्कीयप्रतिलोमः ; पोर्चुगल् बहिर्नीतम्। 

मोरोक्कोदलस्य आह्लादः। 

दोहा> खत्तर् विश्व पादकन्दुकचषके विश्वचषकस्य चरित्रे इदंप्रथमतया किंचन आफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्रविष्टम्। अतिशक्तं यूरोपीयराष्ट्रं पोर्चुगलं प्रत्युत्तररहितेन एकेन लक्ष्यकन्दुकेन पराजित्य मोरोक्को इत्याफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्राविशत्। 

  क्रिस्टियानो रोनाल्डो इति विश्वोत्तरपादकन्दुकक्रीडकस्य सन्तापाश्रुभिः खत्तरभूतलं न्यषिञ्चम्। आरम्भत एव मोरोक्कोदलस्य वीर्यप्रभावस्य निश्चयदार्ढ्यस्य च पुरतः पोर्चुगलस्य प्रभावः अस्तंगतः। क्रीडायाः प्रथमार्धस्य ४२ तमे निमिषे मोरोक्कोदलस्य यूसफ् एन् नेसिरि इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव तेषां चतुर्थांशप्रवेशः साधितः।

 मान्दोस चक्रवातः - तमिलनाटे अतिनाशः, ६ मरणानि, अतिवृष्टिः। 

चेन्नै> वंगसमुद्रान्तराले आविर्भूतस्य मान्दोस् नामकचक्रवातस्य दुष्प्रभावेण तमिलनाटस्य समुद्रतीरजनपदेषु अतिनाशः दुरापन्नः। शनिवासरस्य प्रत्युषसि महाबलिपुरं जनपदे भूतलस्पर्शं कृतवतः चक्रवातस्य वेगः ७५ कि मी प्रतिहोरायामासीत्। चक्रवातस्य दुष्प्रभावेण तीरप्रदेशजनपदेषु विद्युत्वितरणं स्थगितम्। सहस्रशः मत्स्यबन्धनयानानि विशीर्णानि। 

  षट् जनाः मारिताः। एषु चत्वारः शरीरे विद्युत्प्रसारणेनैव   मृत्युमुपगताः। मान्दोसप्रभावस्य अनुबन्धेन तमिल्नाटे केरले च अतिवृष्टिः अनुवर्तते। केरलस्य ५ जनपदेषु ओरञ्च् जागरणं प्रख्यापितम्।

 पि टि उषा भारतीय ओलिम्पिक्स् संघस्य अध्यक्षारूपेण चिता। प्रतिद्वन्दी न आसीत्।


 नवदिल्ली> धावनक्रीडामण्डले कनिष्ठिकाधिष्ठितस्थानमावहती पि टि उषा भारतराष्ट्रस्य कायिक-क्रीडामण्डलं नेष्यति। सा भारतीय ओलिम्पिक्स् संघस्य नेतृस्थाने प्रतियोगितां विना चिता। इदं स्थानम् अलङ्कृता प्रथममहिला भवति अष्टपञ्चाशत् वयस्का एषा। इदानीं विधानसभासामाजिका भवति एषा। क्रीडामण्डलात् विरता एषा इदानीं युवकेभ्यः प्रशिक्षणं ददती अस्ति। पय्योलि एक्स्प्रस् इति विशेषनाम्ना विख्याता एषा 'एष्यन् गेयिम्स्' तथा एष्यन् चाम्प्यन्षिप् इत्यादिषु अनेकैः पतकैः सम्मानिता।

Saturday, December 10, 2022

 जी मेल् सेवा आविश्वम् अद्य स्थगितम् ।


ननदिल्ली> विश्व अणुप्रैषः जी मैल् आविश्वम् अद्य स्तंभितम्। अविश्वं जनाः एतदधिकृत्य वैक्लब्यं प्रकाशितम्। शनिवासरे रात्रौ आसीत् इयं घटना। करदूरवाणीस्थे सुविधायाम् तथा सामान्यसङ्गणके च असीत् स्थगनम्।

 खत्तर् पादकन्दुकचषकः - क्रोयेष्या - अर्जेन्टीना पूर्वान्तिमस्पर्धा। 

दोहा> अत्युत्साहपूर्णे तथा आकाङ्क्षाभरिते च चतुर्थांशप्रतिद्वन्द्वद्वये क्रोयेष्या ब्रसीलं अर्जेन्टीना नेतर्लान्टं च पराजित्य पूर्वान्तिमचक्रं प्राविशताम्। गतरात्रौ सम्पन्ने प्रथमे प्रतिद्वन्द्वे ब्रसीलदलः 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकक्षेपणचक्रे २-४ क्रमेण क्रोयेष्यां प्रति पराजितः अभवत्। निश्चिते समये [० - ०] अधिकसमये च [१ - १] समस्थितिं पालयित्वा एव क्रीडा  'पेनाल्टी षूटौट्' प्रति दीर्घिता। 

  अर्धरात्रौ आरब्धे द्वितीये प्रतिद्वन्द्वे तु निश्चितसमये अधिकसमये च २ - २ इति लक्ष्यकन्दुकस्थितिं समार्ज्य पेनाल्टी षूटौट् मध्ये ४ - २ इति क्रमेण अर्जेन्टीना नेतर्लान्टात् विजयं जग्राह।

Friday, December 9, 2022

 हिमाचलप्रदेशे कोण्ग्रसाय विजयप्राप्तिः। 

षिंला> विधानसभानिर्वाचनस्य मतगणनायां सम्पूर्णायां विपक्षदलः कोण्ग्रसः शासनपक्षात् भाजपादलात् विजयं जग्राह। अहत्य ६८ मण्डलेषु ४० मण्डलानि विजित्य शासनपदं प्राप।इदानींतनशासनदलः भाजपादलः २५ स्थानेषु विजितवान्।

 गुजराते भाजपा दलस्य अत्युज्वलविजयः। 

गान्धिनगरं> गुजराते विधानसभानिर्वाचनस्य फले आगते शासनपक्षः भा ज पा दलः अनुस्यूततया सप्तमवारमपि विजयपीठमारोहत्। आहत्य १८२ स्थानेषु १५६ स्थानानि भाजपा दलेन प्राप्तानि। मुख्यविपक्षदलेन कोण्ग्रसा केवलं १७ मण्डलान्येव लब्धानि। गतवारे ७७ मण्डलानां स्थानात्  अस्ति एतादृशं पतनम्। अरविन्द् केज्रिवालस्य 'ए ए पि' दलेन पञ्चस्थानानि लब्ध्वा राष्ट्रियदलमितं पदं प्राप्तम्।

Thursday, December 8, 2022

 प्रशस्तनर्तकी मल्लिकासाराभाय् केरलकलामण्डलस्य कुलाधिपतिः। सर्वकारेण आदेशः प्रकाशितः।

  तिरुवनन्तपुरम्> प्रशस्तनर्तकी मल्लिका साराभाय् केरलकलामण्डलं  मानितविश्वविद्यापीठस्य कुलाधिपतिस्थाने नियुक्ता। एतत्संबन्धि आदेशः च सर्वकारेण प्रकाशितः। सामाजिकपरिवर्तनाय  साहित्यं कला च  प्रयोगपदवीमानेतुं तत्परा भवति मल्लिकासाराभाय् इति मन्त्रिणा वि एन् वासवेन प्रोक्तम्। विश्वविद्यापीठस्य कुलाधिपतिस्थाने तद्विषयेषु विज्ञाः नियोक्तव्याः इति सर्वकारस्य निश्चयमनुसृत्य एव भवति तस्याः कुलाधिपतिपदनियुक्तिः। मल्लिकासाराभाय्वर्यया साकम् सम्मन्त्र्य तस्याः अभिरुच्यनुसारमेव कुलापतिस्थाने नियोजनमिति मन्त्रिणा वासवेन आवेदितम्।

 राष्ट्रे उष्णतरङ्गस्य दैर्ध्यं तीक्ष्णता च वर्धेत। 

मनुष्येभ्यः सोढुं अशक्याः  शक्ताः उष्णतरङ्गघटनाः जायेत इति विश्ववित्तकोशस्य प्रतिवेदनम्। 'इन्वेस्ट्मेन्ट् ओप्पर्टुनिट्टीस् इन् इन्ड्यास् कूलिङ् सेक्टर्' इति शीर्षकस्थं अध्ययन-प्रतिवेदनं राष्ट्रे उष्णतरङ्गघटनायाः दैर्ध्यं वर्धयन् अस्ति इति संदृष्टम्। एष्याभूखण्डे अनुदिनं वर्धमानं तापमानं शुभसूचकं न भवति इति निर्णयः अपि अस्ति।

Tuesday, December 6, 2022

 खत्तर् विश्वचषकः - नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या दलाः चतुर्थांशं प्रविष्टाः।

दोहा> पूर्वचतुर्थांशस्पर्धासु त्रिषु दिनेषु अतीतेषु नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या इत्येते  दलाः चतुर्थांशं प्रविष्टाः। प्रथदिने नेतर्लान्ट् राष्ट्रं अमेरिक्कां एकं विरुध्य त्रिभिः लक्ष्यकन्दुकैः विजयं प्राप। अन्यस्मिन् प्रतिद्वन्द्वे अर्जन्टीना आस्ट्रेलियां विरुध्य ३ - १ इति क्रमेण विजिता। 

  द्वितीयदिने पोलण्टदलं विरुध्य फ्रान्सः विजयं प्राप्तवान्। लक्ष्यकन्दुकक्रमः ३ - १। ब्रसील् - दक्षिण कोरिययोः प्रतिद्वन्द्वे ब्रसीलः ४ - १ रीत्या विजयपथं प्राविशत्। 

  गतदिने सम्पन्ना क्रोयेष्या जाप्पानस्पर्धा 'पेनाल्टी षूटौट्' वेलां यावत् दीर्घिता। तदा ३ - १ इति लक्ष्यकन्दुकक्रमे क्रोयेष्या चतुर्थांशं प्राप्तवती।

 अपत्यानि दूरवाणीतः दूरीकृत्य अल्पकालं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति कपिलदेवः।

  मुम्बै> अल्पकालं स्वापत्यानि दूरवाण्याः दूरीकृत्य क्रीडनार्थं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति भारतस्य पूर्वतन-क्रिकट्क्रीडकेन प्रोक्तम्। टैप् २ - मधुमेहः तथा अतिस्थूलत्वम् इत्यादीन् अधिकृत्य प्रचलिते प्रतिबोधनकार्यक्रमे भाषमाणः आसीत् सः। जनाः प्रतिदिनं एकहोरापर्यन्तं व्यायामार्थं समयः यापनीयः। 'भारतीयबालकेषु अतिस्थूलत्वम् ' इति  विषयम् अधिकृत्य कृतस्य प्रश्नस्य उत्तरमासीत् अयम् उपदेशः।

Sunday, December 4, 2022

 खत्तरे एष्या आफ्रिक्कासंघानाम् उत्कर्षः। 

दोहा> एष्यीय-आफ्रिक्कीयसंघानां अत्युज्वलप्रकटनानां साक्षिण्यः भवन्ति खत्तरे विश्वचषकवेदिकाः। द्वयोः भूखण्डयोः अधिकतरसंघाः 'नोक् औट्' चक्रं प्रविष्टा इत्येतत् विश्वचषकचरित्रे इदंप्रथमं भवति। एष्यातः द्वौ, आफ्रिक्कातश्च द्वौ संघौ इत्यनेन चत्वारः क्रीडादलाः पूर्वचतुर्थांशचक्रे स्थानमावहन्ति। २००२,२०१० वर्षयोः त्रयः दलाः भूखण्डद्वयं प्रतिनिधीभूताः आसन्। 

  एष्यातः जप्पानः,दक्षिणकोरिया तथा आफ्रिक्कातः सेनगलः, मोरोक्को च पूर्वचतुर्थांशचक्रं प्रविष्टाः।

Saturday, December 3, 2022

इडुक्कि तत्कालिकविमाननिलये चतुर्भ्यः विमानेभ्यः अनुमतिः प्रदत्ता। शबरिगिरि तीर्थयात्रापि परिगणयति।

इडुक्कि केरलम्> प्रतीक्षानुसारं वण्डिपेरियार् सत्रं विमाननिलये प्रथमविमानस्य भूस्पर्शामभवत्। इडुक्किदेशस्य आकाशस्वप्नाः सफलीभूताः। जनद्वयोः सञ्चाराय योग्यं वैरस् एस् डब्ल्यु ८० नाम लघुविमानं विजयरूपेण भूस्पर्शमकरोत् । तत्पश्चात् विमाननिलये चतुर्णां लघुविमानानाम् अपि सेवायै अनुज्ञा प्रदत्ता। धावनपथे परीक्षणडयनं विजयकरमभवत् इत्यतः विलम्बं विना एन् सि सि छात्रसैनिकानां कृते विमानडयन परिशीलनमपि  विमानपत्तने समारप्स्यते।

 गुजरात् निर्वाचनं - द्वितीयचरणं सोमवासरे ; सघोषप्रचारणमद्य समाप्यते। 

गान्धिनगरं> गुजरात् राज्यस्य विधानसभानिर्वाचनस्य द्वितीयं तथा अन्तिमं चरणं सोमवासरे विधास्यति। तदर्थं सघोषप्रचरणं अद्य सायं समाप्यते। रविवासरे निश्शब्दप्रचरणस्य वेला। 

  ह्यः मण्डलेषु धूलिधूसरितं प्रचारणं सम्पन्नम्। प्रधानमन्त्री नरेन्द्रमोदी चतुर्षु महायोगेषु प्रभाषणं कृतवान्। कोण्ग्रसः राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे पथसञ्चलनद्वयम् अभिमुखीकृत्य प्रभाषणमकरोत्। 

  सोमवासरे १४ जनपदान्तर्भूतेषु ९३ मण्डलेषु मतदानं भविष्यति। अष्टमदिनाङ्के हिमाचलप्रदेशेन सह फलं ज्ञातुं शक्यते। गुरुवासरे सम्पन्नस्य निर्वाचनस्य प्रथमसोपाने ६०. ४७% जनाः एव मतदानाधिकारं विनियुक्तवन्तः।

 खत्तर् - पूर्वचतुर्थांशस्पर्धाः अद्य आरभ्यन्ते। 

दोहा> विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थांशस्पर्धानामद्य शुभारम्भ‌ः। 'नोक्कौट्' रूपेण प्रचाल्यमानेषु अष्ट प्रतिद्वन्द्वेषु १६ संघाः स्पर्धिष्यन्ते। प्रथमः प्रतिद्वन्द्वः अद्य रात्रौ ८. ३० वादने  अमेरिक्का-नेतर्लान्टयोः मध्ये भविष्यति। द्वितीये प्रतिद्वन्द्वे अर्जन्टीनादलं आस्ट्रेलिया दलेन सह स्पर्धिष्यते। [रात्रौ १२. ३० वादनम्] 

  भूतपूर्ववीरौ जर्मनी, युरोग्वे,  इत्येतौ प्राथमिकस्तरे एव बहिर्गतौ।

Thursday, December 1, 2022

 हिमाश्मद्रवणेन ४८,५०० संवत्सरात् पूर्वं सुप्तं सोम्बि वैराणु: बहिरागतः।

   मोस्को> शोधकर्तारः ४८,५०० वर्षेभ्यः पुरातनं 'जॉम्बी वैराणुं' पुनः सजीवम् अकुर्वन्। यूरोपीयसंशोधकाः रूसदेशस्य साइबेरियाप्रदेशे हिमपटलानाम् अधोभागात् गृहीतान् १३ वैराणून् एव आविष्कृतवन्तः। साइबेरियादेशस्य अतिविपुल-हिमपटलस्य निम्नतले खननं कृत्वा एव वैराणुनां ग्रहणं कृतम्।

अनेन ज्ञायते यत् खनीभूतानां हिमाश्मानां द्रवणं इदानीं भूयमानरीत्या अनुवर्तते चेत्  हिमान्तर्भागे सुप्ताः वैराणवः उद्थानं कर्तुं सन्दर्भाः भविष्यन्ति। एताः अवस्थाः आपत्कराः स्युः इति वैज्ञानिकाः अभिप्रयन्ति॥