OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 13, 2022

 भारत - चीनयोः सीमायां सैनिकयोर्मध्ये पुनरपि संघर्षः। 

  नवदिल्ली> अरुणाचलप्रदेशे यथार्थनियन्त्रणरेखायां भारत-चीनयोः सैनिकानां मध्ये संघर्षो जातः इति प्रतिवेदनम्। दिसम्बर् मासस्य नवमे दिने एव घटनेयं दुरापन्ना। द्वयोरपि विभागयोः केचन सैनिकाः व्रणिताः। अरुणाचलप्रदेशे तवाङ् मण्डले एव घटना एषा जाता। चीनस्य सैनिकाः यथार्थनियन्त्रणरेखाम् उल्लङ्घितवन्तः। भारतसेनया निवारिताः च। चीनस्य सैनिकाः निगूढरूपेण उल्लंघनं कर्तुं ३०० पर्यन्तं सैनिकाः प्रभाते त्रिवादने समागतवन्तः।तदेव संघर्षस्य कारणम्। किंतु भारतीयसैनिकाः जागरिताः आसन्।