OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 11, 2022

 खत्तरे आफ्रिक्कीयप्रतिलोमः ; पोर्चुगल् बहिर्नीतम्। 

मोरोक्कोदलस्य आह्लादः। 

दोहा> खत्तर् विश्व पादकन्दुकचषके विश्वचषकस्य चरित्रे इदंप्रथमतया किंचन आफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्रविष्टम्। अतिशक्तं यूरोपीयराष्ट्रं पोर्चुगलं प्रत्युत्तररहितेन एकेन लक्ष्यकन्दुकेन पराजित्य मोरोक्को इत्याफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्राविशत्। 

  क्रिस्टियानो रोनाल्डो इति विश्वोत्तरपादकन्दुकक्रीडकस्य सन्तापाश्रुभिः खत्तरभूतलं न्यषिञ्चम्। आरम्भत एव मोरोक्कोदलस्य वीर्यप्रभावस्य निश्चयदार्ढ्यस्य च पुरतः पोर्चुगलस्य प्रभावः अस्तंगतः। क्रीडायाः प्रथमार्धस्य ४२ तमे निमिषे मोरोक्कोदलस्य यूसफ् एन् नेसिरि इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव तेषां चतुर्थांशप्रवेशः साधितः।