OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 12, 2022

 हिमाचलप्रदेशे सुखवीन्दर्सिंहसुखुः मुख्यमन्त्री। 

षिंला> हिमाचलप्रदेशस्य १५ तममुख्यमन्त्रिरूपेण कोण्ग्रस् नेता सुखवीन्दर्सिंहसुखुः गतदिने शपथवाचनं कृतवान्। राज्यपालः राजेन्द्र विश्वनाथ अर्लेकरः सत्यप्रतिज्ञां कारितवान्। मुकेष् अग्निहोत्रिः उपमुख्यमन्त्रिरूपेण शपथमकरोत्। 

  राहुलगान्धी, प्रियङ्कागान्धी, राजस्थानस्य मुख्यमन्त्री अशोकगहलोट्, छत्तीसगढ़स्य मुख्यमन्त्री भूपेश बखेलः कोण्ग्रसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे इत्यादयः कोण्ग्रसनेतारः कार्यक्रमेSस्मिन् भागं स्वीकृतवन्तः।