OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 3, 2022

 गुजरात् निर्वाचनं - द्वितीयचरणं सोमवासरे ; सघोषप्रचारणमद्य समाप्यते। 

गान्धिनगरं> गुजरात् राज्यस्य विधानसभानिर्वाचनस्य द्वितीयं तथा अन्तिमं चरणं सोमवासरे विधास्यति। तदर्थं सघोषप्रचरणं अद्य सायं समाप्यते। रविवासरे निश्शब्दप्रचरणस्य वेला। 

  ह्यः मण्डलेषु धूलिधूसरितं प्रचारणं सम्पन्नम्। प्रधानमन्त्री नरेन्द्रमोदी चतुर्षु महायोगेषु प्रभाषणं कृतवान्। कोण्ग्रसः राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे पथसञ्चलनद्वयम् अभिमुखीकृत्य प्रभाषणमकरोत्। 

  सोमवासरे १४ जनपदान्तर्भूतेषु ९३ मण्डलेषु मतदानं भविष्यति। अष्टमदिनाङ्के हिमाचलप्रदेशेन सह फलं ज्ञातुं शक्यते। गुरुवासरे सम्पन्नस्य निर्वाचनस्य प्रथमसोपाने ६०. ४७% जनाः एव मतदानाधिकारं विनियुक्तवन्तः।