OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 11, 2022

 पि टि उषा भारतीय ओलिम्पिक्स् संघस्य अध्यक्षारूपेण चिता। प्रतिद्वन्दी न आसीत्।


 नवदिल्ली> धावनक्रीडामण्डले कनिष्ठिकाधिष्ठितस्थानमावहती पि टि उषा भारतराष्ट्रस्य कायिक-क्रीडामण्डलं नेष्यति। सा भारतीय ओलिम्पिक्स् संघस्य नेतृस्थाने प्रतियोगितां विना चिता। इदं स्थानम् अलङ्कृता प्रथममहिला भवति अष्टपञ्चाशत् वयस्का एषा। इदानीं विधानसभासामाजिका भवति एषा। क्रीडामण्डलात् विरता एषा इदानीं युवकेभ्यः प्रशिक्षणं ददती अस्ति। पय्योलि एक्स्प्रस् इति विशेषनाम्ना विख्याता एषा 'एष्यन् गेयिम्स्' तथा एष्यन् चाम्प्यन्षिप् इत्यादिषु अनेकैः पतकैः सम्मानिता।