OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 8, 2022

 प्रशस्तनर्तकी मल्लिकासाराभाय् केरलकलामण्डलस्य कुलाधिपतिः। सर्वकारेण आदेशः प्रकाशितः।

  तिरुवनन्तपुरम्> प्रशस्तनर्तकी मल्लिका साराभाय् केरलकलामण्डलं  मानितविश्वविद्यापीठस्य कुलाधिपतिस्थाने नियुक्ता। एतत्संबन्धि आदेशः च सर्वकारेण प्रकाशितः। सामाजिकपरिवर्तनाय  साहित्यं कला च  प्रयोगपदवीमानेतुं तत्परा भवति मल्लिकासाराभाय् इति मन्त्रिणा वि एन् वासवेन प्रोक्तम्। विश्वविद्यापीठस्य कुलाधिपतिस्थाने तद्विषयेषु विज्ञाः नियोक्तव्याः इति सर्वकारस्य निश्चयमनुसृत्य एव भवति तस्याः कुलाधिपतिपदनियुक्तिः। मल्लिकासाराभाय्वर्यया साकम् सम्मन्त्र्य तस्याः अभिरुच्यनुसारमेव कुलापतिस्थाने नियोजनमिति मन्त्रिणा वासवेन आवेदितम्।