OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 13, 2022

 गुजराते भूपेन्द्रमन्त्रिमण्डलम् अधिकारं स्वीचकार। 

गुजरातस्य मुख्यमन्त्री भूपेन्द्र  रजनीकान्त पट्टेलः 

गान्धिनगरं> गुजरातस्य १८ तममुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः शपथवाचनं कृत्वा पदं स्वीकृतवान्। तेन सह १६ मन्त्रिणोSपि स्थानं स्वीकृत्य शपथं कृतवन्तः। गान्धिनगरस्य 'हेलिपाड्' क्रीडाङ्कणे सम्पन्ने शपथविधिसमारोहे राज्यपालः आचार्य देवव्रतः शपथविधिं कारितवान्। 

  समारोहेSस्मिन् प्रधानमन्त्री नरेन्द्रमोदी, अमितशाहः,राजनाथसिंहः इत्यादयः केन्द्रमन्त्रिणः, भा ज पायाः देशीयाध्यक्षः जे पी नड्डः, एन् डि ए सख्ये अन्तर्भूताः मुख्यमन्त्रिणः एवं प्रौढः नेतृपंक्तिश्च कार्यक्रमे सान्निध्यमावहत्। 

  अधिकारं लब्धवत्सु १६ मन्त्रिषु ८ 'काबिनट्'पदीयाः सन्ति। द्वौ स्वतन्त्रपदीयाः सहमन्त्रिणौ, अपरे ६ सहमन्त्रिणश्च भवन्ति।