OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 11, 2022

 मान्दोस चक्रवातः - तमिलनाटे अतिनाशः, ६ मरणानि, अतिवृष्टिः। 

चेन्नै> वंगसमुद्रान्तराले आविर्भूतस्य मान्दोस् नामकचक्रवातस्य दुष्प्रभावेण तमिलनाटस्य समुद्रतीरजनपदेषु अतिनाशः दुरापन्नः। शनिवासरस्य प्रत्युषसि महाबलिपुरं जनपदे भूतलस्पर्शं कृतवतः चक्रवातस्य वेगः ७५ कि मी प्रतिहोरायामासीत्। चक्रवातस्य दुष्प्रभावेण तीरप्रदेशजनपदेषु विद्युत्वितरणं स्थगितम्। सहस्रशः मत्स्यबन्धनयानानि विशीर्णानि। 

  षट् जनाः मारिताः। एषु चत्वारः शरीरे विद्युत्प्रसारणेनैव   मृत्युमुपगताः। मान्दोसप्रभावस्य अनुबन्धेन तमिल्नाटे केरले च अतिवृष्टिः अनुवर्तते। केरलस्य ५ जनपदेषु ओरञ्च् जागरणं प्रख्यापितम्।