OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 4, 2022

 खत्तरे एष्या आफ्रिक्कासंघानाम् उत्कर्षः। 

दोहा> एष्यीय-आफ्रिक्कीयसंघानां अत्युज्वलप्रकटनानां साक्षिण्यः भवन्ति खत्तरे विश्वचषकवेदिकाः। द्वयोः भूखण्डयोः अधिकतरसंघाः 'नोक् औट्' चक्रं प्रविष्टा इत्येतत् विश्वचषकचरित्रे इदंप्रथमं भवति। एष्यातः द्वौ, आफ्रिक्कातश्च द्वौ संघौ इत्यनेन चत्वारः क्रीडादलाः पूर्वचतुर्थांशचक्रे स्थानमावहन्ति। २००२,२०१० वर्षयोः त्रयः दलाः भूखण्डद्वयं प्रतिनिधीभूताः आसन्। 

  एष्यातः जप्पानः,दक्षिणकोरिया तथा आफ्रिक्कातः सेनगलः, मोरोक्को च पूर्वचतुर्थांशचक्रं प्रविष्टाः।