OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 14, 2022

 अर्जेंटीना अन्तिमस्पर्धां प्रविष्टा।

लक्ष्यकन्दुकप्राप्तौ मेसिनः मित्राणां च आह्लादः। 

खत्तर्> आक्रमणप्रत्याक्रमणैः उद्वेगभरितायाम् आद्यार्धान्तिमस्पर्धायां क्रोयेष्यादलं प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः पराजित्य लयणल् मेसी महाशयस्य अर्जेंटीना विश्वचषकपादकन्दुकस्पर्धायाः अन्तिमचक्रं प्राविशत्। 

  अर्जेंटीनानायकः मेसीवर्यः प्रतिद्वन्द्वस्य ३४तमे निमिषे 'पेनाल्टी'क्षेपणरूपेण प्रथमं लक्ष्यकन्दुकं प्राप्तवान्। ततः जूलियन् अल्वारस् नामकः ३९,६९ निमिषयोः लक्ष्यकन्दुकद्वयं प्राप्य अर्जेंटीनायाः अन्तिमस्पर्धाप्रवेशं निर्विशङ्कं कृतवान्। मेसीमहोदयः विश्वचषकस्पर्धासु ११ लक्ष्यकन्दुकानि सम्प्राप्य विशिष्टपदमारूढवान्।