एस्. बि. ऐ. वित्तकोशः भवनऋणकुसीतमूल्यं न्यूनमकरोत् ।
मुम्बै > एस्. बि ऐ. वित्तकोशः भवनऋणकुसीतमूल्यम् न्यूनीकृतवान् I त्रिंशत् लक्षमितस्य ऋणस्य o.२५ प्रतिशतं कुसीतम् न्यूनीभविष्यति। ८.३५ प्रतिशतं भवति नूतनमूल्यम्I नूतनं मूल्यं मङ्गलवासरे प्रबलीभवति स्म। त्रिंशत् लक्षाधिकऋणस्य मूल्यं ८.६०तः ८.५० इति न्यूनीभवति । भवनऋणग्राहकाणां लक्षसंख्याकानां जनानाम् अस्य प्रयोजनं भविष्यति इति व्यवस्थापकनिदेशकः रजनिष् कुमारः अवदत्IOUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, May 13, 2017
Friday, May 12, 2017
कुलभूषणयादवस्य मृत्यु दण्डः निरोधितः।
नवदिल्ली> गुप्तारोपणम् पुरस्कृत्य पाकिस्थानसैनिकन्यायालयेन मृत्युदण्डं विहितस्य भारतीयनाविकसेनोद्योगस्थस्य कुलभूषणयादवस्य मृत्युदण्डः निरोधितः। भारतस्य नीतिन्यायापेक्षाम् पुरस्कृत्य अन्ताराष्ट्र नीतिन्यायालयेनैव वधशिक्षा निरोधिता। नाविकसेनाया: विरामात्परं वाणिज्यं कुर्वन्तं कुलभूषणम् इरानत: अपहृत्य पाकिस्थानस्य गुप्तचर: इति आरोपणम् उन्नीय मृत्युदण्डः विहितः आसीत्। गतमासे एव पाकिस्थानसैनिकन्यायालयेन कुलभूषणस्य मृत्युदण्डः विहितः। एतद्विरुध्य भारतेन शक्तियुक्तं प्रतिषिद्ध: ज्येष्ठाभिभाषक: हरीषसाल्वे महाशय: भारतस्य कृते अन्ताराष्ट्र नीतिन्यायालये उपस्थित: भवति। बलूचिस्थानात् कुलभूषणं षोडशोत्र्तरद्विसहस्रतमे (२०१६ ) वर्षे गृहीतवन्त: इति पाकिस्थानस्य वाद:। किन्तु एष: न गुप्तचर: सैन्यात् विरमित: इति भारतेन व्यक्तीकृतम्। तन्न केवलम्; ग्रहणसमये कुलभूषणस्य हस्ते पारपत्रं चासीत्; तथा न क्रियते गुप्तचरै: इत्यपि भारतेन व्यक्तीकृतम्।Thursday, May 11, 2017
आधार् नाम मूलप्रमाणपत्रस्य पञ्जीकरणं स्खालित्यदूरीकरणं च स्थगितम्।
कोच्ची> आधार् नाम मूलप्रमाणपत्रस्य पञ्जीकरणं स्खालित्यदूरीकरणं च स्थगिते जाते। तन्त्राधिगमस्य पुनर्नवीकरणे जातं मन्दगमनमेव अस्य निदानम्। विद्यालयेषु प्रवेशनकालमिदमित्यनेन एतत् क्लेशं सृजति।आधारपत्रस्य विनिमयाधिकारम् आधार विभागः ऐ टी मिषणाय अयच्छत्। ऐ टी मिषण् ऐ टी अट् स्कूलाय, अक्षयाय, केलट्रोणाय च विनिमयाधिकारम् अयच्छत्। अलाभकारणेन ऐ टी अट् स्कूल् तथा केल्ट्रोण् च तस्मात् अत्तरदायित्वात् निर्गच्छतः। इदानीं विनिमयोत्तरदायित्वम् अक्षयायां निक्षिप्तमस्ति। ऐप्रिल् प्रथमदिनादारभ्य तन्त्राधिगमस्य पुनर्नवीकरणं कर्तव्यमिति अक्षयकेन्द्रान् निर्देशं दत्तमासीत्। किन्तु तत् न कार्यान्वितम्।
समाजमाध्यमद्वारा राष्ट्रहिताय युद्धं कुर्म:।
नवदिल्ली> समाजमाध्यमेषु विद्वेषजनकसन्देशान् मा विनिमयेयु: इति केन्द्रमन्त्री राज्यवर्धनसिंहराथोड: आह्वानं कृतवान्। राष्ट्रशत्रुभि: प्रचार्यमाण-सन्देशा: राष्ट्रविरुद्धा: तादृशसन्देशान् प्रति " समरभटा: " भवेम वयम् समाजमाध्यमोपयोक्तार: इति च स: निर्दिष्टवान्। वनिता धनतत्वफोरम् ( विमन् इकणोमिक् फोरम् ) उद्घाटनसम्मेलने भाषमाण: आसीत् स:। राष्ट्रहिताय युद्धं कर्तुम् भवद्भि: गणवस्त्रं धरणीयम् उत सीमा गन्तव्या इति किमपि नास्ति। समाजमाध्यमद्वारा अस्मद्गेहप्राप्तान् राष्ट्रविरुद्धसन्देशान् प्रति युद्धं कुर्म:। तादृशसन्देशान् मा विनिमयेम, मा प्रेषयेम। मन्त्री सूचितवान्।
भारतस्य वर्धनसूचिकाङ्क: ७.७ प्रतिशतम् भविष्यति इति ऐ एम् एफ्।
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् - नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम् एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय दीर्घकालाधारेण घटनापरा: प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ् निर्देश: । राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा: सप्तदशोत्तरद्विसहस्रतमे क्रमानुगतं लुप्ता: भविष्यन्ति इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् ) रूप्यकाणि झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे शक्नुयाम इति प्रतीक्षापि संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत् इति ऐ एम् एफ् सूचयति । आवेदनानुसारम् षोडशोत्तरद्विसहस्रे (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क: उपरि गच्छेत् इति सूचनापि दीयते ऐ एम् एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम् । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते इति ऐ एम् एफ् निर्देश:।।Wednesday, May 10, 2017
कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते। केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य विकासे वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।Tuesday, May 9, 2017
वृद्धदम्पत्यो: सम्पाद्यम् एककोटि: प्रतिरोधनिधये।
अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि:। प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव एतस्य प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि: तिष्ठति । """भारतकविर् "" इति नाम्नि कश्चन आप् तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशलेखं प्रति जनै: साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।
अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता। प्रतियोगितायामस्यां
छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां वाचनमभिप्रस्तुतम् । अथ च
अस्यां प्रतियोगितायां दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां
छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत्
प्रतियोगितायामेतस्यां द्वादशविद्यालयानां षष्ट्यधिका: विद्यार्थिन:
भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ:
डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक
विद्यालयस्य छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक
विद्यासलयस्य च छात्रा: तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्
निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च
अवर्तन्त। अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी महाशया
प्रत्यपादयत् यत् अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया:
स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः
संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य
आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या:
वन्दनापूर्वकं सरस्वत्या: मूर्तौ माल्यार्पणेन दीपप्रज्वलनेन सह सञ्जात:।
अस्य नूतनकार्यक्रमस्योपक्रमस्य स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना
श्रीवास्तव वर्यया श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्।
आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं च अवर्तत।
अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च
संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया
संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:।
कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक
विद्यालयेन एव सम्प्रति वार्ता:
इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।
Monday, May 8, 2017
फ्रान्स् निर्वाचनं समाप्तं- मक्रोणाय अग्र्यत्वम्।
पारीस् > यूरोप् भूखण्डस्य भविष्ये निर्णायकमिति मन्यमानं फ्रान्स् राष्ट्रस्य निर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमचरणे निर्वाचने एन् मार्ष् दलस्य स्थानाशी यूरोप्यन् यूणियन् संघस्य अनुकूली च एम्मानुवल् मक्रोण् नामकाय विजयसाध्याता कल्प्यते। नाषणल् फ्रण्ट् दलस्य नेता मारिन् ले पेन् नामकः मक्रोणस्य मुख्यप्रतियोगी अस्ति।निर्वाचनात् प्रागेव प्रकाशितेषु अभिवीक्षणफलेषु मारिन् वर्यात् मक्रोण् वर्यः अग्रगामित्वं प्राप्तवानस्ति। गुरुवासरे आधिकारिकं फलप्रख्यापनं भविष्यति।
ओडीषा मन्त्रिमण्डलं पुनर्घटितम्।
भुवनेश्वरम्> दश नूतनपुरुषान् संयोज्य ओडीषामुख्यमन्त्री नवीन् पट्नायिक् स्वमन्त्रिमण्डलं पुनःसंघटितवान्। नवमुखेषु चत्वारः सहमन्त्रिरूपेण नियुक्ताः। विद्यमानौ द्वौ सहमन्त्रिणौ क्याबिनट् पदं प्राप्तवन्तौ।
विद्यालये हिन्दी पाठनं निर्बन्धरुपेण मा भवतु - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्यालयेषु अष्टमकक्ष्यापर्यन्तं हिन्दीपठनं निर्बन्धरूपेण भवेदिति सार्वजनीनतात्पर्यनीतिन्यायापेक्षा सर्वोन्नतनीतिन्यायालयेन तिरस्कृता । हिन्दी निर्बन्धत़या पाठयितुं न शक्यते ; तादृशमेकं सम्मतपत्रं अवतारितं चेत् श्व: कोपि संस्कृतम् पञ्चाबीं वा ऩिर्बन्धरूपेण पाठनीयमिति वदन्ति चेत् किं कर्तुं शक्यते इति उच्चन्यायाध्यक्षस्य आध्यक्ष्ये उत्पीठिकया पृष्टा । हिन्दीभाषाया: प्रोत्साहनाय सर्वकारेण बहूनि कार्याणि क्रियमाणानि सन्ति इति न्यायालयेन सूचितम् । एतत्सर्वमपि सर्वकारनयानाम् भाग: ; तत्र रेखानुमतिदाने न्यायालय: अशक्त: इति च न्यायालयेन व्यक्तीकृतम् । देहली बी जे पी वक्ता अश्विनी उपाध्याय: न्यायापेक्षां समर्पितवान् । देशीयोद्ग्रथनाय हिन्दी निर्बन्धरूपेण अवश्यम् पाठयेदिति ; शासनघटनानुसारं तस्य व्यवस्था वर्तते इति च न्यायापेक्षायां सूच्यते ।
बोयिङ् विमानं तथा वायूलोकयानान् च अतिक्रान्तुं स्वकीयेन जेट् विमानेन सह चैना ।।
षाङ्हाय:> आगोलीकरणकाल स्वकीयै: उत्पन्नै: लोकविपणिं जिता चैना व्योमयानव्यवसायरङ्गेपि सान्निध्यं शक्तं करोति ।चैनया निर्मितं तद्देशीयं यात्राजेट् विमानम् इदंप्रथमतया उड्डयनं कृतम् । अशीति: (८० ) निमेषात्मकं डयनं समाप्य १६८ ( अष्टषष्ट्युत्तरशतम् ) यात्रिकाणां कृते सुसज्जं विमानम् भूमिं प्रत्यागत्य सुस्थितम् अभवत् । औषधादारभ्य यन्त्रमनुष्यपर्यन्तम् उत्पन्ननिर्माणाय आवलिस्थायाम् मेय्ड् इन् चैना २०२५ (पञ्चविंशत्युत्तरद्विशतम् ) पद्धत्यां सुप्रधाननिर्मिति: एव जेट् विमानम् । चैनाया: वैयवसायिक वायुयन्त्र निर्माण महाविधानेन ( कोमेर्स्यल् एयर् क्राफ्ट् कोर्परेषन् ओफ् चैना (कोमाक् ) ) सी ९१९ ( नवदशोत्तरनवशतम् ) जेट् विमानं निर्मितम् । २०२४ ( चतुर्विंशत्युत्तरद्विसहस्र् ) तमे वर्षे लोके अतिबृहत्तरा व्योमयानविपणि: इति स्थानम् अमरीकाम् उल्लङ्घ्य चैना स्वायत्तीकुर्यात् ।
बुद्धिशक्त्या महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा। ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन् होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति। माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।
नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं मोदिनः सकाशे एव वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत् तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः। २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।Sunday, May 7, 2017
दिल्ल्यां विषवायुपरिस्रवः - ४५० छात्राः आतुरालयप्रविष्टाः।
नवदिल्ली> दक्षिणपूर्वदिल्ल्यां विषवायोः परिस्रवेण अस्वस्थबाधिताः पञ्चाशदधिक चतुश्शतं विद्यालयीयछात्राः नव अध्यापकाश्च आतुरालयं प्रविष्टाः तुग्लक्काबादे राणी झान्सी सर्वोदय कन्याविद्यालयः , सर्वकार बालिका सीनियर् सेक्कन्टरि विद्यालयः इत्येतयोः विद्यालययोः छात्राः एव अस्वस्थबाधिताः अभवन्। सर्वे सुरक्षिता इति मुख्यमन्त्रिणा अरविन्द् केज्रिवालेन निगदितम्। शनिवासरे प्रभाते विद्यालययोः समीपस्थायाः वायुसम्भरणशालायाः परिस्रवणमभवत्। चीनादेशादानीतं कीटनाशिनीनिर्माणोपकारकं क्लोरोमीतैल् पैरिडिन् नामकं वायुरूपं वस्तु एव दुरन्तकारणमभवत्
योगिन: मार्गे चौहान: - मध्यप्रदेशे २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते।
भोपाल:>उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ: सार्वजनीन-विरामदिनानि ऊनीकृतवान्; शासनक्रममेतम् अनुसृत्य मध्यप्रदेशसर्वकारेणापि २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते। प्रमुखानां जनन,मरण , वार्षिकदिनेषु दीयमानविरामा: एव निष्कास्यन्ते । २० (विंशति:) त: २५ (पञ्चविंशति:) विरामदिनानि एवं निष्कासयितुम् उद्दिष्टानीति शिक्षामन्त्री दीपक जोशी उक्तवान् । भगतसिंहस्य चरमवार्षिकदिने विरामदानेन छात्रा: तमुद्दिश्य किं पठेयु:?, तथा च विरामदानापेक्षया तत् कस्य जन्म, चरमवार्षिकं वा भवतु; तेषां जीवनं सम्भावनाश्च छात्रान् पाठयाम: इति दीपक जोशी योजितवान्। कानि कानि विरामदिनानि निष्कासयेयु: इति आलोचनायाम् वर्तन्ते। एकस्मिन् शैक्षणिकवर्षे विरामदिनानि ३५ ( पञ्टत्रिंशत् ) इति ऊनीक्रियन्ते इत्यपि सूचना अस्ति। मध्यप्रदेशसर्वकारस्य सार्वजनीनदिनदर्शिकानुसारं ७६ (षट् सप्तति:) विरामदिनानि सन्ति। एतेषु ५४ (चतुष्पञ्चाशत्) नियन्त्रितविरामाश्च अन्तर्भवन्ति। एकस्मिन् अध्ययनवर्षे १५० (सार्धशतम्) प्रवृत्तिदिनानि सन्ति तानि च १८५ (पञ्चाशीत्युत्तरशतम्) इति वर्धयितुमेव सर्वकारै: लक्षीक्रियन्ते।।
सेना रहस्याणि अपहृताः त्रयः पाक्क् चाराः गृहीताः।
लख्नौ >उत्तरप्रदेश-भीकरविरुद्ध संघस्य तथा महाराष्ट्रा आरक्षकाणां च आसूत्रिते प्रवर्तने त्रयः पाक्किस्थान चाराः गृहीताः। ते ऐ एस् ऐ प्रवर्तकाः इति संशयो वर्तते।
अफ्ताफ् अलि, अल्ताफ् खुरेषि, जावेद् इक्बाल् एते गृहीतवन्तः। उत्तरप्रदेशस्य फैसाबाद्तः गृहीतस्य अफ्ताबस्य वाचः अवलम्ब्य बुधवासरे रात्रौ मुम्बाईतः अन्ये गृहीतवन्तः।
अफ्ताबस्य दूरवाण्यां फैसाबाद् मध्ये वर्तमानस्य सेनाकेन्द्रस्य चित्राणि आसन्। अमृतसर देशस्य सेनाप्रस्थानानि एषः पाक्क् हैक्कम्मीषणरं निवेदिचवान्। भारतस्य प्रमुखानि मन्दिराणि तथा तीर्थस्थानानि च आक्रमितुं ते नियुक्ताः इति आरक्षकाः वदन्ति। खुरेष्याः गृहात् ७१.५७ लक्षं रूप्यकाणि अपि गृहीतवन्तः।
नीट् परीक्षा अद्य प्रचलति।
अनन्तपुरी>वैद्यक दन्तशास्त्र प्रवेशनार्थं क्रियमाणा अखिलभारतीयप्रवेशनपरीक्षा [नीट्] अद्य प्रचाल्यते। राष्ट्रस्य १०३ नगरेषु २२०० परीक्षाकेन्द्राणि वर्तन्ते। केरले अनन्तपुरी , कोच्ची , कोष़िक्कोट् , कण्णूर् , तृश्शिवपेरूर् इत्येतेषु नगरेषु परीक्षाकेन्द्राणि सन्ति। अस्मात् संवत्सरादारभ्य आराष्ट्रं वैद्यक दन्तीय कलालयेषु प्रवेशनार्थं नीट् नामिका एकीकृतप्रवेशनपरीक्षा अवश्या अस्ति।
सर्वोच्चन्यायालयस्य आदेशे टि पि सेन्कुमारस्य पुनर्नियुक्तिः।
नवदिल्ली> केरलसर्वकारस्य याचिकां पुनर्याचिकां च निरस्य सर्वोच्चनीतिपीठस्य कर्कशादेशम् अनुसृत्य गतसंवत्सरे स्थानभ्रष्टः टि पि सेन्कुमारः केरलस्य आरक्षकाधिकारिस्थाने पुनर्नियुक्तः। पिणरायि विजयस्य नेतृत्वे केरले नूतनसर्वकारस्य स्थानारोहणमनुबन्ध्य आसीत् डि जि पि स्थानात् सेन्कुमारस्य स्थानभ्रंशः। तद्विरुध्य सः सर्वोच्चन्यायालये याचिकां समर्पितवान्। व्यवहारे सेन्कुमारः अनुकूलविधिं सम्पादितवानपि सर्वकारः व्यक्ततायाचिकां समर्प्य नियुक्तिं विलम्बीकर्तुम् उद्युक्तोsभवत्। नीतीपीठं व्यक्ततायाचिकां निरस्य सर्वकारे भर्त्सिते सेन्कुमारस्य नियुक्तिं कृत्वा मुख्यमन्त्रिणः आदेशः आगतः।
भारते सर्वत्र संस्कृतप्रचरणान्दोलनस्य कालः ।
![]() |
| पि आर् नाथः संस्कृतप्रशिक्षण-शिबिरस्य उद्घाटनं करोति। |
भारतस्य विविधेषु प्रदेशेषु संस्कृतभारत्याः प्रयत्नेन संस्कृतशिक्षा प्रचलति। सर्वकारस्य साह्यं विना संस्कृतभारत्या: कृता:प्रयत्ना: श्लाघनीया:।
मलप्पुरदेशे आरब्धे संस्कृतशिक्षक-प्रशिक्षण-सत्रे ४१ शिक्षार्थिनः भागं स्वीकृतवन्तः। सत्रस्य उद्घाटनं साहित्यनिपुणेन पि आर् नाथन् वर्येण कृतम्। स्वागतभाषणं नारायणन् अटितिरिप्पाट् वर्यः अकरोत् । पार्वतीनम्बीशन् समारोहस्य अध्यक्षा आसीत्। मेय् मासस्य षोडशदिनाङ्के सत्रं सम्पूर्णं भविष्यति।
Saturday, May 6, 2017
जीवति संस्कृतं संस्कृति सम्पन्ना- वेङ्कय्यनायिडु।
नव दिल्ली>संस्कृतभाषायाम् संपादिता प्रथमा पुस्तकमाला "स्वच्छ काननस्य कथा, मातामह्या कथिता" गते गुरुवासरे नवदेहल्यां केंद्रीय-सूचना-प्रसारण-मंत्रिणा श्री वेंकैयानायडू-महोदयेन लोकर्पिता जाता। संस्कृति सम्पन्ना संस्कृतभाषा जीवतिI अतः बहूनि पुस्तकानि संस्कृतभाषायाम् अविर्भवन्ति च इति वेङ्कय्यनायिडु महोदयेन उक्तम्।भारत-सर्वकारस्य सूचना-प्रसारण-मंत्रालयान्तर्गत-प्रकाशनविभागेन प्रकाश्यमाना दशाधिक- पुस्तकानां मध्ये एषा प्रथमा पुस्तकमाला अस्ति।
हिंदी-भाषायां डॉ. मधु-पन्त-विरचिता "स्वच्छ जंगल की कहानी, दादी की जुबानी" नाम्नी पुस्तकमाला संस्कृते स्वनामधान्येन विख्यात- विदुषा डॉ. बलादेवानंद-सागर-महाभागेन अनूदिता।
एषा पुस्तकमाला प्रकाशनविभागस्य "एक भारत-श्रेष्ठ भारत" शृंखलान्तर्गतं 15-भारतीय- भाषासु अनूदिता। बालसहज-काव्यरूप- पुस्तकेषु एतेषु स्वच्छता-आचारणाय प्रोत्साहनं प्रदीयते।
एतेषां पुस्तकानां गुजराती-भाषिकोsनुवाद: अपि डॉ.बलदेवानन्द-सागरेण विहितोsस्ति ।
एस् एस् एल् सि २०१७ - विजयः प्रतिशतं ९५.९८
कोच्ची> केरले अध्ययनप्रणालीपरिष्करणानन्तरं प्रथमतया आयोजितायाः दशमीकक्ष्यापरीक्षायाः मूल्यनिर्णयफलं प्रसिद्धीकृतम्। सार्धचतुर्लक्षाधिकं छात्रेषु परीक्षां लिखितवत्सु सप्तत्रिंशत्सहस्राधिकचतुर्लक्षं छात्राः उपरिपठनार्हतां प्राप्तवन्तः। [प्रतिशतं ९५.९८]।सप्तषष्ट्यधिक नवशतोत्तर विंशतिसहस्रं छात्राः सर्वेषु विषयेषु ए-प्लस् श्रेणीं प्राप्तवन्तः।[ प्रतिशतं ४.६]। प्रतिशतविजये पत्तनंतिट्टा जिल्ला प्रथमस्थानं प्राप्तवती - ९८.८२ प्रतिशतम्।अन्तिमस्थाने तु वयनाट् जिल्ला - ८९.६५ प्रतिशतम्। ११७४ विद्यालयेषु सर्वे छात्राः विजयीभूताः। तेषु सर्वकारविद्यालयानां संख्या ४०५ भवन्ति।
निर्भया विषये मृत्युदण्डनम् अङ्गीकृतम्।
नवदिल्ली > राष्ट्रवित्रस्ते निर्भयायाः उपरि कृतबलात्कारहत्याविषये यत् उच्चन्यायालयेन विहितं चतुर्णामपि अपराधिनां मृत्युदण्डनं तत् सर्वोच्चन्यायालयेन अङ्गीकृतम्। मृत्युदण्डः निराकरणीयः इति अपराधिभिः समर्पितम् आवेदनं नीतिपीठेन निरस्तम्। निर्लज्जं राक्षसीयम् अतिक्रूरं च आक्रमणमेव अपराधिभिः कृतमिति न्याय. दीपक् मिश्रा वर्यस्य अाध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन उक्तम्। मृत्युदण्डं विधातुं युक्तः अपूर्वेषु अपूर्वंः व्यवहारः भवत्येष इति नीतिपीठेन निरीक्षितम्। अपराधिनां कृते उच्चन्यायालयेन विहितं मृत्युदण्डं निरस्य आजीवनान्तः कारागारवासः कल्पनीयः इति अमिक्कस् क्यूरि न्यायाधीशैः परिदेवनं कृतमित्यतः आकाङ्क्षापूर्वमेव राष्ट्रं विधिं प्रतिक्ष्यमाणम् अवर्तत।
निर्वाचनयन्त्रम् - द्वादशदिनाङ्के सर्व सदस्यमेलनम् ।
नवदेहली> निर्वाचनयन्त्रेषु दोषारोपणमधिकृत्य चर्चितुं यन्त्राणि सुरक्षितानि इति स्थापयितुं च निर्वाचनाधिकृतः सर्वसदस्यमेलनाय आह्वानमकरोत् ।अस्मिन् मासे द्वादशदिनाङ्के देहलीस्थे निर्वाचनसदने एव मेलनम् । उत्तरप्रदेशनियमसभानिर्वाचने देहलीतद्देशनिर्वाचने च बा. ज. पा. दलस्य महाविजयप्राप्तौ एव निर्वाचनयन्त्रेषु दोषानारोप्य आम् आद्मी दलीयाः, बि. एस् . पि. दलीयाः च अग्रे आगाता: ।
अस्मिन् सन्दर्भे सर्वसदस्यमेलनाय आह्वानम् कर्तुं यन्त्रेषु दोषाविष्करणमसाध्यमिति स्थापयितुं च निर्वाचनाधिकृत: स्पष्टीकरोति स्म ।
Friday, May 5, 2017
G SAT 9 प्रतिवेशिकराष्ट्राणां कृते भारतस्य उपहारः
नवदिल्ली>सार्कसाटलेट् उपग्रहविक्षेपणम् अद्य सम्पन्नम्। दक्षिणएष्या
राष्ट्रेभ्यः उपहाररूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः
वाग्दानं याथार्तः अभवत्। जि साट् ९ उपग्रहः मय्
मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो
प्रभाषणे मन् की बात् मध्ये प्रख्यपितम् आसीत् ।ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं अकरोत्। पूर्वं सार्कसाटलेट् इति आसीत् नाम। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम् अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।
काश्मीरसम्बन्धिन्यः समस्याः, राष्ट्रस्य हस्तक्षेपः नास्तीति चैना।
बैय्जिङ्- काश्मीर समस्या भारतस्य पाक्किस्थानस्य च मध्ये वर्तते। तत्र मध्यस्थचर्चायै नास्तीति चैना। काश्मीर विषये चैनायाः स्थानं व्यक्तं स्थिरं च भवति। भारतस्य पाक्किस्थानस्य च इतिहासस्य भागमस्ति काश्मीर संम्बन्धीनि समस्याः ।उभयकक्षि चर्चाभिः ताः परिहर्तव्याः इति चैनीस् विदेशकार्य मन्त्रालयेन विज्ञापितम्। काश्मीर विषये तृतीयस्य राष्ट्रस्य हस्ताक्षेपः सर्वदा भारतं न इच्छति।
तृश्शूर् पूरं - स्फोटकोत्सवाय सोपाधिकानुमतिः।
तृश्शिवपेरूर् > तृश्शूर् पूरम् इति विख्यातस्य तृश्शिवपेरूर् मन्दिरोत्सवस्य अंशत्वेन प्रचाल्यमानाय स्फोटकोत्सवाय सोपाधिकानुमतिः। तीव्रध्वनियुक्तानि निरुद्धरासवस्तुयुक्तानि च स्फोटकानि अपहाय परम्परागतस्फोटकपदानि उपयोक्तुं स्फोटकनियन्त्रणाधिकारिणा अनुमतिः लब्धा। श्व एव तृश्शूर् पूरम्। ह्यः सम्पन्नः आदर्शस्फोटकोत्सवः शब्दकठोरात् नयनमनोहरेण वर्णसङ्घातेन आस्वाद्यकरः आसीत्।
कोच्ची मेट्रो सुरक्षा अवलोकनम् अद्य समाप्यते।
कोच्ची >यात्रानुमत्याः परिकल्पनाय दिनत्रयेण क्रियमाणं कोच्ची मेट्रो रेल् यानयोजनायाः सुरक्षावलोकनं शुक्रवासरे समाप्यते। सुरक्षाधिकारिणः के ए मनोहरस्य नेतृत्वे विद्यमानेन सङ्घेनैव अवलोकनं क्रियते।आलुवा निस्थानात् बुधवासरे आरब्धं निरीक्षणं अद्य मुट्टं यार्ड् स्थानस्य अवलोकनेन समाप्यते। अस्य आवेदनम् अचिरेणैव समर्पयिष्यते। तदाधारीकृत्य सुरक्षाप्रमाणपत्रं लभते।
सीमायां पुनरपि पाकिस्थानस्य प्रकोपनम्; शक्तियुक्तम् प्रतिरुद्ध्य भारतसैन्यम्
श्रीनगरम्> जम्मु - काश्मीरस्य सीमायाम् अतिशक्तगोलिकास्त्रप्रयोगै: पुनरपि पाकिस्थानपक्षत: प्रकोपनम् । पूञ्च् मण्डलस्य मेन्दरमेखलायामेव पाक् मेखलासैनिका: अतितीव्रगोलिकास्त्रप्रयोगं कृतवन्त: । भारतम् च अतिशक्तम् प्रत्युत्तरम् अदात् । मेखलायाम् पाकिस्थानेन मध्ये मध्ये गोल्यस्त्रप्रयोग: क्रियमाण: वर्तते । सैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन । पाकिस्थानस्य अमुं आचरणम् प्रति भारतेन प्रत्याक्रमणसूचना दत्ता आसीत् । तन्मध्ये एव अनस्यूतं गोल्यस्त्रप्रयोगलङ्घननियमम् उल्लङ्घ्य पाकिस्थानेन प्रकोपनम् अनुवर्तते। प्रात: २.३० ( सार्ध द्विवादने ) आरब्धं गोल्यस्त्रवर्षम् घण्टात्रयं यावत् अनुवर्तितम्। द्वौ भारतसैनिकौ निष्ठुरं हत्वा मृतदेहौ प्रति अनादरम् आचरितम् पाकिस्थानेन इत्यत: अतिशक्तप्रतिरोधाय तथा प्रत्याक्रमणायापि केन्द्रसर्वकारै: सैन्याय सम्पूर्णस्वातन्त्र्यं दत्तम् ।
सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् पाकिस्थानं जाग्रतानिर्देशो दत्त:
नवदिल्ली >सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् प्रति उचितरीत्या प्रतिषेध: क्रियते इति असन्दिग्धभाषायाम् पाकिस्थानं प्रति भारतेन जाग्रतानिर्देशो दत्त:। षण्मासाभ्यन्तरे तृतीयवारमेव भारतसैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन। किन्तु सैनिकानाम् मृतदेहान् अनादृत्य किमपि न कृतवन्त: इति वादमुखम् उन्नीयत् पाकिस्थानम् भारतस्य प्रतिकरणं विमृशति च। तन्मध्ये षोप्पियाने मण्डलन्यायालयाङ्कणवर्तिनं आरक्षकस्तूपम् अतिक्रम्य आगता: भीकरा: सेनाया: गोलिकायुधान् गृहीत्वा गतवन्त:। रक्षाम् प्राप्तानाम् भीकराणां कृते अन्वेषणम् ऊर्जितम् अनुवर्तते । सन्दर्भेस्मिन् पञ्च आरक्षका: सेवनरताश्चेदपि एतान् अतिक्रम्य एव भीकरा: गोलिकायुधै: धाविता: । पञ्च आरक्षकान् अपि तात्कालिकरीत्या उद्योगात् निष्कासितवन्त: इति अधिकारिण: आवेदयन् । भूसेनामेधावी बिपिनरावत: श्रीनगरं सन्दर्श्य सुरक्षाक्रमीकरणस्य स्थितिं निरीक्षितवान् । तदनन्तरमेव पाकिस्थानस्य प्रकोपनम् ।।Thursday, May 4, 2017
कोलम्बस् वर्यस्य महानौकायाः नौकाबन्धी उपलब्धः।
वाषिङ्टण्> करीबियायाः द्वीपसमूहानां मध्ये सागरान्तर्भागात् लब्धा पुरातनी नौकाबन्धी क्रिस्तफर् कोलम्बस् वर्यस्य इति निधिग्राहकाः। लोकाधिनिवेशकालस्य पञ्चानां नौकानां छेदप्रदेशेषु कृते अन्वेषणे एव पुरातनवस्तुभिः सह नौकाबन्धी अपि उपलब्धः। डारल् मिल्कोस् भवति अन्वेषण सङ्घस्य अध्यक्षः।अमेरिक्का राष्ट्रस्य बाह्याकाश सञ्चारिणा गोर्डन् कूपर् नामकेन बाह्याकाशे स्थित्वा निर्मितेन भूमानचित्रमुपयुज्य आसीत् मिल्कोस् वर्यस्य अन्वेषणम्। डिस्कवरि वाहिनी द्वारा प्रसारिते कूप्पेस् ट्रषर् नाम श्रृङ्खलाकार्यक्रमे आसीत् अस्याः वार्तायाः प्रसारणम्।
कोलम्बस्
नवीनं लेकम् अन्विष्य १४९२ तः आरभ्य बहुवारं नौकायात्रां कृतवान्। १४९२ तमे ओक्टोबर् मासस्य १२ दिनाङ्के बहमास् द्वीपे नौका प्राप्ता। एषः भूखण्डः एव पश्चात् अमेरिका इति प्रख्यातः। तत्पूर्वं तादृशः भूखण्डः अस्ति इति ज्ञानं लोके नासीत्I
नौकाबन्धिनः कालः
५४५-६८० किलो मितः भवति नौकाबन्धिनां भारः। कोलम्बस् वर्यस्य कालेषु नौका बन्धिनीनां भारः एतदेव भवति। अयं बन्धी स्पेयिन् राष्ट्रे निर्मितः इति गोवषकाः अभिप्रयन्ति। स्पेयिन् राष्ट्रस्य राज्ञः अनुज्ञया आसीत् कोलम्बस् वर्यस्य समुद्रयात्रा।
दूरदर्शनं, आकाशवाणी आवेदनं श्रोतुं केन्द्र सर्वकारस्य संविधानम्।

नवदेहली>दूरदर्शनं भिन्नतरङ्गस्थाः, आकाशवाणी,एफ् एम् आकाशवाणी,सामाजिकाकाशवाणी इत्यादीनां कार्यक्रमाः, वार्ताः, विज्ञप्तिः इत्यादीन् अवलम्ब्य जनानाम् आक्षेपान् अभिप्पायान् च विमर्शयितुं अथवा परिगणयितुं केन्द्र सर्वकारेण सौविध्यं कृतम्।सर्वकारस्तरे प्रथमवारम् एवं कार्यान्वयनम्।
जिल्लायां जिल्ला मजिस्ट्रेट् , आरक्षक कम्मीषणर् च स्तः अस्य अधिकारिणौ। सामान्यजनाः आवेदनानि तयोः सकाशे दातुं प्रभवन्ति। तस्मादतिरिच्य केन्द्र सर्वकारस्य pgportal.gov.in द्वारा अपि अवेदनानि दातुं शक्यते।
समीपस्थ-राष्ट्राणां कृते भारतस्य उपहारः
सार्कसाटलेट् उपग्रह विक्षेपणं मेय् मासे पञ्चम दिनांके दक्षिणएष्या राष्ट्रेभ्यःउपहारः रूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं मेय् मासे पञ्चम दिनांके याथार्तः भवति। जि साट् ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम्।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं करिष्यति। पूर्वं सार्कसाटलेट् इति नामकरणम् अकरोत्। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम् अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।
जम्मूकाश्मीरराज्ये पुनः भीकराक्रमणम्। सप्त हताः तेषु पञ्च आरक्षकः।
नवदेहली>जमन्मूकाश्मीरराज्ये भीकरैः कृते आक्रमणे पञ्च आरक्षकाः द्वे वित्तकोश कार्यकर्तारः च हताः। जम्मु आण्ट् काश्मीर वित्तकोशस्य कुल्गां शाखां रूप्यकाणि स्वीकृत्य गच्छन्तं वाहनं प्रति आसीत् आक्रमणम्। क्षतबाधिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः।धनापहरणमासीत् भीकराणां लक्ष्यम्। किन्तु सुरक्षा कार्यकतॄणां परिश्रमेण तत् श्रमं पराजितम्। पलायितान् भीकरान् सुरक्षा कर्मकराणाम् अन्वेषणम् ऊर्जितं जातम्।
अद्य प्रातः पूञ्च् जिल्लायां नियन्त्रणरेखायाः समीपे क्षेपणी आक्रमणेन पाक् सेनया द्वे भारतीयौ सैनिकौ हतौ। तयोः मृतदेहौ विकृतौ कारितौ च। तस्य प्रतिक्रिया करिष्यतीति भारतीयसेनया व्यक्तीकृतम्। तस्य अनन्तरमस्ति एतत् आक्रमणम्।
अनन्तनाग् उपनिर्वाचनं निरस्तम्।
नवदिल्ली>जम्मु काशमीरे अनन्तनाग् लोकसभामण्डले मेय् पञ्चविंशतितमे दिनाङ्के कर्तुं निश्चितम् उपनिर्वाचनं निर्वाचनशासनेन अपाकृतम्। जम्मु काश्मीरे अनुवर्तमानस्य भीकराक्रमणस्य सङ्घर्षस्य च आधारे एव एतादृशः निर्णयः।एप्रिल् द्वादशदिनाङ्के निर्णीतं निर्वाचनमासीत् मेय् मासं परिवर्तितम्। किन्तु इदानीम् ओक्टोबर् मासे उपनिर्वाचनं कर्तुमेव पर्यालोचना वर्तते।
Subscribe to:
Posts (Atom)




