OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 1, 2026

 केरले व्यापकतया तीव्रा वृष्टिः। 

इटुक्की, कोट्टयं जनपदद्वये भूस्खलनम्। 


त्रयः मृताः, नैके तिरोभूताः। 

नद्यः आप्लुतोदकाः, रान्नी नगरं पूर्णतया लग्नं;  आपणेषु संगृहीतानि पण्यवस्तूनि विनष्टानि। 

पत्तनंतिट्टा> केरले वृष्टिः अतितीव्रायते। इटुक्की, कोट्टयं जनपदस्थयोः प्रदेशद्वये अद्य प्रत्युषसि भूस्खलनम् अभवत्। इटुक्कीजनपदे अडूर्मला इत्यत्र दुरापन्ने भूस्खलने एका महिला मृता। कोट्टयं जनपदे पय्यानित्तोट्टम् इत्यत्र मृत्खलने एकः मृतः। दुरन्ते अदृष्टां तस्य पत्नीमधिकृत्य अन्वेषणमारब्धम्। कोलाहलमेट् प्रदेशे मृत्स्खलनेन एकः मृतः। 

  भूस्खलनेन दुरापन्ने तीव्रे वृष्टिजलप्रवाहे पम्पानदी आप्ल्तोदका जाता। पत्तनंतिट्टाजनपदस्थे रान्नी नगरं जले  निमग्ना। नगरं पूर्णतया पृथक्कृतम्। गृहेषु आपणेषु च जलोपप्लवः जातः। आपणेषु श्रावणोत्सवकालविपणनम् उद्दिश्य संभृतानि वस्तूनि विनष्टानि। 

  पम्पा, पूयंकुट्टी, मणिमला, कक्काट्, अच्चन्कोविल् इत्याद्यः दक्षिणकेरलनद्यः जलोपप्लाविताः जाताः। निम्नप्रदेशाः जलनिमग्नाः अभवन्।