OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 4, 2017

दूरदर्शनं, आकाशवाणी आवेदनं श्रोतुं केन्द्र सर्वकारस्य संविधानम्।

नवदेहली>दूरदर्शनं भिन्नतरङ्गस्थाः, आकाशवाणी,एफ् एम् आकाशवाणी,सामाजिकाकाशवाणी इत्यादीनां कार्यक्रमाः, वार्ताः, विज्ञप्तिः इत्यादीन् अवलम्ब्य जनानाम् आक्षेपान् अभिप्पायान् च विमर्शयितुं अथवा परिगणयितुं केन्द्र सर्वकारेण सौविध्यं कृतम्।
सर्वकारस्तरे प्रथमवारम् एवं कार्यान्वयनम्।
जिल्लायां जिल्ला मजिस्ट्रेट् , आरक्षक कम्मीषणर् च स्तः अस्य अधिकारिणौ। सामान्यजनाः आवेदनानि तयोः सकाशे दातुं प्रभवन्ति। तस्मादतिरिच्य केन्द्र सर्वकारस्य pgportal.gov.in द्वारा अपि अवेदनानि दातुं शक्यते।

समीपस्थ-राष्ट्राणां कृते भारतस्य उपहारः
सार्कसाटलेट् उपग्रह विक्षेपणं मेय् मासे पञ्चम दिनांके दक्षिणएष्या राष्ट्रेभ्यःउपहारः रूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं मेय् मासे पञ्चम दिनांके याथार्तः भवति।  जि साट्  ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम्।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं करिष्यति।  पूर्वं सार्कसाटलेट् इति नामकरणम् अकरोत्। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम्  अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।