OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 1, 2026

 नेपाले वर्गीयसंघर्षः - त्रयः मृताः। 

काठ्मण्डुः> नेपालस्य भारतसीमाप्रदेशे प्रवृत्ते वर्गीयसंघर्षे त्रयः जनाः मृत्युमुपगताः। जनाः अक्रममार्गं परित्यज्य ऐक्यं शान्तिं च पुनःस्वीकुर्युः इति नेपालस्य प्रधानमन्त्री बलेन्द्र शाहः अभ्यर्थितवान्। 

  गते रविवासरे कोशि प्रान्ते देवगञ्ज् इत्यत्र आरब्धः संघर्षः क्रमेण समीपजनपदेष्वपि व्यापृतः। विभिन्नजातिद्वयेन एकस्मिन् समये आयोजितयोः कार्यक्रमयोः उच्चभाषिणी, धर्मचिह्नानि, पताकाः इत्यादीनाम्  उपयोगसंबन्धे विवादे द्वयोः प्रतिद्वन्द्वः एव परं व्यापकाक्रमेषु हत्यायां च पर्यणमयत्।