OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 6, 2017

 एस् एस् एल् सि २०१७ - विजयः प्रतिशतं ९५.९८ 
कोच्ची> केरले अध्ययनप्रणालीपरिष्करणानन्तरं प्रथमतया आयोजितायाः दशमीकक्ष्यापरीक्षायाः मूल्यनिर्णयफलं प्रसिद्धीकृतम्। सार्धचतुर्लक्षाधिकं छात्रेषु परीक्षां लिखितवत्सु सप्तत्रिंशत्सहस्राधिकचतुर्लक्षं छात्राः उपरिपठनार्हतां प्राप्तवन्तः। [प्रतिशतं ९५.९८]।
   सप्तषष्ट्यधिक नवशतोत्तर विंशतिसहस्रं छात्राः सर्वेषु विषयेषु   ए-प्लस् श्रेणीं प्राप्तवन्तः।[ प्रतिशतं ४.६]। प्रतिशतविजये पत्तनंतिट्टा जिल्ला प्रथमस्थानं प्राप्तवती - ९८.८२ प्रतिशतम्।अन्तिमस्थाने तु वयनाट् जिल्ला - ८९.६५ प्रतिशतम्। ११७४ विद्यालयेषु सर्वे छात्राः विजयीभूताः। तेषु सर्वकारविद्यालयानां संख्या ४०५ भवन्ति।


 निर्भया विषये मृत्युदण्डनम् अङ्गीकृतम्। 
नवदिल्ली > राष्ट्रवित्रस्ते निर्भयायाः उपरि कृतबलात्कारहत्याविषये यत् उच्चन्यायालयेन विहितं  चतुर्णामपि अपराधिनां मृत्युदण्डनं तत् सर्वोच्चन्यायालयेन अङ्गीकृतम्। मृत्युदण्डः निराकरणीयः इति अपराधिभिः समर्पितम् आवेदनं नीतिपीठेन निरस्तम्।  निर्लज्जं राक्षसीयम् अतिक्रूरं च आक्रमणमेव अपराधिभिः कृतमिति न्याय. दीपक् मिश्रा वर्यस्य अाध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन उक्तम्। मृत्युदण्डं  विधातुं युक्तः अपूर्वेषु अपूर्वंः व्यवहारः भवत्येष इति नीतिपीठेन निरीक्षितम्।
    अपराधिनां कृते उच्चन्यायालयेन  विहितं मृत्युदण्डं निरस्य आजीवनान्तः कारागारवासः कल्पनीयः इति अमिक्कस् क्यूरि न्यायाधीशैः परिदेवनं कृतमित्यतः आकाङ्क्षापूर्वमेव राष्ट्रं विधिं प्रतिक्ष्यमाणम् अवर्तत।