OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 7, 2017

सर्वोच्चन्यायालयस्य आदेशे टि पि सेन्कुमारस्य  पुनर्नियुक्तिः।
नवदिल्ली> केरलसर्वकारस्य याचिकां पुनर्याचिकां च निरस्य सर्वोच्चनीतिपीठस्य कर्कशादेशम् अनुसृत्य गतसंवत्सरे स्थानभ्रष्टः टि पि सेन्कुमारः  केरलस्य आरक्षकाधिकारिस्थाने पुनर्नियुक्तः। पिणरायि विजयस्य नेतृत्वे केरले नूतनसर्वकारस्य स्थानारोहणमनुबन्ध्य आसीत्  डि जि पि स्थानात् सेन्कुमारस्य स्थानभ्रंशः। तद्विरुध्य सः सर्वोच्चन्यायालये याचिकां समर्पितवान्।
    व्यवहारे सेन्कुमारः अनुकूलविधिं सम्पादितवानपि सर्वकारः व्यक्ततायाचिकां समर्प्य नियुक्तिं विलम्बीकर्तुम् उद्युक्तोsभवत्। नीतीपीठं व्यक्ततायाचिकां निरस्य सर्वकारे भर्त्सिते सेन्कुमारस्य नियुक्तिं कृत्वा मुख्यमन्त्रिणः आदेशः आगतः।