OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 8, 2017

नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं   आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं  मोदिनः सकाशे एव  वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत्  तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः।  २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।