OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 4, 2017

कोलम्बस् वर्यस्य महानौकायाः नौकाबन्धी उपलब्धः।
वाषिङ्टण्>  करीबियायाः द्वीपसमूहानां मध्ये सागरान्तर्भागात् लब्धा पुरातनी नौकाबन्धी क्रिस्तफर् कोलम्बस् वर्यस्य इति निधिग्राहकाः। लोकाधिनिवेशकालस्य पञ्चानां नौकानां छेदप्रदेशेषु कृते अन्वेषणे एव पुरातनवस्तुभिः सह नौकाबन्धी अपि उपलब्धः। डारल् मिल्कोस् भवति अन्वेषण सङ्घस्य अध्यक्षः।
अमेरिक्का राष्ट्रस्य बाह्याकाश सञ्चारिणा गोर्डन् कूपर् नामकेन बाह्याकाशे स्थित्वा निर्मितेन भूमानचित्रमुपयुज्य आसीत् मिल्कोस् वर्यस्य अन्वेषणम्। डिस्कवरि वाहिनी द्वारा प्रसारिते कूप्पेस् ट्रषर् नाम श्रृङ्खलाकार्यक्रमे आसीत् अस्याः वार्तायाः प्रसारणम्।

कोलम्बस्
नवीनं लेकम् अन्विष्य १४९२ तः आरभ्य बहुवारं नौकायात्रां कृतवान्।  १४९२ तमे ओक्टोबर् मासस्य १२ दिनाङ्के बहमास् द्वीपे नौका प्राप्ता। एषः भूखण्डः एव पश्चात् अमेरिका इति प्रख्यातः। तत्पूर्वं तादृशः भूखण्डः अस्ति इति ज्ञानं लोके नासीत्I

नौकाबन्धिनः कालः 
५४५-६८० किलो मितः भवति नौकाबन्धिनां भारः। कोलम्बस् वर्यस्य कालेषु नौका बन्धिनीनां भारः एतदेव भवति। अयं बन्धी स्पेयिन् राष्ट्रे निर्मितः इति गोवषकाः अभिप्रयन्ति। स्पेयिन् राष्ट्रस्य राज्ञः अनुज्ञया आसीत् कोलम्बस् वर्यस्य समुद्रयात्रा।