OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 4, 2017

जम्मूकाश्मीरराज्ये पुनः भीकराक्रमणम्। सप्त हताः तेषु पञ्च आरक्षकः।
नवदेहली>जमन्मूकाश्मीरराज्ये भीकरैः कृते आक्रमणे पञ्च आरक्षकाः द्वे वित्तकोश कार्यकर्तारः च हताः। जम्मु आण्ट् काश्मीर वित्तकोशस्य कुल्गां शाखां रूप्यकाणि स्वीकृत्य गच्छन्तं वाहनं प्रति आसीत् आक्रमणम्। क्षतबाधिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः।
धनापहरणमासीत् भीकराणां लक्ष्यम्। किन्तु सुरक्षा कार्यकतॄणां परिश्रमेण तत् श्रमं पराजितम्। पलायितान् भीकरान् सुरक्षा कर्मकराणाम् अन्वेषणम् ऊर्जितं जातम्।
 अद्य प्रातः पूञ्च् जिल्लायां नियन्त्रणरेखायाः समीपे क्षेपणी आक्रमणेन पाक् सेनया द्वे भारतीयौ सैनिकौ हतौ। तयोः मृतदेहौ विकृतौ कारितौ च। तस्य प्रतिक्रिया करिष्यतीति भारतीयसेनया व्यक्तीकृतम्। तस्य अनन्तरमस्ति एतत् आक्रमणम्।

अनन्तनाग् उपनिर्वाचनं निरस्तम्।
नवदिल्ली>जम्मु काशमीरे अनन्तनाग् लोकसभामण्डले मेय् पञ्चविंशतितमे दिनाङ्के कर्तुं निश्चितम् उपनिर्वाचनं निर्वाचनशासनेन अपाकृतम्। जम्मु काश्मीरे अनुवर्तमानस्य भीकराक्रमणस्य सङ्घर्षस्य च आधारे एव एतादृशः निर्णयः।
    एप्रिल् द्वादशदिनाङ्के निर्णीतं निर्वाचनमासीत् मेय् मासं परिवर्तितम्। किन्तु इदानीम् ओक्टोबर् मासे उपनिर्वाचनं कर्तुमेव पर्यालोचना वर्तते।