OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 1, 2026

 राष्ट्रमण्डलक्रीडा

जूडोस्पर्धायां भारतस्य द्वे सुवर्णे। 

अस्मिता डे,      हर्ष सिंह च। 

ग्लास्गौ> राष्ट्रमण्डलक्रीडायाः जूडोस्पर्धायां भारतस्य चरित्रोपलब्धिः। महिलाविभागे ४८ किलो विभागस्य भारोद्वहनस्पर्धायाम् अस्मिता डे नामिका, पुरुषविभागस्य  ६० किलो विभागे हर्षसिंहः च सुवर्णं प्राप्य भारताय नूतनचरितं रचयामासतुः। 

  कानडायाः हैदी क्वाष् नामिकामेव अस्मिता पराजापयत। निश्चितसमये उभे अपि १-१ इति समस्थितौ आस्ताम्। ततः 'सुवर्णाङ्कसमये' [Golden point] प्रथमतया अङ्कं सम्पाद्य सुवर्णविजेत्री अभवत्। त्रिपुरा निवासिनी अस्ति २३ वयस्का अस्मिता डे। 

  आस्ट्रेलियायाः ओलिम्पिक् वीरं जोष्वा कट्स् इत्येनेन सह   प्रतिद्वन्द्वे एकपक्षीयेन पराजित्य [१०-०] अस्ति हर्षसिहस्य सुवर्णप्राप्तिः।  प्रथममञ्चप्रतिद्वन्द्वे अस्ति २३ वयस्कस्य तस्य सुवर्णविजयः इति विशेषः। 

  भारोद्वहनस्य अतिभारविभागे [heavy weight +110 किलो] लव प्रीतसिंहः रजतं सम्प्राप्तवान्। महिलानां चक्रक्षेपस्पर्धायां सीमा काली राम ना नामिका कांस्यपदकं च सम्प्राप्तवती। इदानीं ५ सुवर्णानि, १० रजतानि, ४ कांस्यानि च सम्प्राप्य आहत्य १९ पदकैः भारतं नवमस्थाने वर्तते।