OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 7, 2017

भारते सर्वत्र संस्कृतप्रचरणान्दोलनस्य कालः ।
पि आर् नाथः संस्कृतप्रशिक्षण-शिबिरस्य उद्घाटनं करोति।
मलप्पुरम् > आभारतं प्रचलति संस्कृतान्दोलनम्। प्रमुखेषु वार्तामाध्यमेषु संस्कृत संबन्धिन्यः वार्ताः नागच्छन्ति चेदपि वार्ताप्रकाशने वार्तामाध्यमाः श्रद्धालवः एव। संस्कृतस्य प्राधान्यम् अस्मिन् अन्तर्जालयुगेsपि अस्ति इति जनानां संस्कृताभिमुख्यं निदर्शनमेव।
भारतस्य विविधेषु प्रदेशेषु संस्कृतभारत्याः प्रयत्नेन संस्कृतशिक्षा प्रचलति। सर्वकारस्य साह्यं विना संस्कृतभारत्या: कृता:प्रयत्ना: श्लाघनीया:।
मलप्पुरदेशे आरब्धे संस्कृतशिक्षक-प्रशिक्षण-सत्रे ४१ शिक्षार्थिनः भागं स्वीकृतवन्तः।  सत्रस्य उद्‌घाटनं साहित्यनिपुणेन पि आर् नाथन् वर्येण कृतम्। स्वागतभाषणं नारायणन् अटितिरिप्पाट् वर्यः अकरोत्‌ । पार्वतीनम्बीशन् समारोहस्य अध्यक्षा आसीत्। मेय् मासस्य षोडशदिनाङ्के सत्रं सम्पूर्णं भविष्यति।