OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 14, 2016

अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।

कालटी > प्रञ्चम्या अखिल -केरळ-वेदप्रघोषण-सम्मेलनम् ह्यः सम्पूर्णताम् प्राप। अशीति (८० ) संख्यकाः वेदपण्डिताः पञ्चसप्तति (७५) संख्यकाः वेदविद्यार्थिनः च अस्मिन् मेलने भागभाजः अभवन्। केरलेषु विद्यमानेषु वेदविद्यापीठेषु पठन्तः छात्राः ऐते। केरलशैल्यां द्राविडशैल्यां च वेदाध्ययनं कृतवन्तः छात्राः वेदचतुष्टयात्‌ संहितां पठित्वा देवताप्रीत्यर्थं समर्पितवन्तः।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्.  गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।

 पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।

श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ्‌ तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।