OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 20, 2016

विवाहमण्डपे वरः मद्यं पीत्वा आगतवान्
वधू विवाहात् प्रतिनिवर्तितवती।

मेट्टुपाळयम् (तमिल्नाट्) > मद्यं पीत्वा आगतं वरं दृष्ट्वा वधू मूर्चिता पतिता च। समीपस्थम् अतुरालयं प्रापयित्वा प्राथमिक शुश्रूषाम् अदात्I अनन्तरं विवाहवेदिकायां प्रत्यागत्य विवाहे विप्रतिपत्तिः प्रकाशिता वध्वा।  वरः (२७ वयस्क:) बंग्ळामेट् देशीयः, वधू (२३ वयस्का) एल्.एस्‌.पुरम् देशीया च।
मित्रैः सह सुरां पीत्वा वेदिकायां 'समागतः' वरः नष्टप्रज्ञः आसीत्। वधोः समीपमुपविश्य चापलभाषणं कुर्वतस्य तस्य मुखात् आगतेन मद्यस्य रूक्षगन्धेन वधू मूर्चिता आसीत् च।
अस्मिन् विवाहे वध्वा विप्रतिपत्तिप्रख्यापनं श्रुत्वा लोकाः प्रथमं स्तब्धाः अभवन् । चेदपि इदानीं तस्यै विविधेभ्यः देशेभ्यः अभिनन्दनानां प्रवाहः एव।


पलास्तिक व्यापाराय शुल्कः,
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्‌।

नव दिल्ली> केन्द्रसर्वकारेण नूतना पलास्तिक-मालिन्य नियमः प्रख्यापितः षण्मासाभ्यन्तरेण आभारतं नियमः प्रबलः भविष्यति।
निशितव्यवस्थया निर्मिते शासने पञ्चाशत् (५०) अतिलघुमितः (Micron) अधः पलास्तिक-स्यूतानां निर्माणं शासन -विरुद्धं भवेत्। आभारतं प्रतिदिनं १५,००० टण्‌ मितं पलास्तिक मालिन्यानि जायन्ते। तस्मात् ९००० टण् मितं सञ्चित्य नाशयितुं शक्यते चेदपि ६००० टण् मितानि मालिन्यानि सञ्चयनं विना यत्र कुत्रापि वितीर्य स्थास्यन्ति।