OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 23, 2016

भारतस्य राष्ट्रिय-गानालापन-समये त्रुटिः।
महानटः अमिताभ बच्चः अपराधी इति।

कोल्कत्त > भारतस्य राष्ट्रिय-गानस्य दोषयुक्तालपनेन विश्वप्रसिद्धं महानटम् अमिताभ् बच्चं विरुध्य आरक्षकाणं पुरतः अक्षेपः। विंशति - विंशति विश्व चषकस्य भारत-पाकिस्थानस्य स्पर्धायाः पूर्वं भारतस्य राष्ट्रियगानालपनं कृतवानासीत्‌ अयम्। दिल्यां अशोकनगरस्य आरक्षकालये एव बच्चं विरुध्य आक्षेपः लब्धः।
उल्हास् पि. आर्. इति नामकेन आक्षेपः दत्तः। संविधानानुसारं द्विपञ्चाशत् (५२) निमेषाः एव एतस्य गानस्य आलपनकालः। किन्तु द्वाशीतिः (८२)निमेषानुपयुज्य आलपितः इत्यनेन अपराधः कृतः इत्येव आक्षेपः।



हरितन्यायाधिकरणः केरळे परिभ्रमणपीठम् आरभते।

कोच्ची > चिरकालप्रतिक्षायाः अन्ते केरळे देशीयहरितन्यायाधिकरणस्य परिभ्रमणपीठः आरभते । कोच्च्यां उच्चन्यायालयभवने सप्तमन्यायालये पीठस्य प्रवर्तनं प्रचलिष्यति। देशीयहरितन्यायाधिकरणस्य चतुर्थः परिभ्रमणपीठः भवति एषः।

ब्रस्सल्स् नगरे भीकराक्रमणं - ३५ मारिताः।

ब्रस्सल्स् >यूरोप् भूखण्डे बल्जियं राष्ट्रस्य राजधान्यां ब्रस्सल्स् नगरे ह्यः त्रिषु स्थानेषु संजातेषु स्फोटनेषु ३५ जनाः मारिताः । २०० परं व्रणिताः अभवन् । ऐ एस् इति भीकरसंस्थायाः मृत्युसन्नद्धयोद्धारः स्फोटनं कृतवन्त इति बल्जियं सर्वकारेण व्यक्तीकृतम् ।
प्रादेशिकसमयानुसारं प्रभाते सार्धाष्टवादने एव नगरस्थे विमाननिलये तथा मल्बिक् मेट्रो स्थाने च स्फोटनानि संवृत्तानि। यूरोप् भूखण्डः अपि आतङ्कवादभीषणे अन्तर्भूतः । गतनवंबरमासे पारीस् नगरे संवृत्ते आक्रमणे १३० पौराः हताः आसन्। तस्य आक्रमणस्य सूत्रधारः अब्दे सलामः चतुर्दिनेभ्यः पूर्वं ब्रस्सल् नगरादेव बन्धितः अभवत् ।