रष्यायां विमानदुर्घटना - ६२ हताः।
मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः । झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।
ओबाम क्यूबाभूमौ ; इदं चरितसन्दर्शनम् ।
२०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।