OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 2, 2016

विश्वस्य बृहदाकारकं व्यापारनगरं दुबाय् नगरे।

दुबाय् > दुबाय् नगरस्य कृते नूतना बृहत्तरा पद्वतिः आविष्कृता अस्ति। बृहदाकारकं निखिल-व्यापार-नगरम्। यू.ए.ई उपराष्ट्रपतिः, प्रधानमन्त्री तथा शासकः चअयं षेक् मुहम्मद् बिन् राषिद् अल्मक्त्तुं वर्येण पद्धतिः प्रख्यापिता।

पञ्चाशदधिक - पञ्चशत- लक्षं चतुरश्रपदे निर्मीयमानस्य नगरस्य त्रिंशत् ३० बिल्यन् दिर्हं व्ययः प्रतीक्ष्यते । दशवर्षाभ्यन्तरेण नगरनिर्मितिः भविष्यति। चतुर्भ्यः बृहत् भूखण्डेभ्यः पञ्चदशसहस्रं वणिज: अत्र भवेयुः। भारतीयानामपि अत्र अवसरः अस्ति। न केवलं मृत्तैलेन राष्ट्रपुरोगतिः शाक्यते। अतः आयः वर्धयितुं एतादृशः नूतनाविष्कारः अनिवार्यः इति हेल्सैल् सिट्टिं अवतार्य षैक्‌ मुहम्मदेन उक्तम्।

भविष्यनिधि आहरणे करः।, आदेशः पुनः परिशुध्यते। 

नवदिल्ली > कर्मकराणां भविष्यनिधेः धनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण पुनःपरिशुध्यते। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः अजायत।इदानीँ भविष्यनिध्याहरणे कोपि करः न क्रियते। आयव्ययपत्रकनिर्देशं विरुध्य भारते सर्वत्र प्रक्षोभासूत्रणानि सम्पद्यन्ते।

कनय्यां विरुध्य दृश्यानि व्याजानि।

 नवदिल्ली > देशद्रोहापराधेन गृहीतं जे एन् यू छात्रनेतारं कनय्याकुमारं विरुध्य समर्पितेषु चलनदृश्येषु दृश्यद्वयं कृत्रिमेण निर्मितमिति  फोरन्सिक् आवेदनपत्रं बहिरागतम्। कनय्याकुमारस्य प्रतिभूति वि मुक्ति याचिकाश्रवणम् अद्य संपद्यते।
देशद्रोहापराधेन गृहीतौ उमर् खालिद् अनिर्बन् भट्टाचार्यौ १४ दिवसीयकारागारवासाय विहितौ ।