OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 27, 2016

निलीयमानान् निरीक्षितुं सैन्यस्य " दिव्यचक्षुः" ।
नवदिल्ली> भारतसैन्यस्य आक्रमणशक्तिं वर्धयितुं श्रेष्ठः लाभः भारतीय प्रतिरोध गवेषणसंस्थया प्राप्तः । सन्देहयुक्ते साहचर्ये भवनेषु अदृष्टिगोचरान् जनान् निरीक्षितुं तेर्मल् इमेजिंङ् रडार् इति नूतनयन्त्रविशेषः दिव्यचक्षुनाम्ना विकसितः।
भारतीयप्रतिरोधगवेषणसंसस्थायाः अधीने प्रवर्तमाना इलक्ट्रोणिक्स् &रडार् डवलप्मेन्ट् एस्टाब्लिष्मेन्ट् इति संस्था एवास्य साक्षाकारमकरोत् । भित्तिकातः २० मीटर् दूरस्थं व्यक्तिम् अभिज्ञातुम् अनेन रडार् उपकरणेन साध्यते । व्यक्तेः शरीरोष्माणं प्रत्यभिज्ञाय रडार् प्रवर्तते ।
  ६ किलोपरिमितं भारयुक्तस्य अस्य निर्माणव्ययः ३५ लक्षं रूप्यकाणि सन्ति ।बंगुलुरु आस्थानत्वेन वर्तमाने गवेषणकेन्द्रे अस्य भारं लघूकर्तुं परिश्रमः वर्तते।
  सैन्यस्य प्रयत्नः सफलः प्राप्स्यते चेत् मुम्बई, पठान्कोट् सदृशानि भीकराक्रमणानि  प्रतिरोद्धुं शक्यते इति विश्वासः ।

शुद्धजलं दुर्लभम्
आभारतम् जनाः अत्युष्णेन क्लेशम् आवहन्ति। नगरेषु  ग्रामेषु अपि जलमन्विष्य जनाः परिभ्रमन्ति। पक्षि-जन्तुजालान्यपि क्लेशमनुभवन्ति। सूर्याघातेन पतिताः मृताः च बहवः सन्ति। एवं स्थिते सति एकत्र नालिकायाः दोषेण जलं वृथा प्रवहन्ति। अन्यत्र जलस्य आगमनं प्रतीक्षय स्त्रियः बालिका-बालकाश्च तिष्ठिन्ति। तत्रवर्तमानेन कोलाहलेन जिल्ला अधिकारिभिः निरोधनाज्ञा ज्ञापिता च। भवतु सकलप्राणिनां जीवरक्षायै जलं नूनम् आवश्यकम् इति अद्यतन चिन्तायाः विषय:।


सामूहिक माध्यमानां कण्ठेषु अन्तर्जाल-आरक्षक-सेनायाः ग्रहणम्।

कोच्ची > सामूहिक - अन्तर्जालमाध्यमेषु भय - जुगुप्सोत्पादकानि चित्राणि उद्प्रावेशकाः मार्च् मासस्य अष्ठविंशाति दिनाङ्कतः अपराधिनः भवेयुः। सर्वोच्च न्यायालयस्य आदेशानुसारं तादृशान्‌ ग्रहीतुं निश्चितः अस्ति इति अन्तर्जाल-आरक्षकसेना विभागेन उक्तम्। भग्नशरीराणां चित्रेण यान-दुर्घटनायाः भीतिदचित्रेण वा जनानां मनसि विभ्रममुद्‌पातयन्तः दण्डमर्हति। तादृशचित्राणि चलनचित्रखण्डानि अश्लील चित्राणि च उद्‌प्रेषणीयाः अपराधिनः। तादृशान् ग्रहीतुं प्रत्येकं जिल्लायां पञ्च चत्वारिंशत् (४५) आरक्षकाः सज्जाः सन्ति।

क्रैस्तवानाम् अद्य 'ईस्टर्'

क्रैस्तवानाम् गुरोः क्रैस्ट् महाशयस्य पुनरुत्थानं स् मारयित्वा सर्वत्र विश्वे अद्य ईस्टर् आघुष्यते। आर्तरक्षामुद्दिश्य स्वजीवनं समर्पितवानयम्। स्वजीव: अपि दीनरक्षायै दादव्यम् इति महोत्सवस्य अस्य सङ्‌कल्पः।






कण्णूर् स्फोटनं -अपराधी ग्रहीतः।

कण्णूर् - केरले कण्णूर् जनपदे स्फोटकसामग्रीणां स्फोटनेन गृहाणि  भञ्जितानि , ६ जनाः व्रणिताः इत्यस्मिन् विषये मुख्यापराधी चालाट् स्वदेशीयः अनूप् कुमारः आरक्षकैः ग्रहीतः ।

गतगुरुवारे अर्धरात्रौ एव कण्णूर् पोटिक्कुण्ट् राजेन्द्रनगर् सहनिवाससमीपे गृहे ग्रामभीतिदं महत्स्फोटनं जातम् । गृहे परिरक्षितानि ५ लक्षरुप्यकमूल्यपरिमितानि अत्युग्रस्फोटकवस्तूनि विस्फोटितानि । द्वितलाट्टशूल-गृहमेतत् पूर्णतया विशीर्णम् । तत्रस्थं कार् यानमपि भग्नमभवत् ।  समीपस्थानि पञ्च गृहाणि नाशितानि ।
अनूपेन सह वासं कुर्वत्यौ राहिला पुत्री हिबा च गुरुतरेण आहतेन चिकित्सालयं प्रवेशिते । ४ प्रातिवेशिका अपि स्फोटने व्रणिताः अभवन् ।