OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 16, 2016

सिरियातः रप्यायाः सेना प्रत्यागच्छाति

 मोस्को> सिरियातः भागिकतया रष्यायाः सैनिकान् प्रतिनिवर्तयितुं राष्ट्रपतिः व्लाडिमिर् पुटिन् महाभागः निरदिशत्। सिरियायां शान्तिं संस्थापयितुं कृतेषु प्रयत्नेषु सहायकः अयं निदेशः इति पुटिन् महाभागेन उक्तम्।
किन्तु कति सैनिकाः इदानीं सिरियायां सन्तीति अनेन महोदयेन नोद्घाटितः ।

सेप्तंबर् ४ - माता तेरेसा विशुद्धा भविष्यति ।

वत्तिक्कान् सिटि>निरालंबानाम् अम्बा इति विख्याता मदर् तेरेसा सेप्तंबर् ४ दिनाङ्के फ्रान्सिस् मार्पापा वर्यात् विशुद्धपदं प्राप्स्यते। जीवनकाल एव परिशुद्धा इति विशेषणं प्राप्तवत्याः तस्याः परिशुद्धस्थानाय पाप्पावर्यस्य अनुमतिः लब्धा। रोमानगरे प्रख्यापनकार्यक्रमं प्रतीक्षते । कोल्कत्तायां कृतज्ञताप्रकाशनकार्याणि च अनुवर्तन्ते।


लोकेषु भीतिं प्रसार्य वित्तकोश चौर्यम्।

धाक्क> अन्तर्जाल-वित्तकोश सौकर्यमुपयुज्य बङ्ग्लादेश राष्ट्रस्य केन्द्र-वित्तकोशात्‌ ६८० कोटि रुप्यकाणि अमुष्णत् ।  अन्तर्जालमोषणेन खिन्नः वित्तकोशाध्यक्षः अतीउ रह्मान् त्यागपत्रं दत्तवान्। वित्तकोश चौर्येषु बृहत्तमम् आसीदिदम्। कश्चन राज्यस्य केन्द्रकोशः इदं प्रथमतया एव एतादृश मार्गेण चोरितः इति धनमन्त्रिणा ए.एम्.ए मुहित् वर्येण उक्तः।