OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 11, 2016


 उत्तराखण्ड् - भूरिमतं रावदनुकूलम्।

नवदिल्ली> राष्ट्रियानिश्चितत्वं विद्यमाने उत्तराखण्डराज्ये ह्यः भूरि-मतदानप्रक्रिया प्रचलिता। हरीष् रावतस्य नेतृत्वयुक्ताय कोण्ग्रस् सर्वकाराय ३३ सामाजिकानां सहयोगः लब्ध इति अनौद्योगिकसूचना अस्ति। मतदान-प्रक्रियायाः फलम् अद्य सर्वोच्चन्यायालये समर्पयिष्यते। तत् संशोध्य अद्य एव फलप्रख्यापनं भविष्यति।

द्विसहस्रं धनपञ्जीकृताधारिका (Account) प्रमाणेन साकं पानमा रेखा प्रसारिता।

वाषिङ्टण् > विश्व-राष्ट्रिय-नेता सहितानां प्रमुखाणां कुबेराणां  धनपञ्चीकृताधारिका प्रकाशिता। इयं रेखा अन्तर्जाले द्रष्टुं शक्यते। यू.एस् राष्ट्रकेन्द्रीकृतः अन्वेषणात्मकपत्रकारिता समित्या (ऐ सि ऐ जे)एव द्विसहस्राणं प्रमुखाणां जनानां आर्थिक विनिमयरेखा प्रकाशिताि।
रष्यायाः राष्ट्रपतिः व्लाटिमिर् पुटिन्, चीनायाः राष्ट्रपतिः षि चिन् पिङ् प्रभृतयः राष्ट्रप्रमुखाः सप्तति संख्याकाः राष्ट्राणाम्  अष्टविंशत्यधिकाः नेतारः अन्ये कुबेराश्च धनं निक्षिप्तवन्तः। पञ्चसहस्रं भारतीयकुबेराश्च पट्टिकायां सन्ति।

 पलास्तिकोपयोगः- नियन्त्रणं कठिनम्।

          
     बंगलूरु> बंगलूरुनगरे नगरसभापरिधौ पलास्तिक वस्तूनि सकाशं स्वीकृतानि चेत् दण्डनव्यवहारः कठिनः। बंगलूरु बृहत्महानगरपालिकाध्यक्षेण एन् मञ्जुनाथेन एतत् अधिकृत्य निर्देशः विज्ञापितः। पञ्चाशत् रुप्यकाणि दण्डन धनत्‍वेन स्वीकर्तुं  उद्योगस्थेभ्यः निर्देशः लब्धः अस्ति। अग्रिमदिने एव नियमोऽयं प्रबलम् आप्नोति।