OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 12, 2016

उत्तराखण्डे राष्ट्रपतिशासनं निवर्तितम्। 

नवदिल्ली >सार्धैकमासस्य नैतिकयुद्धस्य राजनैतिकानिश्चितत्वस्य चान्ते उत्तराखण्डराज्ये वर्तमानं राष्ट्रपतिशासनं निराकुरुत। हरीष् रावतस्य नेतृत्वे कोण्ग्रस् सर्वकारस्य अधिकार स्थानं प्रत्यागच्छति।
  रावतः भूरिमतं प्राप्त इति सर्वोच्चन्यायालयेन  विज्ञापितम्। तदनन्तरमेव राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिम् अभ्ययाचत।

 जलदौर्लभ्यम् - द्रुतव्यवहारः स्वीकरणीयः- उच्चतरन्यायालयः




  नवदहली> राष्ट्रे विविधेषु राज्येषु अनुभूयमानं जलदौर्लभ्यम् परिहर्तुं द्रुतव्यवहारं स्वीकर्तुम् केन्द्रसर्वकारं निर्दिश्य उच्चतरन्यायालयः।    केन्द्रकार्षिकमन्त्रालयं सप्ताहे एकवारं जलदौर्लभ्यस्य काठिन्यं अनुभूयमानानां बीहार्, गुजरात्, हरियाना इत्यादिराज्यानाम् उन्नतोद्योगस्थान् सम्मिल्य अवलोकनयोगः कार्यः इति उच्चतरन्यायालयेन निर्दिष्टम्। एवमेव कृषिनाशं अभिमुखीकृतेभ्यः कृषकेभ्यः उपशान्तिधनविनियोगाय सर्वकारसमितेः प्रवर्तनमपि शक्तं भवतु इत्यपि केन्द्रसर्वकारम् उच्चतरन्यायालयेन निर्दिष्टं भवति।

 'सम्भाषणभङ्गः, उपशान्तिधनाय उपभोक्तारः अर्हाः' - उच्चतरन्यायालयः।

    
   नवदहली> जंगमदूरवाणीम् उपयुज्य सम्भाषणमध्ये आह्वानभङ्गः जातः चेत् प्रक्षेपणसेवनदातृभिः जनेभ्यः उपशान्तिधनं दातव्यमिति उच्चतरन्यायालयस्य निर्देशः। उपशान्तिधनव्यवहारात् मोचनम् उन्नीय वोडफोन्, रिलयन्स्, ऐडिया इत्यादयः २१ प्रक्षेपणसंघाः उच्चतरन्यायालये निवेदनं समर्पितवन्तः आसन्। तेषां निवेदनस्य पर्यालोचन-वेलायामेव उच्चतर-न्यायालयेन अयं नूतन: निर्देश: कृतः। तथापि राष्ट्रे प्रक्षेपणाधिकारनियन्त्रणसमितेः (ट्राय् ) प्रवर्तनं कार्यक्षमं भवतु इत्यपि उच्चतरन्यायालयेन निर्दिष्टम्।

पुनरपि  आतङ्गवादिनाम् आक्रमणम्- सैनिकः मृतः

   जम्मूकाष्मीरः> जम्मूकाष्मीरे कुप्वारायाम् आतङ्गवादिनां सान्निध्यमस्तीति सूचनामनुसृत्‍य हनसारा मण्डलेषु वालसरवनेषु अन्वेषणं कृतस्य सुरक्षासैन्यस्योपरि आतङ्गवादिनाम् आक्रमणम्। सैन्येन प्रत्याक्रमणं च कृतम्। आक्रमणप्रत्याक्रमणयोः एकः सैनिकः मृतः वर्तते। आतङ्गवादिनां वासस्थानात् विविधानि शस्त्राणि स्फोटकवस्तूनि च लब्धानि सन्ति।