OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 10, 2016

जलादाने अधिक्षेपः ; कूपखननद्वारा दलितस्य प्रतिक्रिया। 

नाग् पूर् >यदा सार्वजनीनकूपात् जलं स्वीकर्तुमुद्युक्ता स्वपत्नी सवर्णजातीयेन अधिक्षिप्ता अभवत् तदा सन्तप्तहृदयः दलितयुवकः स्वयमेव कूपान्तरं खनित्वा ग्रामीणेभ्यः समर्प्य प्रतिक्रियां कृतवान्।
  महाराष्ट्रायां वाषिम् जनपदे कलम्बेश्वरग्रामे वसन् बाप्पु रावु ताजने ४० दिनानि अनुस्यूतं कर्म कृत्वा उच्चजातीयस्य अधिक्षेपं तरति स्म।
  गतमार्च् मासे एव घटनायाः आरम्भः। ताज्ने वर्यस्य गृहसमीपस्थाः त्रयः कूपाः एकः नालिकाकूपश्च शुष्काः जाताः। नातिदूरस्थात् सार्वजनीनकूपात् जलमानेतुं गतवती तस्य पत्नी आक्षिप्ता प्रत्यागतवती। अपमाननेन व्रणितहृदयः रावु ताजने झटित्येव समीपस्थं मालेगाव् नगरं गत्वा कूपखननोपकरणानि  क्रीत्वा आनीय एकहोराभ्यन्तरे एव स्वभूमौ कूपखननम् आरब्धवान्। उन्मत्त इति विचिन्त्य भार्या प्रातिवेशिकाश्च किमपि साहाय्यं न कृतवन्तः। तथापि ४० दिनैः कूपखननं सफलीकृत्य ग्रामवासिभ्यः यथेष्टं जलमदात्।
  ग्रामीणानां कृते जलसौलभ्यमेव स्वलक्ष्यः आसीदिति बिरुदपठनं पूर्तीकृतेन दिनवैतनिकेन उक्तम्।