OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 21, 2017

कणिका परीक्षणशालायै अनुज्ञा निरस्ता। 
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य  चेन्नैपीठेन निरस्ता।
      परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया  अन्वीक्षणं कारयितव्यमिति न्याया.  पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।


भारतीयमहिलाबैङ्कस्य विलयः
    महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।

मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
   मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य  विकासपथि नूतन पदक्षेपः समुत्थापितः |


उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम् 
   उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |


उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः 
   उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं  पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च  पूर्वस्थापितायां  विधिव्यवस्थायाम् परिवर्तनमपि करणीयम्  ।


महाराष्‍ट्रे चिकित्सकानां सामूहिकावकाशः
  मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु  सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्‍ये रोगिणां समस्‍यायाः संवर्धिताः |